धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 54

  1. [स] ततस ते पार्थिवाः करुद्धाः फल्गुनं वीक्ष्य संयुगे रथैर अनेकसाहस्रैः समन्तात पर्यवारयन ॥ 1 ॥

  2. अथैनं रथवृन्देन कॊष्टकी कृत्यभारत शरैः सुबहु साहस्रैः समन्ताद अभ्यवारयन ॥ 2 ॥

  3. शक्तीश च विमलास तीक्ष्णा गदाश च परिघैः सह परासान परश्वधांश चैव मुद्गरान मुसलान अपि चिक्षिपुः समरे करुद्धाः फल्गुनस्य रथं परति ॥ 3 ॥

  4. शस्त्राणाम अथ तां वृष्टिं शलभानाम इवायतिम रुरॊध सर्वतः पार्थः शरैः कनकभूषणैः ॥ 4 ॥

  5. तत्र तल लाघवं दृष्ट्वा बीभत्सॊर अतिमानुषम देवदानवगन्धर्वाः पिशाचॊरगराक्षसाः साधु साध्व इति राजेन्द्र फल्गुनं परत्यपूजयन ॥ 5 ॥

  6. सात्यकिं चाभिमन्युं च महत्या सेनया सह गान्धाराः समरे शूरा रुरुधुः सह सौबलाः ॥ 6 ॥

  7. तत्र सौबलकाः करुद्धा वार्ष्णेयस्य रथॊत्तमम तिलशश चिच्छिदुः करॊधाच छस्त्रैर नानाविधैर युधि ॥ 7 ॥

  8. सात्यकिस तु रथं तयक्त्वा वर्तमाने महाभये अभिमन्यॊ रथं तूर्णम आरुरॊह परंतपः ॥ 8 ॥

  9. ताव एकरथसंयुक्तौ सौबलेयस्य वाहिनीम वयधमेतां शितैस तूर्णं शरैः संनतपर्वभिः ॥ 9 ॥

  10. दरॊण भीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम नाशयेतां शरैस तीक्ष्णैः कङ्कपत्र परिच्छदैः ॥ 10 ॥

  11. ततॊ धर्मसुतॊ राजा माद्रीपुत्रौ च पाण्डवौ मिषतां सर्वसैन्यानां दरॊणानीकम उपाद्रवन ॥ 11 ॥

  12. तत्रासीत सुमहद युद्धं तुमुलं लॊमहर्षणम यथा देवासुरं युद्धं पूर्वम आसीत सुदारुणम ॥ 12 ॥

  13. कुर्वाणौ तु महत कर्म भीमसेन घटॊत्कचौ दुर्यॊधनस ततॊ ऽभयेत्य ताव उभाव अभ्यवारयत ॥ 13 ॥

  14. तत्राद्भुतम अपश्याम हैडिम्बस्य पराक्रमम अतीत्य पितरं युद्धे यद अयुध्यत भारत ॥ 14 ॥

  15. भीमसेनस तु संक्रुद्धॊ दुर्यॊधनम अमर्षणम हृद्य अविध्यत पृषत्केन परहसन्न इव पाण्डवः ॥ 15 ॥

  16. ततॊ दुर्यॊधनॊ राजा परहार वरमॊहितः निषसाद रथॊपस्थे कश्मलं च जगाम ह ॥ 16 ॥

  17. तं विसं जञम अथॊ जञात्वा तवरमाणॊ ऽसय सारथिः अपॊवाह रणाद राजंस ततः सैन्यम अभिद्यत ॥ 17 ॥

  18. ततस तां कौरवीं सेनां दरवमाणां समन्ततः निघ्नन भीमः शरैस तीक्ष्णैर अनुवव्राज पृष्ठतः ॥ 18 ॥

  19. पार्षतश च रतः शरेष्ठॊ धर्मपुत्रश च पाण्डवः दरॊणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः जघ्नतुर विशिखैस तीक्ष्णैः परानीक विशातनैः ॥ 19 ॥

  20. दरवमाणं तु तत सैन्यं तव पुत्रस्य संयुगे नाशक्नुतां वारयितुं भीष्मद्रॊणौ महारथौ ॥ 20 ॥

  21. वार्यमाणं हि भीष्मेण दरॊणेन च विशां पते विद्रवत्य एव तत सैन्यं पश्यतॊर दरॊण भीष्मयॊः ॥ 21 ॥

  22. ततॊ रथसहस्रेषु विद्रवत्सु ततस ततः ताव आस्थिताव एकरथं सौभद्र शिनिपुंगवौ सौबलीं समरे सेनां शातयेतां समन्ततः ॥ 22 ॥

  23. शुशुभाते तदा तौ तु शैनेय कुरुपुंगवौ अमावास्यां गतौ यद्वत सॊमसूर्यौ नभस्तले ॥ 23 ॥

  24. अर्जुनस तु ततः करुद्धस तव सैन्यं विशां पते ववर्ष शरवर्षेण धाराभिर इव तॊयदः ॥ 24 ॥

  25. वध्यमानं ततस तत तु शरैः पार्थस्य संयुगे दुद्राव कौरवं सैन्यं विषादभयकम्पितम ॥ 25 ॥

  26. दरवतस तान समालॊक्य भीष्मद्रॊणौ महारथौ नयवारयेतां संरब्धौ दुर्यॊधनहितैषिणौ ॥ 26 ॥

  27. ततॊ दुर्यॊधनॊ राजा समाश्वस्य विशां पते नयवर्तयत तत सैन्यं दरवमाणं समन्ततः ॥ 27 ॥

  28. यत्र यत्र सुतं तुभ्यं यॊ यः पश्यति भारत तत्र तत्र नयवर्तन्त कषत्रियाणां महारथाः ॥ 28 ॥

  29. तान निवृत्तान समीक्ष्यैव ततॊ ऽनये ऽपीतरे जनाः अन्यॊन्यस्पर्धया राजँल लज्जयान्ये ऽवतस्थिरे ॥ 29 ॥

  30. पुनरावर्ततां तेषां वेग आसीद विशां पते पूर्यतः सागरस्येव चन्द्रस्यॊदयनं परति ॥ 30 ॥

  31. संनिवृत्तांस ततस तांस तु दृष्ट्वा राजा सुयॊधनः अब्रवीत तवरितॊ गत्वा भीष्मं शांतनवं वचः ॥ 31 ॥

  32. पितामह निबॊधेदं यत तवा वक्ष्यामि भारत नानुरूपम अहं मन्ये तवयि जीवति कौरव ॥ 32 ॥

  33. दरॊणे चास्त्रविदां शरेष्ठे सपुत्रे स सुहृज्जने कृपे चैव महेष्वासे दरवतीयं वरूथिनी ॥ 33 ॥

  34. न पाण्डवाः परतिबलास तव राजन कथं चन तथा दरॊणस्य संग्रामे दरौणेश चैव कृपस्य च ॥ 34 ॥

  35. अनुग्राह्याः पाण्डुसुता नूनं तव पितामह यथेमां कषमसे वीरवध्यमानां वरूथिनीम ॥ 35 ॥

  36. सॊ ऽसमि वाच्यस तवया राजन पूर्वम एव समागमे न यॊत्स्ये पाण्डवान संख्ये नापि पार्षत सात्यकी ॥ 36 ॥

  37. शरुत्वा तु वचनं तुभ्यम आचार्यस्य कृपस्य च कर्णेन सहितः कृत्यं चिन्तयानस तदैव हि ॥ 37 ॥

  38. यदि नाहं परित्याज्यॊ युवाभ्याम इह संयुगे विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥ 38 ॥

  39. एतच छरुत्वा वचॊ भीष्मः परहसन वै मुहुर मुहुः अब्रवीत तनयं तुभ्यं करॊधाद उद्वृत्य चक्षुषी ॥ 39 ॥

  40. बहुशॊ हि मया राजंस तथ्यम उक्तं हितं वचः अजेयाः पाण्डवा युद्धे देवैर अपि स वासवैः ॥ 40 ॥

  41. यत तु शक्यं मया कर्तुं वृद्धेनाद्य नृपॊत्तम करिष्यामि यथाशक्ति परेक्षेदानीं स बान्धवः ॥ 41 ॥

  42. अद्य पाण्डुसुतान सर्वान स सैन्यान सह बन्धुभिः मिषतॊ वारयिष्यामि सर्वलॊकस्य पश्यतः ॥ 42 ॥

  43. एवम उक्ते तु भीष्मेण पुत्रास तव जनेश्वर दध्मुः शङ्खान मुदा युक्ता भेरीश च जघ्निरे भृशम ॥ 43 ॥

  44. पाण्डवापि ततॊ राजञ शरुत्वा तं निनदं महत दध्मुः शङ्खांश च भेरीश च मुरजांश च वयनादयन ॥ 44 ॥

Reach this point to mark the section finished.

Continue to अध्याय 55

Previous: अध्याय 53