[स] ततॊ भूरिश्रवा राजन सात्यकिं नवभिः शरैः अविध्यद भृशसंक्रुद्धस तॊत्त्रैर इव महाद्विपम ॥ 1 ॥
कौरवं सात्यकिश चैव शरैः संनतपर्वभिः अवाकिरद अमेयात्मा सर्वलॊकस्य पश्यतः ॥ 2 ॥
ततॊ दुयॊधनॊ राजा सॊदर्यैः परिवारितः सौमदत्तिं रणे यत्तः समन्तात पर्यवारयत ॥ 3 ॥
तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे परिवार्य सथिताः संख्ये समन्तात सुमहौजसः ॥ 4 ॥
भीमसेनस तु संक्रुद्धॊ गदाम उद्यम्य भारत दुर्यॊधनमुखान सर्वान पुत्रांस ते पर्यवारयत ॥ 5 ॥
रथैर अनेकसाहस्रैः करॊधामर्षसमन्वितः नन्दकस तव पुत्रस तु भीमसेनं महाबलम विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः ॥ 6 ॥
दुर्यॊधनस तु समरे भीमसेनं महाबलम आजघानॊरसि करुद्धॊ मार्गणैर निशितैस तरिभिः ॥ 7 ॥
ततॊ भीमॊ महाबाहुः सवरथं सुमहाबलः आरुरॊह रतः शरेष्ठं विशॊकं चेदम अब्रवीत ॥ 8 ॥
एते महारथाः शूरा धार्तराष्ट्रा महाबलाः माम एव भृशसंक्रुद्धा हन्तुम अभ्युद्यता युधि ॥ 9 ॥
एतान अद्य हनिष्यामि पश्यतस ते न संशयः तस्मान ममाश्वान संग्रामे यत्तः संयच्छ सारथे ॥ 10 ॥
एवम उक्त्वा ततः पार्थः पुत्रं दुर्यॊधनं तव विव्याध दशभिस तीक्ष्णैः शरैः कनकभूषणैः नन्दकं च तरिभिर बाणैः पत्यविध्यत सतनान्तरे ॥ 11 ॥
तं तु दुर्यॊधनः षष्ट्या विद्ध्वा भीमं महाबलम तरिभिर अन्यैः सुनिशितैर विशॊकं परत्यविध्यत ॥ 12 ॥
भीमस्य च रणे राजन धनुश चिछेद भास्वरम मुष्टिदेशे शरैस तीक्ष्णैस तरिभी राजा हसन्न इव ॥ 13 ॥
भीमस तु परेक्ष्य यन्तारं विशॊकं संयुगे तदा पीडितं विशिखैस तीक्ष्णैस तव पुत्रेण धन्विना ॥ 14 ॥
अमृष्यमाणः संक्रुद्धॊ धनुर दिव्यं परामृशत पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥ 15 ॥
समादत्त च संरब्धः कषुरप्रं लॊमवाहिनम तेन चिच्छेद नृपतेर भीमः कार्मुकम उत्तमम ॥ 16 ॥
सॊ ऽपविध्य धनुश छिन्नं करॊधेन परज्वलन्न इव अन्यत कार्मुकम आदत्त स तवरं वेगवत्तरम ॥ 17 ॥
संधत्त विशिखं घॊरं कालमृत्युसमप्रभम तेनाजघान संक्रुद्धॊ भीमसेनं सतनान्तरे ॥ 18 ॥
स गाढविद्धॊ वयथितः सयन्दनॊपस्थ आविशत स निषण्णॊ रथॊपस्थे मूर्छाम अभिजगाम ह ॥ 19 ॥
तं दृष्ट्वा वयथितं भीमम अभिमन्युपुरॊगमाः नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः ॥ 20 ॥
ततस तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम पातयाम आसुर अव्यग्राः पुत्रस्य तव मूर्धनि ॥ 21 ॥
परतिलभ्य ततः संज्ञां भीमसेनॊ महाबलः दुर्यॊधनं तरिभिर विद्ध्वा पुनर विव्याध पञ्चभिः ॥ 22 ॥
शल्यं च पञ्चविंशत्या शरैर विव्याध पाण्डवः रुक्मपुङ्खैर महेष्वासः स विद्धॊ वयपयाद रणात ॥ 23 ॥
परत्युद्ययुस ततॊ भीमं तव पुत्राश चतुर्दश सेनापतिः सुषेणश च जलसंधः सुलॊचनः ॥ 24 ॥
उग्रॊ भीम रथॊ भीमॊ भीम बाहुर अलॊलुपः दुर्मुखॊ दुष्प्रधर्षश च विवित्सुर विकटः समः ॥ 25 ॥
विसृजन्तॊ बहून बाणान करॊधसंरक्तलॊचनाः भीमसेनम अभिद्रुत्य विव्यधुः सहिता भृशम ॥ 26 ॥
पुत्रांस तु तव संप्रेक्ष्य भीमसेनॊ महाबलः सृक्किणी विलिहन वीरः पशुमध्ये वृकॊ यथा सेनापतेः कषुरप्रेण शिरश चिच्छेद पाण्डवः ॥ 27 ॥
जलसंधं विनिर्भिद्य सॊ ऽनयद यमसादनम सुषेणं च ततॊ हत्वा परेषयाम आस मृत्यवे ॥ 28 ॥
उग्रस्य स शिरस्त्राणं शिरश चन्द्रॊपमं भुवि पातयाम आस भल्लेन कुण्डलाभ्यां विभूषितम ॥ 29 ॥
भीम बाहुं च सप्तत्या साश्वकेतुं स सारथिम निनाय समरे भीमः परलॊकाय मारिष ॥ 30 ॥
भीमं भीम रथं चॊभौ भीमसेनॊ हसन्न इव भरातरौ रभसौ राजन्न अनयद यमसादनम ॥ 31 ॥
ततः सुलॊचनं भीमः कषुरप्रेण महामृधे मिषतां सर्वसैन्यानाम अनयद यमसादनम ॥ 32 ॥
पुत्रास तु तव तं दृष्ट्वा भीमसेन पराक्रमम शेषा ये ऽनये ऽभवंस तत्र ते भीमस्य भयार्दिताः विप्रद्रुता दिशॊ राजन वध्यमाना महात्मना ॥ 33 ॥
ततॊ ऽबरवीच छांतनवः सर्वान एव महारथान एष भीमॊ रणे करुद्धॊ धार्तराष्ट्रान महारथान ॥ 34 ॥
यथा पराग्र्यान यथा जयेष्ठान यथा शूरांश च संगतान निपातयत्य उग्रधन्वा तं परमथ्नीत पार्थिवाः ॥ 35 ॥
एवम उक्तास ततः सर्वे धार्तराष्ट्रस्य सैनिकाः अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम ॥ 36 ॥
भगदत्तः परभिन्नेन कुञ्जरेण विशां पते अपतत सहसा तत्र यत्र भीमॊ वयवस्थितः ॥ 37 ॥
आपतन्न एव च रणे भीमसेनं शिलाशितैः अदृश्यं समरे चक्रे जीमूत इव भास्करम ॥ 38 ॥
अभिमन्युमुखास तत्र नामृष्यन्त महारथाः भीमस्याच्छादनं संख्ये सवबाहुबलम आश्रिताः ॥ 39 ॥
त एनं शरवर्षेण समन्तात पर्यवारयन गजं च शरवृष्ट्या तं बिभिदुस ते समन्ततः ॥ 40 ॥
स शस्त्रवृष्ट्याभिहतः पराद्रवद दविगुणं पदम पराग्ज्यॊतिष गजॊ राजन नाना लिङ्गैः सुतेजनैः ॥ 41 ॥
संजातरुधिरॊत्पीडः परेक्षणीयॊ ऽभवद रणे गभस्तिभिर इवार्कस्य संस्यूतॊ जलदॊ महान ॥ 42 ॥
स चॊदितॊ मदस्रावी भगदत्तेन वारणः अभ्यधावत तान सर्वान कालॊत्सृष्ट इवान्तकः दविगुणं जवम आस्थाय कम्पयंश चरणैर महीम ॥ 43 ॥
तस्य तत सुमहद रूपं दृष्ट्वा सर्वे महारथाः असह्यं मन्यमानास ते नातिप्रमनसॊ ऽभवन ॥ 44 ॥
ततस तु नृपतिः करुद्धॊ भीमसेनं सतनान्तरे आजघान नरव्याघ्र शरेण नतपर्वणा ॥ 45 ॥
सॊ ऽतिविद्धॊ महेष्वासस तेन राज्ञा महारथः मूर्छयाभिपरीताङ्गॊ धवजयष्टिम उपाश्रितः ॥ 46 ॥
तांस तु भीतान समालक्ष्य भीमसेनं च मूर्छितम ननाद बलवन नादं भगदत्तः परतापवान ॥ 47 ॥
ततॊ घटॊत्कचॊ राजन परेक्ष्य भीमं तथागतम संक्रुद्धॊ राक्षसॊ घॊरस तत्रैवान्तरधीयत ॥ 48 ॥
स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम अदृश्यत निमेषार्धाद घॊररूपं समाश्रितः ॥ 49 ॥
ऐरावतं समारुह्य सवयं मायामयं कृतम तस्य चान्ये ऽपि दिन नागा बभूवुर अनुयायिनः ॥ 50 ॥
अञ्जनॊ वामनश चैव महापद्मश च सुप्रभः तरय एते महानागा राक्षसैः समधिष्ठिताः ॥ 51 ॥
महाकायास तरिधा राजन परस्रवन्तॊ मदं बहु तेजॊ वीर्यबलॊपेता महाबलपराक्रमाः ॥ 52 ॥
घटॊत्कचस तु सवं नागं चॊदयाम आस तं ततः स गजं भगदत्तं तु हन्तुकामः परंतपः ॥ 53 ॥
ते चान्ये चॊदिता नागा राक्षसैस तैर महाबलैः परिपेतुः सुसंरब्धाश चतुर्दंष्ट्राश चतुर्दिशम भगदत्तस्य तं नागं विषाणैस ते ऽभयपीडयन ॥ 54 ॥
संपीड्यमानस तैर नागैर वेदनार्तः शरातुरः सॊ ऽनदत सुमहानादम इन्द्राशनिसमस्वनम ॥ 55 ॥
तस्य तं नदतॊ नादं सुघॊरं भीमनिस्वनम शरुत्वा भीष्मॊ ऽबरवीद दरॊणं राजानं च सुयॊधनम ॥ 56 ॥
एष युध्यति संग्रामे हैडिम्बेन दुरात्मना भगदत्तॊ महेष्वासः कृच्छ्रेण परिवर्तते ॥ 57 ॥
राक्षसश च महामायः स च राजातिकॊपनः तौ समेतौ महावीर्यौ कालमृत्युसमाव उभौ ॥ 58 ॥
शरूयते हय एष हृष्टानां पाण्डवानां महास्वनः हस्तिनश चैव सुमहान भीतस्य रुवतॊ धवनिः ॥ 59 ॥
तत्र गच्छाम भद्रं वॊ राजानं परिरक्षितुम अरक्ष्यमाणः समरे कषिप्रं पराणान विमॊक्ष्यते ॥ 60 ॥
ते तवरध्वं महावीर्याः किं चिरेण परयामहे महान हि वर्तते रौद्रः संग्रामॊ लॊमहर्षणः ॥ 61 ॥
भक्तश च कुलपुत्रश च शूरश च पृतना पतिः युक्तं तस्य परित्राणं कर्तुम अस्माभिर अच्युताः ॥ 62 ॥
भीष्मस्य तद वचः शरुत्वा भारद्वाजपुरॊगमाः सहिताः सर्वराजानॊ भगदत्त परीप्सया उत्तमं जवम आस्थाय परययुर यत्र सॊ ऽभवत ॥ 63 ॥
तान परयातान समालॊक्य युधिष्ठिरपुरॊगमाः पाञ्चालाः पाण्डवैः सार्धं राक्षसेन्द्रः परतापवान ॥ 64 ॥
तान्य अनीकान्य अथालॊक्य राक्षसेन्द्रः परतापवान ननाद सुमहानादं विस्फॊटम अशनेर इव ॥ 65 ॥
तस्य तं निनदं शरुत्वा दृष्ट्वा नागांश च युध्यतः भीष्मः शांतनवॊ भूयॊ भारद्वाजम अभाषत ॥ 66 ॥
न रॊचते मे संग्रामॊ हैडिम्बेन दुरात्मना बलवीर्यसमाविष्टः स सहायश च सांप्रतम ॥ 67 ॥
नैष शक्यॊ युधा जेतुम अपि वज्रभृता सवयम लब्धलक्ष्यः परहारी च वयं च शरान्तवाहनाः पाञ्चालैः पाण्डवेयैश च दिवसं कषतविक्षताः ॥ 68 ॥
तन न मे रॊचते युद्धं पाण्डवैर जितकाशिभिः घुष्यताम अवहारॊ ऽदय शवॊ यॊत्स्यामः परैः सह ॥ 69 ॥
पितामहवचः शरुत्वा तथा चक्रुः सम कौरवाः उपायेनापयानं ते घटॊत्कच भयार्दिताः ॥ 70 ॥
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः सिंहनादम अकुर्वन्त शङ्खवेणुस्वनैः सह ॥ 71 ॥
एवं तद अभवद युद्धं दिवसं भरतर्षभ पाण्डवानां कुरूणां च पुरस्कृत्य घटॊत्कचम ॥ 72 ॥
कौरवास तु ततॊ राजन परययुः शिबिरं सवकम वरीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥ 73 ॥
शरविक्षत गात्राश च पाण्डुपुत्रा महारथाः युद्धे सुमनसॊ भूत्वा शिबिरायैव जग्मिरे ॥ 74 ॥
पुरस्कृत्य महाराज भीमसेन घटॊत्कचौ पूजयन्तस तदान्यॊन्यं मुदा परमया युताः ॥ 75 ॥
नदन्तॊ विविधान नादांस तूर्यस्वनविमिश्रितान सिंहनादांश च कुर्वाणा विमिश्राञ शङ्खनिस्वनैः ॥ 76 ॥
विनदन्तॊ महात्मानः कम्पयन्तश च मेदिनीम घट्टयन्तश च मर्माणि तव पुत्रस्य मारिष परयाताः शिबिरायैव निशाकाले परंतपाः ॥ 77 ॥
दुर्यॊधनस तु नृपतिर दीनॊ भरातृवधेन च मुहूर्तं चिन्तयाम आस बाष्पशॊकसमाकुलः ॥ 78 ॥
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि परदध्यौ शॊकसंतप्तॊ भरातृव्यसनकर्शितः ॥ 79 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 60
Reach this point to mark the section finished.
Continue to अध्याय 61