[स] दरौणिर भूरिश्रवाः शल्यश चित्रसेनश च मारिष पुत्रः साम्यमनेश चैव सौभद्रं समयॊधयन ॥ 1 ॥
संसक्तम अतिरेजॊभिस तम एकं ददृशुर जनाः पञ्चभिर मनुजव्याघ्रैर गजैः सिंहशिशुं यथा ॥ 2 ॥
नाभिलक्ष्यतया कश चिन न शौर्ये न पराक्रमे बभूव सदृशः कार्ष्णेर नास्त्रे नापि च लाघवे ॥ 3 ॥
तथा तम आत्मजं युद्धे विक्रमन्तम अरिंदमम दृष्ट्वा पार्थॊ रणे यत्तः सिंहनादम अथॊ ऽनदत ॥ 4 ॥
पीडयानं च तत सैन्यं पौत्रं तव विशां पते दृष्ट्वा तवदीया राजेन्द्र समन्तात पर्यवारयन ॥ 5 ॥
धवजिनीं धार्तराष्ट्राणां दीनशत्रुर अदीनवत परत्युद्ययौ स सौभद्रस तेजसा च बलेन च ॥ 6 ॥
तस्य लाघवमार्गस्थम आदित्यसदृशप्रभम वयदृश्यत महच चापं समरे युध्यतः परैः ॥ 7 ॥
स दरौणिम इषुणैकेन विद्ध्वा शल्यं च पञ्चभिः धवजं साम्यमनेश चापि सॊ ऽषटाभिर अपवर्जयत ॥ 8 ॥
रुक्मदण्डां महाशक्तिं परेषितां सौमदत्तिना शितेनॊरग संकाशां पुत्रिणा विजहार ताम ॥ 9 ॥
शल्यस्य च महाघॊरान अस्यतः शतशः शरान निवार्यार्जुन दायातॊ जघान समरे हयान ॥ 10 ॥
भूरिश्रवाश च शल्यश च दरौणिः साम्यमनिः शलः नाभ्यवर्तन्त संरब्धाः कार्ष्णेर बाहुबलाश्रयात ॥ 11 ॥
ततस तरिगर्ता राजेन्द्र मद्राश च सह केकयैः पञ्चत्रिंशति साहस्रास तव पुत्रेण चॊदिताः ॥ 12 ॥
धनुर्वेदविदॊ मुख्या अजेयाः शत्रुभिर युधि सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम ॥ 13 ॥
तौ तु तत्र पिता पुत्रौ परिक्षिप्तौ रथर्षभौ ददर्श राजन पाञ्चाल्यः सेनापतिर अमित्रजित ॥ 14 ॥
स वारणरथौघानां सहस्रैर बहुभिर वृतः वाजिभिः पत्तिभिश चैव वृतः शतसहस्रशः ॥ 15 ॥
धनुर विस्फार्य संक्रुद्धश चॊदयित्वा वरूथिनीम ययौ तन मद्रकानीकं केकयांश च परंतपः ॥ 16 ॥
तेन कीर्तिमता गुप्तम अनीकं दृढधन्वना परयुक्त रथनागाश्वं यॊत्स्यमानम अशॊभत ॥ 17 ॥
सॊ ऽरजुनं परमुखे यान्तं पाञ्चाल्यः कुरुनन्दन तरिभिः शारद्वतं बाणैर जत्रु देशे समर्पयत ॥ 18 ॥
ततः स मद्रकान हत्वा दशभिर दशभिः शरैः हृष्ट एकॊ जघानाश्वं भल्लेन कृतवर्मणः ॥ 19 ॥
दमनं चापि दायादं पौरवस्य महात्मनः जघान विपुलाग्रेण नाराचेन परंतपः ॥ 20 ॥
ततः साम्यमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम अविध्यत तरिंशता बाणैर दशभिश चास्य सारथिम ॥ 21 ॥
सॊ ऽतिविद्धॊ महेष्वासः सृक्किणी परिसंलिहन भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम ॥ 22 ॥
अथैनं पञ्चविंशत्या कषिप्रम एव समर्पयत अश्वांश चास्यावधीद राजन्न उभौ तौ पार्ष्णिसारथी ॥ 23 ॥
स हताश्वे रथे तिष्ठन ददर्श भरतर्षभ पुत्रः साम्यमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥ 24 ॥
स संगृह्य महाघॊरं निस्त्रिंशवरम आयसम पदातिस तूर्णम अभ्यर्छद रथस्थं दरुपदात्मजम ॥ 25 ॥
तं महौघम इवायान्तं खात पतन्तम इवॊरगम भरान्तावरण निस्त्रिंशं कालॊत्सृष्टम इवान्तकम ॥ 26 ॥
दीप्यन्तम इव शस्त्रार्च्या मत्तवारणविक्रमम अपश्यन पाण्डवास तत्र धृष्टद्युम्नश च पार्षतः ॥ 27 ॥
तस्य पाञ्चाल पुत्रस तु परतीपम अभिधावतः शितनिस्त्रिंशहस्तस्य शरावरण धारिणः ॥ 28 ॥
बाणवेगम अतीतस्य रथाभ्याशम उपेयुषः तवरन सेनापतिः करुद्धॊ बिभेद गदया शिरः ॥ 29 ॥
तस्य राजन सनिस्त्रिंशं सुप्रभं च शरावरम हतस्य पततॊ हस्ताद वेगेन नयपतद भुवि ॥ 30 ॥
तं निहत्य गदाग्रेण लेभे स परमं यशः पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥ 31 ॥
तस्मिन हते महेष्वासे राजपुत्रे महारथे हाहाकारॊ महान आसीत तव सैन्यस्य मारिष ॥ 32 ॥
ततः साम्यमनिः करुद्धॊ दृष्ट्वा निहतम आत्मजम अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम ॥ 33 ॥
तौ तत्र समरे वीरौ समेतौ रथिनां वरौ ददृशुः सर्वराजानः कुरवः पाण्डवास तथा ॥ 34 ॥
ततः साम्यमनिः करुद्धः पार्षतं परवीरहा आजघान तरिभिर बाणैस तॊत्त्रैर इव महाद्विपम ॥ 35 ॥
तथैव पार्षतं शूरं शल्यः समितिशॊभनः आजघानॊरसि करुद्धस ततॊ युद्धम अवर्तत ॥ 36 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 57
Reach this point to mark the section finished.
Continue to अध्याय 58