[स] तस्मिन हते गजानीके पुत्रॊ दुर्यॊधनस तव भीमसेनं घनतेत्य एवं सव सैन्यान्य अचॊदयत ॥ 1 ॥
ततः सर्वाण्य अनीकानि तव पुत्रस्य शासनात अभ्यद्रवन भीमसेनं नदन्तं भैरवान रवान ॥ 2 ॥
तं बलौघम अपर्यन्तं देवैर अपि दुरुत्सहम आपतन्तं सुदुष्पारं समुद्रम इव पर्वणि ॥ 3 ॥
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम अथानन्तम अपारं च नरेन्द्र सतिमितह्रदम ॥ 4 ॥
तं भीमसेनः समरे महॊदधिम इवापरम सेनासागरम अक्षॊभ्यं वेलेव समवारयत ॥ 5 ॥
तद आश्चर्यम अपश्याम शरद्धेयम अपि चाद्भुतम भीमसेनस्य समरे राजन कर्मातिमानुषम ॥ 6 ॥
उदीर्णां पृथिवीं सर्वां साश्वां स रथकुञ्जराम असंभ्रमं भीमसेनॊ गदया समताडयत ॥ 7 ॥
स संवार्य बलौघांस तान गदया रथिनां वरः अतिष्ठत तुमुले भीमॊ गिरिर मेरुर इवाचलः ॥ 8 ॥
तस्मिन सुतुमुले घॊरे काले परमदारुणे भरातरश चैव पुत्राश च धृष्टद्युम्नश च पार्षतः ॥ 9 ॥
दरौपदेयाभिमन्युश च शिखण्डी च महारथः न पराजहन भीमसेनं भये जाते महाबलम ॥ 10 ॥
ततः शैक्यायसीं गुर्वीं परगृह्य महतीं गदाम अवधीत तावकान यॊधान दण्डपाणिर इवान्तकः पॊथयन रथवृन्दानि वाजिवृन्दानि चाभिभूः ॥ 11 ॥
वयचरत समरे भीमॊ युगाङ्गे पावकॊ यथा विनिघ्नन समरे सर्वान युगान्ते कालवद विभुः ॥ 12 ॥
ऊरुवेगेन संकर्षन रथजालानि पाण्डवः परमर्दयन गजान सर्वान नड्वलानीव कुञ्जरः ॥ 13 ॥
मृद्नन रथेभ्यॊ रथिनॊ गजेभ्यॊ गजयॊधिनः सादिनश चाश्वपृष्ठेभ्यॊ भूमौ चैव पदातिनः ॥ 14 ॥
तत्र तत्र हतैश चापि मनुष्यगजवाजिभिः रणाङ्गणं तद अभवन मृत्यॊर आघत संनिभम ॥ 15 ॥
पिनाकम इव रुद्रस्य करुद्धस्याभिघ्नतः पशून यमदण्डॊपमाम उग्राम इन्द्राशनिसमस्वनाम ददृशुर भीमसेनस्य रौद्रां विशसनीं गदाम ॥ 16 ॥
आविध्यतॊ गदां तस्य कौन्तेयस्य महात्मनः बभौ रूपं महाघॊरं कालस्येव युगक्षये ॥ 17 ॥
तं तथा महतीं सेनां दरावयन्तं पुनः पुनः दृष्ट्वा मृत्युम इवायान्तं सर्वे विमनसॊ ऽभवन ॥ 18 ॥
यतॊ यतः परेक्षते सम गदाम उद्यम्य पाण्डवः तेन तेन सम दीर्यन्ते सर्वसैन्यानि भारत ॥ 19 ॥
परदारयन्तं सैन्यानि बलौघेनापराजितम गरसमानम अनीकानि वयादितास्यम इवान्तकम ॥ 20 ॥
तं तथा भीमकर्माणं परगृहीतमहागदम दृष्ट्वा वृकॊदरं भीष्मः सहसैव समभ्ययात ॥ 21 ॥
महता मेघघॊषेण रथेनादित्यवर्चसा छादयञ शरवर्षेण पर्जन्य इव वृष्टिमान ॥ 22 ॥
तम आयान्तं तथा दृष्ट्वा वयात्ताननम इवान्तकम भीष्मं भीमॊ महाबाहुः परत्युदीयाद अमर्षणः ॥ 23 ॥
तस्मिन कषणे सात्यकिः सत्यसंधः; शिनिप्रवीरॊ ऽभयपतत पितामहम निघ्नन्न अमित्रान धनुषा दृढेन; स कम्पयंस तव पुत्रस्य सेनाम ॥ 24 ॥
तं यान्तम अश्वै रजतप्रकाशैः; शरान धमन्तं धनुषा दृढेन नाशक्नुवन वारयितुं तदानीं; सर्वे गणा भारत ये तवदीयाः ॥ 25 ॥
अविध्यद एनं निशितैः शराग्रैर; अलम्बुसॊ राजवरार्श्यशृङ्गिः तं वै चतुर्भिः परतिविध्य वीरॊ; नप्ता शिनेर अभ्यपतद रथेन ॥ 26 ॥
अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम परावर्तयन्तं कुरुपुंगवांश च; पुनः पुनश च परणदन्तम आजौ ॥ 27 ॥
नाशक्नुवन वारयितुं वरिष्ठं; मध्यन्दिने सूर्यम इवातपन्तम न तत्र कश चिन्न अविषण्ण आसीद; ऋते राजन सॊमदत्तस्य पुत्रात ॥ 28 ॥
स हय आददानॊ धनुर उग्रवेगं; भूरिश्रवा भारत सौमदत्तिः दृष्ट्वा रथान सवान वयपनीयमानान; परत्युद्ययौ सात्यकिं यॊद्धुम इच्छन ॥ 29 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 59
Reach this point to mark the section finished.
Continue to अध्याय 60