धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 61

  1. [धृ] भयं मे सुमहज जातं विस्मयश चैव संजय शरुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम ॥ 1 ॥

  2. पुत्राणां च पराभवं शरुत्वा संजय सर्वशः चिन्ता मे महती सूत भविष्यति कथं तव इति ॥ 2 ॥

  3. धरुवं विदुर वाक्यानि धक्ष्यन्ति हृदयं मम यथा हि दृश्यते सर्वं दैवयॊगेन संजय ॥ 3 ॥

  4. यत्र भीष्म मुखाञ शूरान अस्त्रज्ञान यॊधसत्तमान पाण्डवानाम अनीकानि यॊधयन्ति परहारिणः ॥ 4 ॥

  5. केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः केन दत्तवरास तात किं वा जञानं विदन्ति ते येन कषयं न गच्छन्ति दिवि तारागणा इव ॥ 5 ॥

  6. पुनः पुनर न मृष्यामि हतं सैन्यं सम पाण्डवैः मय्य एव दण्डः पतति दैवात परमदारुणः ॥ 6 ॥

  7. यथावध्याः पाण्डुसुता यथा वध्याश च मे सुताः एतन मे सर्वम आचक्ष्व यथातत्त्वेन संजय ॥ 7 ॥

  8. न हि पारं परपश्यामि दुःखस्यास्य कथं चन समुद्रस्येव महतॊ भुजाभ्यां परतरन नरः ॥ 8 ॥

  9. पुत्राणां वयसनं मन्ये धरुवं पराप्तं सुदारुणम घातयिष्यति मे पुत्रान सर्वान भीमॊ न संशयः ॥ 9 ॥

  10. न हि पश्यामि तं वीरं यॊ मे रक्षेत सुतान रणे धरुवं विनाशः समरे पुत्राणां मम संजय ॥ 10 ॥

  11. तस्मान मे कारणं सूत युक्तिं चैव विशेषतः पृच्छतॊ ऽदय यथातत्त्वं सर्वम आख्यातुम अर्हसि ॥ 11 ॥

  12. दुर्यॊधनॊ ऽपि यच चक्रे दृष्ट्वा सवान विमुखान रणे भीष्मद्रॊणौ कृपश चैव सौबलेयॊ जयद्रथः दरौणिर वापि महेष्वासॊ विकर्णॊ वा महाबलः ॥ 12 ॥

  13. निश्चयॊ वापि कस तेषां तदा हय आसीन महात्मनाम विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय ॥ 13 ॥

  14. [स] शृणु राजन्न अवहितः शरुत्वा चैवावधारय नैव मन्त्रकृतं किं चिन नैव मायां तथाविधाम न वै विभीषिकां कां चिद राजन कुर्वन्ति पाण्डवाः ॥ 14 ॥

  15. युध्यन्ति ते यथान्यायं शक्तिमन्तश च संयुगे धर्मेण सर्वकार्याणि कीर्तितानीति भारत आरभन्ते सदा पार्थाः परार्थयाना महद यशः ॥ 15 ॥

  16. न ते युद्धान निवर्तन्ते धर्मॊपेता महाबलाः शरिया परमया युक्ता यतॊ धर्मस ततॊ जयः तेनावध्या रणे पार्था जय युक्ताश च पार्थिव ॥ 16 ॥

  17. तव पुत्रा दुरात्मानः पापेष्व अभिरताः सदा निष्ठुरा हीनकर्माणस तेन हीयन्ति संयुगे ॥ 17 ॥

  18. सुबहूनि नृशंसानि पुत्रैस तव जनेश्वर निकृतानीह पाण्डूनां नीचैर इव यथा नरैः ॥ 18 ॥

  19. सर्वं च तद अनादृत्य पुत्राणां तव किल्बिषम सापह्नवाः सदैवासन पाण्डवाः पाण्डुपूर्वज न चैनान बहु मन्यन्ते पुत्रास तव विशां पते ॥ 19 ॥

  20. तस्य पापस्य सततं करियमाणस्य कर्मणः संप्राप्तं सुमहद घॊरं फलं किं पाकसंनिभम स तद भुङ्क्ष्व महाराज सपुत्रः स सुहृज्जनः ॥ 20 ॥

  21. नावबुध्यसि यद राजन वार्यमाणः सुहृज्जनैः विदुरेणाथ भीष्मेण दरॊणेन च महात्मना ॥ 21 ॥

  22. तथा मया चाप्य असकृद वार्यमाणॊ न गृह्णसि वाक्यं हितं च पथ्यं च मर्त्यः पथ्यम इवौषधम पुत्राणां मतम आस्थाय जितान मन्यसि पाण्डवान ॥ 22 ॥

  23. शृणु भूयॊ यथातत्त्वं यन मां तवं परिपृच्छसि कारणं भरतश्रेष्ठ पाण्डवानां जयं परति तत ते ऽहं कथयिष्यामि यथा शरुतम अरिंदम ॥ 23 ॥

  24. दुर्यॊधनेन संपृष्ट एतम अर्थं पितामहः दृष्ट्वा भरातॄन रणे सर्वान निर्जितान सुमहारथान ॥ 24 ॥

  25. शॊकसंमूढहृदयॊ निशाकाले सम कौरवः पितामहं महाप्राज्ञं विनयेनॊपगम्य ह यद अब्रवीत सुतस ते ऽसौ तन मे शृणु जनेश्वर ॥ 25 ॥

  26. [दुर] तवं च दरॊणश च शल्यश च कृपॊ दरौणिस तथैव च कृतवर्मा च हार्दिक्यः काम्बॊजश च सुदक्षिणः ॥ 26 ॥

  27. भूरिश्रवा विकर्णश च भगदत्तश च वीर्यवान महारथाः समाख्याताः कुलपुत्रास तनुत्यजः ॥ 27 ॥

  28. तरयाणाम अपि लॊकानां पर्याप्ता इति मे मतिः पाण्डवानां समस्ताश च न तिष्ठन्ति पराक्रमे ॥ 28 ॥

  29. तत्र मे संशयॊ जातस तन ममाचक्ष्व पृच्छतः यं समाश्रित्य कौन्तेय जयन्त्य अस्मान पदे पदे ॥ 29 ॥

  30. [भस] शृणु राजन वचॊ मह्यं यत तवां वक्ष्यामि कौरव बहुशश च ममॊक्तॊ ऽसि न च मे तत्त्वया कृतम ॥ 30 ॥

  31. करियतां पाण्डवैः सार्धं शमॊ भरतसत्तम एतत कषमम अहं मन्ये पृथिव्यास तव चाभिभॊ ॥ 31 ॥

  32. भुञ्जेमां पृथिवीं राजन भरातृभिः सहितः सुखी दुर्हृदस तापयन सर्वान नन्दयंश चापि बान्धवान ॥ 32 ॥

  33. न च मे करॊशतस तात शरुतवान असि वै पुरा तद इदं समनुप्राप्तं यत पाण्डून अवमन्यसे ॥ 33 ॥

  34. यश च हेतुर अवध्यत्वे तेषाम अक्लिष्टकर्मणाम तं शृणुष्व महाराज मम कीर्तयतः परभॊ ॥ 34 ॥

  35. नास्ति लॊकेषु तद भूतं भविता नॊ भविष्यति यॊ जयेत पाण्डवान संख्ये पालिताञ शार्ङ्गधन्वना ॥ 35 ॥

  36. यत तु मे कथितं तात मुनिभिर भावितात्मभिः पुराणगीतं धर्मज्ञ तच छृणुष्व यथातथम ॥ 36 ॥

  37. पुरा किल सुराः सर्वे ऋषयश च समागताः पितामहम उपासेदुः पर्वते गन्धमादने ॥ 37 ॥

  38. मध्ये तेषां समासीनः परजापतिर अपश्यत विमानं जाज्वलद भासा सथितं परवरम अम्बरे ॥ 38 ॥

  39. धयानेनावेद्य तं बरह्मा कृत्वा च नियतॊ ऽञजलिम नमश चकार हृष्टात्मा परमं परमेश्वरम ॥ 39 ॥

  40. ऋषयस तव अथ देवाश च दृष्ट्वा बरह्माणम उत्थितम सथिताः पराज्ञलयः सर्वे पश्यन्तॊ महद अद्भुतम ॥ 40 ॥

  41. यथावच च तम अभ्यर्च्य बरह्मा बरह्मविदां वरः जगाद जगतः सरष्टा परं परम अधर्मवित ॥ 41 ॥

  42. विश्वावसुर विश्वमूर्तिर विश्वेशॊ; विष्वक्सेनॊ विश्वकर्मा वशीच विश्वेश्वरॊ वासुदेवॊ ऽसि तस्माद; यॊगात्मानं दैवतं तवाम उपैमि ॥ 42 ॥

  43. जय विश्वमहादेव जय लॊकहिते रत जय यॊगीश्वर विभॊ जय यॊगपरावर ॥ 43 ॥

  44. पद्मगर्भविशालाक्ष जय लॊकेश्वरेश्वर भूतभव्य भवन नाथ जय सौम्यात्मजात्मज ॥ 44 ॥

  45. असंख्येयगुणाजेय जय सर्वपरायण नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥ 45 ॥

  46. सर्वगुह्य गुणॊपेत विश्वमूर्ते निरामय विश्वेश्वर महाबाहॊ जय लॊकार्थ तत्पर ॥ 46 ॥

  47. महॊरगवराहाद्य हरि केशविभॊ जय हरि वासविशामीश विश्वावासामिताव्यय ॥ 47 ॥

  48. वयक्ताव्यक्तामित सथाननियतेन्द्रिय सेन्द्रिय असंख्येयात्म भावज्ञ जय गम्भीरकामद ॥ 48 ॥

  49. अनन्त विदितप्रज्ञ नित्यं भूतविभावन कृतकार्यकृतप्रज्ञ धर्मज्ञ विजयाजय ॥ 49 ॥

  50. गुह्यात्मन सर्वभूतात्मन सफुटसंभूत संभव भूतार्थ तत्त्वलॊकेश जय भूतविभावन ॥ 50 ॥

  51. आत्मयॊने महाभाग कल्पसंक्षेप तत्पर उद्भावन मनॊद्भाव जय बरह्म जनप्रिय ॥ 51 ॥

  52. निसर्ग सर्गाभिरत कामेश परमेश्वर अमृतॊद्भव सद्भाव युगाग्रे विजयप्रद ॥ 52 ॥

  53. परजापतिपते देव पद्मनाभ महाबल आत्मभूतमहाभूतकर्मात्मञ जय कर्मद ॥ 53 ॥

  54. पादौ तव धरा देवी दिशॊ बाहुर दिवं शिरः मूर्तिस ते ऽहं सुराः कायश चन्द्रादित्यौ च चक्षुषी ॥ 54 ॥

  55. बलं तपश च सत्यं च धर्मः कामात्मजः परभॊ तेजॊ ऽगनिः पवनः शवास आपस ते सवेदसंभवाः ॥ 55 ॥

  56. अश्विनौ शरवणी नित्यं देवी जिह्वा सरस्वती वेदाः संस्कारनिष्ठा हि तवयीदं जगद आश्रितम ॥ 56 ॥

  57. न संख्यां न परीमाणं न तेजॊ न पराक्रमम न बलं यॊगयॊगीश जानीमस ते न संभवम ॥ 57 ॥

  58. तवद भक्तिनिरता देव नियमैस तवा समाहिताः अर्चयामः सदा विष्णॊ परमेशं महेश्वरम ॥ 58 ॥

  59. ऋषयॊ देवगन्धर्वा यक्षराक्षस पन्नगाः पिशाचा मानुषाश चैव मृगपक्षिसरीसृपाः ॥ 59 ॥

  60. एवमादि मया सृष्टं पृथिव्यां तवत्प्रसादजम पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन ॥ 60 ॥

  61. तवं गतिः सर्वभूतानां तवं नेता तवं जगन मुखम तवत्प्रसादेन देवेश सुखिनॊ विबुधाः सदा ॥ 61 ॥

  62. पृथिवी निर्भया देव तवत्प्रसादात सदाभवत तस्माद देव विशालाक्ष यदुवंशविवर्धनः ॥ 62 ॥

  63. धर्मसंस्थापनार्थाय दैतेयानां वधाय च जगतॊ धारणार्थाय विज्ञाप्यं कुरु मे परभॊ ॥ 63 ॥

  64. यद एतत परमं गुह्यं तवत्प्रसादमयं विभॊ वासुदेवं तद एतत ते मयॊद्गीतं यथातथम ॥ 64 ॥

  65. सृष्ट्वा संकर्षणं देवं सवयम आत्मानम आत्मना कृष्ण तवम आत्मनास्राक्षीः परद्युम्नं चात्मसंभवम ॥ 65 ॥

  66. परद्युम्नाच चानिरुद्धं तवं यं विदुर विष्णुम अव्ययम अनिरुद्धॊ ऽसृजन मां वै बरह्माणं लॊकधारिणम ॥ 66 ॥

  67. वासुदेवमयः सॊ ऽहं तवयैवास्मि विनिर्मितः विभज्य भागशॊ ऽऽतमानं वरज मानुषतां विभॊ ॥ 67 ॥

  68. तत्रासुरवधं कृत्वा सर्वलॊकसुखाय वै धर्मं सथाप्य यशः पराप्य यॊगं पराप्स्यसि तत्त्वतः ॥ 68 ॥

  69. तवां हि बरह्मर्षयॊ लॊके देवाश चामित्रविक्रम तैस तैश च नामभिर भक्ता गायन्ति परमात्मकम ॥ 69 ॥

  70. सथिताश च सर्वे तवयि भूतसंघाः; कृत्वाश्रयं तवां वरदं सुबाहॊ अनादिमध्यान्तम अपारयॊगं; लॊकस्य सेतुं परवदन्ति विप्राः ॥ 70 ॥

Reach this point to mark the section finished.

Continue to अध्याय 62

Previous: अध्याय 60