धृतराष्ट्र उवाच परतिज्ञाते तु भीष्मेण तस्मिन युद्धे सुदारुणे करॊधितॊ मम पुत्रेण दुःखितेन विशेषतः ॥ 1 ॥
भीष्मः किम अकरॊत तत्र पाण्डवेयेषु संजय पितामहे वा पाञ्चालास तन ममाचक्ष्व संजय ॥ 2 ॥
संजय उवाच गतपूर्वाह्णभूयिष्ठे तस्मिन्न अहनि भारत जयं पराप्तेषु हृष्टेषु पाण्डवेषु महात्मसु ॥ 3 ॥
सर्वधर्मविशेषज्ञः पिता देवव्रतस तव अभ्ययाज जवनैर अश्वैः पाण्डवानाम अनीकिनीम महत्या सेनया गुप्तस तव पुत्रैश च सर्वशः ॥ 4 ॥
परावर्तत ततॊ युद्धं तुमुलं लॊमहर्षणम अस्माकं पाण्डवैः सार्धम अनयात तव भारत ॥ 5 ॥
धनुषां कूजतां तत्र तलानां चाभिहन्यताम महान समभवच छब्दॊ गिरीणाम इव दीर्यताम ॥ 6 ॥
तिष्ठ सथितॊ ऽसमि विद्ध्य एनं निवर्तस्व सथिरॊ भव सथितॊ ऽसमि परहरस्वेति शब्दाः शरूयन्त सर्वशः ॥ 7 ॥
काञ्चनेषु तनुत्रेषु किरीटेषु धवजेषु च शिलानाम इव शैलेषु पतितानाम अभूत सवनः ॥ 8 ॥
पतितान्य उत्तमाङ्गानि बाहवश च विभूषिताः वयचेष्टन्त महीं पराप्य शतशॊ ऽथ सहस्रशः ॥ 9 ॥
हृतॊत्तमाङ्गाः के चित तु तथैवॊद्यतकार्मुकाः परगृहीतायुधाश चापि तस्थुः पुरुषसत्तमाः ॥ 10 ॥
परावर्तत महावेगा नदी रुधिरवाहिनी मातङ्गाङ्गशिलारौद्रा मांसशॊणितकर्दमा ॥ 11 ॥
वराश्वनरनागानां शरीरप्रभवा तदा परलॊकार्णवमुखी गृध्रगॊमायुमॊदिनी ॥ 12 ॥
न दृष्टं न शरुतं चापि युद्धम एतादृशं नृप यथा तव सुतानां च पाण्डवानां च भारत ॥ 13 ॥
नासीद रथपथस तत्र यॊधैर युधि निपातितैः गजैश च पतितैर नीलैर गिरिशृङ्गैर इवावृतम ॥ 14 ॥
विकीर्णैः कवचैश चित्रैर धवजैश छत्रैश च मारिष शुशुभे तद रणस्थानं शरदीव नभस्तलम ॥ 15 ॥
विनिर्भिन्नाः शरैः के चिद अन्तपीडाविकर्षिणः अभीताः समरे शत्रून अभ्यधावन्त दंशिताः ॥ 16 ॥
तात भरातः सखे बन्धॊ वयस्य मम मातुल मा मां परित्यजेत्य अन्ये चुक्रुशुः पतिता रणे ॥ 17 ॥
आधावाभ्येहि मा गच्छ किं भीतॊ ऽसि कव यास्यसि सथितॊ ऽहं समरे मा भैर इति चान्ये विचुक्रुशुः ॥ 18 ॥
तत्र भीष्मः शांतनवॊ नित्यं मण्डलकार्मुकः मुमॊच बाणान दीप्ताग्रान अहीन आशीविषान इव ॥ 19 ॥
शरैर एकायनीकुर्वन दिशः सर्वा यतव्रतः जघान पाण्डवरथान आदिश्यादिश्य भारत ॥ 20 ॥
स नृत्यन वै रथॊपस्थे दर्शयन पाणिलाघवम अलातचक्रवद राजंस तत्र तत्र सम दृश्यते ॥ 21 ॥
तम एकं समरे शूरं पाण्डवाः सृञ्जयास तथा अनेकशतसाहस्रं समपश्यन्त लाघवात ॥ 22 ॥
मायाकृतात्मानम इव भीष्मं तत्र सम मेनिरे पूर्वस्यां दिशि तं दृष्ट्वा परतीच्यां ददृशुर जनाः ॥ 23 ॥
उदीच्यां चैनम आलॊक्य दक्षिणस्यां पुनः परभॊ एवं स समरे वीरॊ गाङ्गेयः परत्यदृश्यत ॥ 24 ॥
न चैनं पाण्डवेयानां कश चिच छक्नॊति वीक्षितुम विशिखान एव पश्यन्ति भीष्मचापच्युतान बहून ॥ 25 ॥
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम वयाक्रॊशन्त रणे तत्र वीरा बहुविधं बहु अमानुषेण रूपेण चरन्तं पितरं तव ॥ 26 ॥
शलभा इव राजानः पतन्ति विधिचॊदिताः भीष्माग्निम अभि संक्रुद्धं विनाशाय सहस्रशः ॥ 27 ॥
न हि मॊघः शरः कश चिद आसीद भीष्मस्य संयुगे नरनागाश्वकायेषु बहुत्वाल लघुवेधिनः ॥ 28 ॥
भिनत्त्य एकेन बाणेन सुमुक्तेन पतत्रिणा गजकङ्कटसंनाहं वज्रेणेवाचलॊत्तमम ॥ 29 ॥
दवौ तरीन अपि गजारॊहान पिण्डितान वर्मितान अपि नाराचेन सुतीक्ष्णेन निजघान पिता तव ॥ 30 ॥
यॊ यॊ भीष्मं नरव्याघ्रम अभ्येति युधि कश चन मुहूर्तदृष्टः स मया पातितॊ भुवि दृश्यते ॥ 31 ॥
एवं सा धर्मराजस्य वध्यमाना महाचमूः भीष्मेणातुलवीर्येण वयशीर्यत सहस्रधा ॥ 32 ॥
परकीर्यत महासेना शरवर्षाभितापिता पश्यतॊ वासुदेवस्य पार्थस्य च महात्मनः ॥ 33 ॥
यतमानापि ते वीरा दरवमाणान महारथान नाशक्नुवन वारयितुं भीष्मबाणप्रपीडिताः ॥ 34 ॥
महेन्द्रसमवीर्येण वध्यमाना महाचमूः अभज्यत महाराज न च दवौ सह धावतः ॥ 35 ॥
आविद्धनरनागाश्वं पतितध्वजकूबरम अनीकं पाण्डुपुत्राणां हाहाभूतम अचेतनम ॥ 36 ॥
जघानात्र पिता पुत्रं पुत्रश च पितरं तथा परियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ॥ 37 ॥
विमुच्य कवचान अन्ये पाण्डुपुत्रस्य सैनिकाः परकीर्य केशान धावन्तः परत्यदृश्यन्त भारत ॥ 38 ॥
तद गॊकुलम इवॊद्भ्रान्तम उद्भ्रान्तरथयूथपम ददृशे पाण्डुपुत्रस्य सैन्यम आर्तस्वरं तदा ॥ 39 ॥
परभज्यमानं तत सैन्यं दृष्ट्वा देवकिनन्दनः उवाच पार्थं बीभत्सुं निगृह्य रथम उत्तमम ॥ 40 ॥
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस तवया परहरास्मै नरव्याघ्र न चेन मॊहाद विमुह्यसे ॥ 41 ॥
यत तवया कथितं वीर पुरा राज्ञां समागमे भीष्मद्रॊणमुखान सर्वान धार्तराष्ट्रस्य सैनिकान ॥ 42 ॥
सानुबन्धान हनिष्यामि ये मां यॊत्स्यन्ति संयुगे इति तत कुरु कौन्तेय सत्यं वाक्यम अरिंदम ॥ 43 ॥
बीभत्सॊ पश्य सैन्यं सवं भज्यमानं समन्ततः दरवतश च महीपालान सर्वान यौधिष्ठिरे बले ॥ 44 ॥
दृष्ट्वा हि समरे भीष्मं वयात्ताननम इवान्तकम भयार्ताः संप्रणश्यन्ति सिंहं कषुद्रमृगा इव ॥ 45 ॥
एवम उक्तः परत्युवाच वासुदेवं धनंजयः चॊदयाश्वान यतॊ भीष्मॊ विगाह्यैतद बलार्णवम ॥ 46 ॥
ततॊ ऽशवान रजतप्रख्यांश चॊदयाम आस माघवः यतॊ भीष्मरथॊ राजन दुष्प्रेक्ष्यॊ रश्मिमान इव ॥ 47 ॥
ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत दृष्ट्वा पार्थं महाबाहुं भीष्मायॊद्यन्तम आहवे ॥ 48 ॥
ततॊ भीष्मः कुरुश्रेष्ठः सिंहवद विनदन मुहुः धनंजयरथं तूर्णं शरवर्षैर अवाकिरत ॥ 49 ॥
कषणेन स रथस तस्य सहयः सहसारथिः शरवर्षेण महता संछन्नॊ न परकाशते ॥ 50 ॥
वासुदेवस तव असंभ्रान्तॊ धैर्यम आस्थाय सत्त्ववान चॊदयाम आस तान अश्वान वितुन्नान भीष्मसायकैः ॥ 51 ॥
ततः पार्थॊ धनुर गृह्य दिव्यं जलदनिस्वनम पातयाम आस भीष्मस्य धनुश छित्त्वा तरिभिः शरैः ॥ 52 ॥
स छिन्नधन्वा कौरव्यः पुनर अन्यन महद धनुः निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ 53 ॥
विचकर्ष ततॊ दॊर्भ्यां धनुर जलदनिस्वनम अथास्य तद अपि करुद्धश चिच्छेद धनुर अर्जुनः ॥ 54 ॥
तस्य तत पूजयाम आस लाघवं शंतनॊः सुतः साधु पार्थ महाबाहॊ साधु भॊ पाण्डुनन्दन ॥ 55 ॥
तवय्य एवैतद युक्तरूपं महत कर्म धनंजय परीतॊ ऽसमि सुदृढं पुत्र कुरु युद्धं मया सह ॥ 56 ॥
इति पार्थं परशस्याथ परगृह्यान्यन महद धनुः मुमॊच समरे वीरः शरान पार्थरथं परति ॥ 57 ॥
अदर्शयद वासुदेवॊ हययाने परं बलम मॊघान कुर्वञ शरांस तस्य मण्डलान्य अचरल लघु ॥ 58 ॥
तथापि भीष्मः सुदृढं वासुदेवधनंजयौ विव्याध निशितैर बाणैः सर्वगात्रेषु मारिष ॥ 59 ॥
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ गॊवृषाव इव नर्दन्तौ विषाणॊल्लिखिताङ्कितौ ॥ 60 ॥
पुनश चापि सुसंक्रुद्धः शरैः संनतपर्वभिः कृष्णयॊर युधि संरब्धॊ भीष्मॊ वयावारयद दिशः ॥ 61 ॥
वार्ष्णेयं च शरैस तीक्ष्णैः कम्पयाम आस रॊषितः मुहुर अभ्युत्स्मयन भीष्मः परहस्य सवनवत तदा ॥ 62 ॥
ततः कृष्णस तु समरे दृष्ट्वा भीष्मपराक्रमम संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम ॥ 63 ॥
भीष्मं च शरवर्षाणि सृजन्तम अनिशं युधि परतपन्तम इवादित्यं मध्यम आसाद्य सेनयॊः ॥ 64 ॥
वरान वरान विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान युगान्तम इव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥ 65 ॥
अमृष्यमाणॊ भगवान केशवः परवीरहा अचिन्तयद अमेयात्मा नास्ति यौधिष्ठिरं बलम ॥ 66 ॥
एकाह्ना हि रणे भीष्मॊ नाशयेद देवदानवान किम उ पाण्डुसुतान युद्धे सबलान सपदानुगान ॥ 67 ॥
दरवते च महत सैन्यं पाण्डवस्य महात्मनः एते च कौरवास तूर्णं परभग्नान दृश्य सॊमकान आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम ॥ 68 ॥
सॊ ऽहं भीष्मं निहन्म्य अद्य पाण्डवार्थाय दंशितः भारम एतं विनेष्यामि पाण्डवानां महात्मनाम ॥ 69 ॥
अर्जुनॊ ऽपि शरैस तीक्ष्णैर वध्यमानॊ हि संयुगे कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात ॥ 70 ॥
तथा चिन्तयतस तस्य भूय एव पितामहः परेषयाम आस संक्रुद्धः शरान पार्थरथं परति ॥ 71 ॥
तेषां बहुत्वाद धि भृशं शराणां; दिशॊ ऽथ सर्वाः पिहिता बभूवुः न चान्तरिक्षं न दिशॊ न भूमिर; न भास्करॊ ऽदृश्यत रश्मिमाली ववुश च वातास तुमुलाः सधूमा; दिशश च सर्वाः कषुभिता बभूवुः ॥ 72 ॥
दरॊणॊ विकर्णॊ ऽथ जयद्रथश च; भूरिश्रवाः कृतवर्मा कृपश च शरुतायुर अम्बष्ठपतिश च राजा; विन्दानुविन्दौ च सुदक्षिणश च ॥ 73 ॥
पराच्याश च सौवीरगणाश च सर्वे; वसातयः कषुद्रकमालवाश च किरीटिनं तवरमाणाभिसस्रुर; निदेशगाः शांतनवस्य राज्ञः ॥ 74 ॥
तं वाजिपादातरथौघजालैर; अनेकसाहस्रशतैर ददर्श किरीटिनं संपरिवार्यमाणं; शिनेर नप्ता वारणयूथपैश च ॥ 75 ॥
ततस तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरॊ ऽभिससार तूर्णम ॥ 76 ॥
स तान्य अनीकानि महाधनुष्माञ; शिनिप्रवीरः सहसाभिपत्य चकार साहाय्यम अथार्जुनस्य; विष्णुर यथा वृत्रनिषूदनस्य ॥ 77 ॥
विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयॊधम युधिष्ठिरानीकम अभिद्रवन्तं; परॊवाच संदृश्य शिनिप्रवीरः ॥ 78 ॥
कव कषत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात कथितः पुराणैः मा सवां परतिज्ञां जहत परवीराः; सवं वीरधर्मं परिपालयध्वम ॥ 79 ॥
तान वासवान अन्तरजॊ निशम्य; नरेन्द्रमुख्यान दरवतः समन्तात पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च संख्ये समुदीर्यमाणम ॥ 80 ॥
अमृष्यमाणः स ततॊ महात्मा; यशस्विनं सर्वदशार्हभर्ता उवाच शैनेयम अभिप्रशंसन; दृष्ट्वा कुरून आपततः समन्तात ॥ 81 ॥
ये यान्ति यान्त्व एव शिनिप्रवीर; ये ऽपि सथिताः सात्वत ते ऽपि यान्तु भीष्मं रथात पश्य निपात्यमानं; दरॊणं च संख्ये सगणं मयाद्य ॥ 82 ॥
नासौ रथः सात्वत कौरवाणां; करुद्धस्य मुच्येत रणे ऽदय कश चित तस्माद अहं गृह्य रथाङ्गम उग्रं; पराणं हरिष्यामि महाव्रतस्य ॥ 83 ॥
निहत्य भीष्मं सगणं तथाजौ; दरॊणं च शैनेय रथप्रवीरम परीतिं करिष्यामि धनंजयस्य; राज्ञश च भीमस्य तथाश्विनॊश च ॥ 84 ॥
निह्यत्य सर्वान धृतराष्ट्रपुत्रांस; तत्पक्षिणॊ ये च नरेन्द्रमुख्याः राज्येन राजानम अजातशत्रुं; संपादयिष्याम्य अहम अद्य हृष्टः ॥ 85 ॥
ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम कषुरान्तम उद्यम्य भुजेन चक्रं; रथाद अवप्लुत्य विसृज्य वाहान ॥ 86 ॥
संकम्पयन गां चरणैर महात्मा; वेगेन कृष्णः परससार भीष्मम मदान्धम आजौ समुदीर्णदर्पः; सिंहॊ जिघांसन्न इव वारणेन्द्रम ॥ 87 ॥
सॊ ऽभयद्रवद भीष्मम अनीकमध्ये; करुद्धॊ महेन्द्रावरजः परमाथी वयालम्बिपीतान्तपटश चकाशे; घनॊ यथा खे ऽचिरभापिनद्धः ॥ 88 ॥
सुदर्शनं चास्य रराज शौरेस; तच चक्रपद्मं सुभुजॊरुनालम यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम ॥ 89 ॥
तत कृष्णकॊपॊदयसूर्यबुद्धं; कषुरान्ततीक्ष्णाग्रसुजातपत्रम तस्यैव देहॊरुसरः पररूढं; रराज नारायणबाहुनालम ॥ 90 ॥
तम आत्तचक्रं परणदन्तम उच्चैः; करुद्धं महेन्द्रावरजं समीक्ष्य सर्वाणि भूतानि भृशं विनेदुः; कषयं कुरूणाम इति चिन्तयित्वा ॥ 91 ॥
स वासुदेवः परगृहीत चक्रः; संवर्तयिष्यन्न इव जीवलॊकम अभ्युत्पतँल लॊकगुरुर बभासे; भूतानि धक्ष्यन्न इव कालवह्निः ॥ 92 ॥
तम आपतन्तं परगृहीतचक्रं; समीक्ष्य देवं दविपदां वरिष्ठम असंभ्रमात कार्मुकबाणपाणी; रथे सथितः शांतनवॊ ऽभयुवाच ॥ 93 ॥
एह्य एहि देवेश जगन्निवास; नमॊ ऽसतु ते शार्ङ्गरथाङ्गपाणे परसह्य मां पातय लॊकनाथ; रथॊत्तमाद भूतशरण्य संख्ये ॥ 94 ॥
तवया हतस्येह ममाद्य कृष्ण; शरेयः परस्मिन्न इह चैव लॊके संभावितॊ ऽसम्य अन्धकवृष्णिनाथ; लॊकैस तरिभिर वीर तवाभियानात ॥ 95 ॥
रथाद अवप्लुत्य ततस तवरावान; पार्थॊ ऽपय अनुद्रुत्य यदुप्रवीरम जग्राह पीनॊत्तमलम्बबाहुं; बाह्वॊर हरिं वयायतपीनबाहुः ॥ 96 ॥
निगृह्यमाणश च तदादिदेवॊ; भृशं सरॊषः किल नाम यॊगी आदाय वेगेन जगाम विष्णुर; जिष्णुं महावात इवैकवृक्षम ॥ 97 ॥
पार्थस तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णम अभिद्रवन्तम बलान निजग्राह किरीटमाली; पदे ऽथ राजन दशमे कथं चित ॥ 98 ॥
अवस्थितं च परणिपत्य कृष्णं; परीतॊ ऽरजुनः काञ्चनचित्रमाली उवाच कॊपं परतिसंहरेति; गतिर भवान केशव पाण्डवानाम ॥ 99 ॥
न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सॊदरैश च अन्तं करिष्यामि यथा कुरूणां; तवयाहम इन्द्रानुज संप्रयुक्तः ॥ 100 ॥
ततः परतिज्ञां समयं च तस्मै; जनार्दनः परीतमना निशम्य सथितः परिये कौरवसत्तमस्य; रथं सचक्रः पुनर आरुरॊह ॥ 101 ॥
स तान अभीषून पुनर आददानः; परगृह्य शङ्खं दविषतां निहन्ता विनादयाम आस ततॊ दिशश च; स पाञ्चजन्यस्य रवेण शौरिः ॥ 102 ॥
वयाविद्धनिष्काङ्गदकुण्डलं तं; रजॊ विकीर्णाश चित पक्ष्म नेत्रम विशुद्धदंष्ट्रं परगृहीतशङ्खं; विचुक्रुशुः परेक्ष्य कुरुप्रवीराः ॥ 103 ॥
मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश च ससिंहनादाश च बभूवुर उग्राः; सर्वेष्व अनीकेषु ततः कुरूणाम ॥ 104 ॥
गाण्डीवघॊषः सतनयित्नुकल्पॊ; जगाम पार्थस्य नभॊ दिशश च जग्मुश च बाणा विमलाः परसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः ॥ 105 ॥
तं कौरवाणाम अधिपॊ बलेन; भीष्मेण भूरिश्रवसा च सार्धम अभ्युद्ययाव उद्यतबाणपाणिः; कक्षं दिधक्षन्न इव धूमकेतुः ॥ 106 ॥
अथार्जुनाय परजहार भल्लान; भूरिश्रवाः सप्त सुवर्णपुङ्खान दुर्यॊधनस तॊमरम उग्रवेगं; शल्यॊ गदां शांतनवश च शक्तिम ॥ 107 ॥
स सप्तभिः सप्त शरप्रवेकान; संवार्य भूरिश्रवसा विसृष्टान शितेन दुर्यॊधनबाहुमुक्तं; कषुरेण तत तॊमरम उन्ममाथ ॥ 108 ॥
ततः शुभाम आपततीं स शक्तिं; विद्युत्प्रभां शांतनवेन मुक्ताम गदां च मद्राधिपबाहुमुक्तां; दवाभ्यां शराभ्यां निचकर्त वीरः ॥ 109 ॥
ततॊ भुजाभ्यां बलवद विकृष्य; चित्रं धनुर गाण्डिवम अप्रमेयम माहेन्द्रम अस्त्रं विधिवत सुघॊरं; परादुश्चकाराद्भुतम अन्तरिक्षे ॥ 110 ॥
तेनॊत्तमास्त्रेण ततॊ महात्मा; सर्वाण्य अनीकानि महाधनुष्मान शरौघजालैर विमलाग्निवर्णैर; निवारयाम आस किरीटमाली ॥ 111 ॥
शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान धवजाग्राणि धनूंषि बाहून निकृत्य देहान विविशुः परेषां; नरेन्द्रनागेन्द्रतुरंगमाणाम ॥ 112 ॥
ततॊ दिशश चानुदिशश च पार्थः; शरैः सुधारैर निशितैर वितत्य गाण्डीवशब्देन मनांसि तेषां; किरीटमाली वयथयां चकार ॥ 113 ॥
तस्मिंस तथा घॊरतमे परवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश च अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुर उग्राश च रणप्रणादाः ॥ 114 ॥
गाण्डीवशब्दं तम अथॊ विदित्वा; विराटराजप्रमुखा नृवीराः पाञ्चालराजॊ दरुपदश च वीरस; तं देशम आजग्मुर अदीनसत्त्वाः ॥ 115 ॥
सर्वाणि सैन्यानि तु तावकानि; यतॊ यतॊ गाण्डिवजः परणादः ततस ततः संनतिम एव जग्मुर; न तं परतीपॊ ऽभिससार कश चित ॥ 116 ॥
तस्मिन सुघॊरे नृपसंप्रहारे; हताः परवीराः सरथाः ससूताः गजाश च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः ॥ 117 ॥
परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः दृढाहताः पत्रिभिर उग्रवेगैः; पार्थेन भल्लैर निशितैः शिताग्रैः ॥ 118 ॥
निकृत्तयन्त्रा निहतेन्द्रकीला; धवजा महान्तॊ धवजिनीमुखेषु पदातिसंघाश च रथाश च संख्ये; हयाश च नागाश च धनंजयेन ॥ 119 ॥
बाणाहतास तूर्णम अपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुर उर्व्याम ऐन्द्रेण तेनास्त्रवरेण राजन; महाहवे भिन्नतनुत्रदेहाः ॥ 120 ॥
ततः शरौघैर निशितैः किरीटिना; नृदेहशस्त्रक्षतलॊहितॊदा नदी सुघॊरा नरदेहफेना; परवर्तिता तत्र रणाजिरे वै ॥ 121 ॥
वेगेन सातीव पृथुप्रवाहा; परसुस्रुता भैरवारावरूपा परेतनागाश्वशरीररॊधा; नरान्त्रमज्जाभृतमांसपङ्का ॥ 122 ॥
परभूतरक्षॊगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला शरीरसंघातसहस्रवाहिनी; विशीर्णनानाकवचॊर्मिसंकुला ॥ 123 ॥
नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा तां कङ्कमालावृतगृध्रकह्वैः; करव्यादसंघैश च तरक्षुभिश च ॥ 124 ॥
उपेतकूलां ददृशुः समन्तात; करूरां महावैतरणीप्रकाशाम परवर्तिताम अर्जुनबाणसंघैर; मेदॊवसासृक्प्रवहां सुभीमाम ॥ 125 ॥
ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश च सर्वे सहिताः परणेदुः वित्रास्य सेनां धवजिनीपतीनां; सिंहॊ मृगाणाम इव यूथसंघान विनेदतुस ताव अतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश च ॥ 126 ॥
ततॊ रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः तद ऐन्द्रम अस्त्रं विततं सुघॊरम; असह्यम उद्वीक्ष्य युगान्तकल्पम ॥ 127 ॥
अथापयानं कुरवः सभीष्माः; सद्रॊणदुर्यॊधनबाह्लिकाश च चक्रुर निशां संधिगतां समीक्ष्य; विभावसॊर लॊहितराजियुक्ताम ॥ 128 ॥
अवाप्य कीर्तिं च यशश च लॊके; विजित्य शत्रूंश च धनंजयॊ ऽपि ययौ नरेन्द्रैः सह सॊदरैश च; समाप्तकर्मा शिबिरं निशायाम ततः परजज्ञे तुमुलः कुरूणां; निशामुखे घॊरतरः परणादः ॥ 129 ॥
रणे रथानाम अयुतं निहत्य; हता गजाः सप्तशतार्जुनेन पराच्याश च सौवीरगणाश च सर्वे; निपातिताः कषुद्रकमालवाश च महत कृतं कर्म धनंजयेन; कर्तुं यथा नार्हति कश चिद अन्यः ॥ 130 ॥
शरुतायुर अम्बष्ठपतिश च राजा; तथैव दुर्मर्षणचित्रसेनौ दरॊणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन सवबाहुवीर्येण जिताः सभीष्माः; किरीटिना लॊकमहारथेन ॥ 131 ॥
इति बरुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये तवदीयाः उल्कासहस्रैश च सुसंप्रदीप्तैर; विभ्राजमानैश च तथा परदीपैः किरीटिवित्रासितसर्वयॊधा; चक्रे निवेशं धवजिनी कुरूणाम ॥ 132 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 55
Reach this point to mark the section finished.
Continue to अध्याय 56