धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 58

  1. धृतराष्ट्र उवाच दैवम एव परं मन्ये पौरुषाद अपि संजय यत सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते ॥ 1 ॥

  2. नित्यं हि मामकांस तात हतान एव हि शंससि अव्यग्रांश च परहृष्टांश च नित्यं शंससि पाण्डवान ॥ 2 ॥

  3. हीनान पुरुषकारेण मामकान अद्य संजय पतितान पात्यमानांश च हतान एव च शंससि ॥ 3 ॥

  4. युध्यमानान यथाशक्ति घटमानाञ जयं परति पाण्डवा विजयन्त्य एव जीयन्ते चैव मामकाः ॥ 4 ॥

  5. सॊ ऽहं तीव्राणि दुःखानि दुर्यॊधनकृतानि च अश्रौषं सततं तात दुःसहानि बहूनि च ॥ 5 ॥

  6. तम उपायं न पश्यामि जीयेरन येन पाण्डवाः मामका वा जयं युद्धे पराप्नुयुर येन संजय ॥ 6 ॥

  7. संजय उवाच कषयं मनुष्यदेहानां गजवाजिरथक्षयम शृणु राजन सथिरॊ भूत्वा तवैवापनयॊ महान ॥ 7 ॥

  8. धृष्टद्युम्नस तु शल्येन पीडितॊ नवभिः शरैः पीडयाम आस संक्रुद्धॊ मद्राधिपतिम आयसैः ॥ 8 ॥

  9. तत्राद्भुतम अपश्याम पार्षतस्य पराक्रमम नयवारयत यत तूर्णं शल्यं समितिशॊभनम ॥ 9 ॥

  10. नान्तरं ददृशे कश चित तयॊः संरब्धयॊ रणे मुहूर्तम इव तद युद्धं तयॊः समम इवाभवत ॥ 10 ॥

  11. ततः शल्यॊ महाराज धृष्टद्युम्नस्य संयुगे धनुश चिच्छेद भल्लेन पीतेन निशितेन च ॥ 11 ॥

  12. अथैनं शरवर्षेण छादयाम आस भारत गिरिं जलागमे यद्वज जलदा जलधारिणः ॥ 12 ॥

  13. अभिमन्युस तु संक्रुद्धॊ धृष्टद्युम्ने निपीडिते अभिदुद्राव वेगेन मद्रराजरथं परति ॥ 13 ॥

  14. ततॊ मद्राधिपरथं कार्ष्णिः पराप्यातिकॊपनः आर्तायनिम अमेयात्मा विव्याध विशिखैस तरिभिः ॥ 14 ॥

  15. ततस तु तावका राजन परीप्सन्तॊ ऽऽरजुनिं रणे मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ॥ 15 ॥

  16. दुर्यॊधनॊ विकर्णश च दुःशासनविविंशती दुर्मर्षणॊ दुःसहश च चित्रसेनश च दुर्मुखः ॥ 16 ॥

  17. सत्यव्रतश च भद्रं ते पुरुमित्रश च भारत एते मद्राधिपरथं पालयन्तः सथिता रणे ॥ 17 ॥

  18. तान भीमसेनः संक्रुद्धॊ धृष्टद्युम्नश च पार्षतः दरौपदेयाभिमन्युश च माद्रीपुत्रौ च पाण्डवौ ॥ 18 ॥

  19. नानारूपाणि शस्त्राणि विसृजन्तॊ विशां पते अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः ते वै समीयुः संग्रामे राजन दुर्मन्त्रिते तव ॥ 19 ॥

  20. तस्मिन दाशरथे युद्धे वर्तमाने भयावहे तावकानां परेषां च परेक्षका रथिनॊ ऽभवन ॥ 20 ॥

  21. शस्त्राण्य अनेकरूपाणि विसृजन्तॊ महारथाः अन्यॊन्यम अभिनर्दन्तः संप्रहारं परचक्रिरे ॥ 21 ॥

  22. ते यत्ता जातसंरम्भाः सर्वे ऽनयॊन्यं जिघांसवः महास्त्राणि विमुञ्चन्तः समापेतुर अमर्षणाः ॥ 22 ॥

  23. दुर्यॊधनस तु संक्रुद्धॊ धृष्टद्युम्नं महारणे विव्याध निशितैर बाणैश चतुर्भिस तवरितॊ भृशम ॥ 23 ॥

  24. दुर्मर्षणश च विंशत्या चित्रसेनश च पञ्चभिः दुर्मुखॊ नवभिर बाणैर दुःसहश चापि सप्तभिः विविंशतिः पञ्चभिश च तरिभिर दुःशासनस तथा ॥ 24 ॥

  25. तान परत्यविध्यद राजेन्द्र पार्षतः शत्रुतापनः एकैकं पञ्चविंशत्या दर्शयन पाणिलाघवम ॥ 25 ॥

  26. सत्यव्रतं तु समरे पुरुमित्रं च भारत अभिमन्युर अविध्यत तौ दशभिर दशभिः शरैः ॥ 26 ॥

  27. माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ छादयेतां शरव्रातैस तद अद्भुतम इवाभवत ॥ 27 ॥

  28. ततः शल्यॊ महाराज सवस्रीयौ रथिनां वरौ शरैर बहुभिर आनर्छत कृतप्रतिकृतैषिणौ छाद्यमानौ ततस तौ तु माद्रीपुत्रौ न चेलतुः ॥ 28 ॥

  29. अथ दुर्यॊधनं दृष्ट्वा भीमसेनॊ महाबलः विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥ 29 ॥

  30. तम उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम भीमसेनं महाबाहुं पुत्रास ते पराद्रवन भयात ॥ 30 ॥

  31. दुर्यॊधनस तु संक्रुद्धॊ मागधं समचॊदयत अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम मागधं पुरतः कृत्वा भीमसेनं समभ्ययात ॥ 31 ॥

  32. आपतन्तं च तं दृष्ट्वा गजानीकं वृकॊदरः गदापाणिर अवारॊहद रथात सिंह इवॊन्नदन ॥ 32 ॥

  33. अद्रिसारमयीं गुर्वीं परगृह्य महतीं गदाम अभ्यधावद गजानीकं वयादितास्य इवान्तकः ॥ 33 ॥

  34. स गजान गदया निघ्नन वयचरत समरे बली भीमसेनॊ महाबाहुः सवज्र इव वासवः ॥ 34 ॥

  35. तस्य नादेन महता मनॊहृदयकम्पिना वयत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः ॥ 35 ॥

  36. ततस तु दरौपदीपुत्राः सौभद्रश च महारथः नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः ॥ 36 ॥

  37. पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान अभ्यधावन्त वर्षन्तॊ मेघा इव गिरीन यथा ॥ 37 ॥

  38. कषुरैः कषुरप्रैर भल्लैश च पीतैर अञ्जलिकैर अपि पातयन्तॊत्तमाङ्गानि पाण्डवा गजयॊधिनाम ॥ 38 ॥

  39. शिरॊभिः परपतद्भिश च बाहुभिश च विभूषितैः अश्मवृष्टिर इवाभाति पाणिभिश च सहाङ्कुशैः ॥ 39 ॥

  40. हृतॊत्तमाङ्गाः सकन्धेषु गजानां गजयॊधिनः अदृश्यन्ताचलाग्रेषु दरुमा भग्नशिखा इव ॥ 40 ॥

  41. धृष्टद्युम्नहतान अन्यान अपश्याम महागजान पतितान पात्यमानांश च पार्षतेन महात्मना ॥ 41 ॥

  42. मागधॊ ऽथ महीपालॊ गजम ऐरावणॊपमम परेषयाम आस समरे सौभद्रस्य रथं परति ॥ 42 ॥

  43. तम आपतन्तं संप्रेक्ष्य मागधस्य गजॊत्तमम जघानैकेषुणा वीरः सौभद्रः परवीरहा ॥ 43 ॥

  44. तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः राज्ञॊ रजतपुङ्खेन भल्लेनापहरच छिरः ॥ 44 ॥

  45. विगाह्य तद गजानीकं भीमसेनॊ ऽपि पाण्डवः वयचरत समरे मृद्नन गजान इन्द्रॊ गिरीन इव ॥ 45 ॥

  46. एकप्रहाराभिहतान भीमसेनेन कुञ्जरान अपश्याम रणे तस्मिन गिरीन वज्रहतान इव ॥ 46 ॥

  47. भग्नदन्तान भग्नकटान भग्नसक्थांश च वारणान भग्नपृष्ठान भग्नकुम्भान निहतान पर्वतॊपमान ॥ 47 ॥

  48. नदतः सीदतश चान्यान विमुखान समरे गजान विमूत्रान भग्नसंविग्नांस तथा विशकृतॊ ऽपरान ॥ 48 ॥

  49. भीमसेनस्य मार्गेषु गतासून पर्वतॊपमान अपश्याम हतान नागान निष्टनन्तस तथापरे ॥ 49 ॥

  50. वमन्तॊ रुधिरं चान्ये भिन्नकुम्भा महागजाः विह्वलन्तॊ गता भूमिं शैला इव धरातले ॥ 50 ॥

  51. मेदॊरुधिरदिग्धाङ्गॊ वसामज्जासमुक्षितः वयचरत समरे भीमॊ दण्डपाणिर इवान्तकः ॥ 51 ॥

  52. गजानां रुधिराक्तां तां गदां बिभ्रद वृकॊदरः घॊरः परतिभयश चासीत पिनाकीव पिनाकधृक ॥ 52 ॥

  53. निर्मथ्यमानाः करुद्धेन भीमसेनेन दन्तिनः सहसा पराद्रवञ शिष्टा मृद्नन्तस तव वाहिनीम ॥ 53 ॥

  54. तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः पर्यरक्षन्त युध्यन्तं वज्रायुधम इवामराः ॥ 54 ॥

  55. शॊणिताक्तां गदां बिभ्रद उक्षितॊ गजशॊणितैः कृतान्त इव रौद्रात्मा भीमसेनॊ वयदृश्यत ॥ 55 ॥

  56. वयायच्छमानं गदया दिक्षु सर्वासु भारत नृत्यमानम अपश्याम नृत्यन्तम इव शंकरम ॥ 56 ॥

  57. यमदण्डॊपमां गुर्वीम इन्द्राशनिसमस्वनाम अपश्याम महाराज रौद्रां विशसनीं गदाम ॥ 57 ॥

  58. विमिश्रां केशमज्जाभिः परदिग्धां रुधिरेण च पिनाकम इव रुद्रस्य करुद्धस्याभिघ्नतः पशून ॥ 58 ॥

  59. यथा पशूनां संघातं यष्ट्या पालः परकालयेत तथा भीमॊ गजानीकं गदया पर्यकालयत ॥ 59 ॥

  60. गदया वध्यमानास ते मार्गणैश च समन्ततः सवान्य अनीकानि मृद्नन्तः पराद्रवन कुञ्जरास तव ॥ 60 ॥

  61. महावात इवाभ्राणि विधमित्वा स वारणान अतिष्ठत तुमुले भीमः शमशान इव शूलभृत ॥ 61 ॥

Reach this point to mark the section finished.

Continue to अध्याय 59

Previous: अध्याय 57