[स] वयुष्टां निशां भारत भारतानाम; अनीकिनिनां परमुखे महात्मा ययौ सपत्नान परति जातकॊपॊ; वृतः समग्रेण बलेन भीष्मः ॥ 1 ॥
तं दरॊणदुर्यॊधनबाह्लिकाश च; तथैव दुर्मर्षणचित्रसेनौ जयद्रथश चातिबलॊ बलौघैर; नृपास तथान्ये ऽनुययुः समन्तात ॥ 2 ॥
स तैर महद्भिश च महारथैश; च तेजस्विभिर वीर्यवद्भिश च राजन रराज राजॊत्तमराजमुखैर; वृतः स देवैर इव वर्ज पाणिः ॥ 3 ॥
तस्मिन्न अनीक परमुखे विषक्ता; दॊधूयमानाश च महापताकाः सुरक्त पीतासित पाण्डुर आभा; महागजस्कन्धगता विरेजुः ॥ 4 ॥
सा वाहिनी शांतनवेन राज्ञा; महारथैर वारणवाजिभिश च बभौ स विद्युत सतनयित्नुकल्पा; जलागमे दयौर इव जातमेघा ॥ 5 ॥
ततॊ रणायाभिमुखी परयाता; परत्य अर्जुनं शांतनवाभिगुप्ता सेना महॊग्रा सहसा करूणां; वेगॊ यथा भीम इवापगायाः ॥ 6 ॥
तं वयालनानाविध विगूढ सारं; गजाश्वपादातरथौघपक्षम वयूहं महामेघसमं महात्मा; ददर्श दुरात कपिराजकेतुः ॥ 7 ॥
स निर्ययौ केतुमता रथेन; नरर्षभः शवेतहयेन वीरः वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्न यूनाम ॥ 8 ॥
सूपस्करं सॊत्तर बन्धुरेषं; यत्तं यदूनाम ऋषभेण संख्ये कपिध्वजं परेक्ष्य विषेदुर आजौ; सहैव पुत्रैस तव कौरवेयाः ॥ 9 ॥
परकर्षता गुप्तम उदायुधेन; किरीटिना लॊकमहारथेन तं वयूह राजं ददृशुस तवदीयाश; चतुश चतुर्व्याल सहस्रकीर्णम ॥ 10 ॥
यथा हि पूर्वे ऽहनि धर्मराज्ञा वयूहः; कृतः कौरवनन्दनेन तथा तथॊद्देशम उपेत्य तस्थुः; पाञ्चाल मुख्यैः सह चेदिमुख्याः ॥ 11 ॥
ततॊ महावेगसमाहतानि; भेरीसहस्राणि विनेदुर आजौ शङ्खस्वना दुन्दुभिनिस्वनाश च; सर्वेष्व अनीकेषु ससिंहनादाः ॥ 12 ॥
ततः स बाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः कषणेन भेरी पणवप्रणादान; अन्तर्दधुः शङ्खमहास्वनाश च ॥ 13 ॥
तच छङ्खशब्दावृतम अन्तरिक्षम; उद्धुत भौम दरुतरेणुजालम महावितानावतत परकाशम; आलॊक्य वीराः सहसाभिपेतुः ॥ 14 ॥
रथी रथेनाभिहतः ससूतः; पपात साश्वः स रथः स केतुः गजॊ गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः ॥ 15 ॥
आवर्तमानान्य अभिवर्तमानैर; बाणैः कषतान्य अद्भुतदर्शनानि परासैश च खड्गैश च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः ॥ 16 ॥
सुवर्णतारा गणभूषितानि; शरावराणि परहितानि वीरैः विदार्यमाणानि परश्वधैश च; परासैश च खड्गैश च निपेतुर उर्व्याम ॥ 17 ॥
गजैर विषाणैर वरहस्तरुग्णाः; के चित ससूता रथिनः परपेतुः गजर्षभाश चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम ॥ 18 ॥
गजौघवेगॊद्धतसादितानां; शरुत्वा निषेदुर वसुधां मनुष्याः आर्तस्वरं सादिपदातियूनां; विषाण गात्रावर ताडितानाम ॥ 19 ॥
संभ्रान्तनागाश्वरथे परसूते; महाभये सादिपदाति यूनाम महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम ॥ 20 ॥
तं पञ्च तालॊच्छ्रिततालकेतुः; सदश्ववेगॊद्धत वीर्ययातः महास्त्र बाणाशनिदीप्तमार्गं; किरीटिनं शांतनवॊ ऽभयधावत ॥ 21 ॥
तथैव शक्र परतिमानकल्पम; इन्द्रात्मजं दरॊण मुखाभिसस्रुः कृपश च शल्यश च विविंशतिश च; दुर्यॊधनः सौमदत्तिश च राजन ॥ 22 ॥
ततॊ रथानीक मुखाद उपेत्य; सर्वास्त्रवित काञ्चनचित्रवर्मा जवेन शूरॊ ऽभिससार सर्वांस; तथार्जुनस्यात्र सुतॊ ऽभिमन्युः ॥ 23 ॥
तेषां महास्त्राणि महारथानाम; असक्तकर्मा विनिहत्य कार्ष्णिः बभौ महामन्त्रहुतार्चि माली; सगॊद्गतः सन भगवान इवाग्निः ॥ 24 ॥
ततः स तूर्णं रुधिरॊद फेनां; कृत्वा नदीं वैशसने रिपूणाम जगाम सौभद्रम अतीत्य भीष्मॊ; महारथं पार्थम अदीनसत्त्वः ॥ 25 ॥
ततः परहस्याद्भुत दर्शनेन; गाण्डीवनिर्ह्वाद महास्वनेन विपाठ जालेन महास्त्र जालं; विनाशयाम आस किरीटमाली ॥ 26 ॥
तम उत्तमं सर्वधनुर्धराणाम; असक्तकर्मा कपिराजकेतुः भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर विमलैश च भल्लैः ॥ 27 ॥
एवंविधं कार्मुकभीम नादम; अदीनवत सत्पुरुषॊत्तमाभ्याम ददर्श लॊकः कुरुसृञ्जयाश च; तद दवैरथं भीष्म धनंजयाभ्याम ॥ 28 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 56
Reach this point to mark the section finished.
Continue to अध्याय 57