[स] ततॊ वयूढेष्व अनीकेषु तावकेष्व इतरेषु च धनंजयॊ रथानीकम अवधीत तव भारत शरैर अतिरथॊ युद्धे पातयन रथयूथपान ॥ 1 ॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षये धार्तराष्ट्रा रणे यत्ताः पाण्डवान परत्ययॊधयन परार्थयाना यशॊ दीप्तं मृत्युं कृत्वा निवर्तनम ॥ 2 ॥
एकाग्रमनसॊ भूत्वा पाण्डवानां वरूथिनीम बभञ्जुर बहुशॊ राजंस ते चाभज्यन्त संयुगे ॥ 3 ॥
दरवद्भिर अथ भग्नैश च परिवर्तद्भिर एव च पाण्डवैः कौरवैश चैव न परज्ञायत किं चन ॥ 4 ॥
उदतिष्ठद रजॊ भौमं छादयानं दिवाकरम दिशः परतिदिशॊ वापि तत्र जज्ञुः कथं चन ॥ 5 ॥
अनुमानेन संज्ञाभिर नामगॊत्रैश च संयुगे वर्तते सम तदा युद्धं तत्र तत्र विशां पते ॥ 6 ॥
न वयूहॊ भिद्यते तत्र कौरवाणां कथं चन रक्षितः सत्यसंधेन भारद्वाजेन धीमता ॥ 7 ॥
तथैव पाण्डवेयानां रक्षितः सव्यसाचिना नाभिध्यत महाव्यूहॊ भीमेन च सुरक्षितः ॥ 8 ॥
सेनाग्राद अभिनिष्पत्य परायुध्यंस तत्र मानवाः उभयॊः सेनयॊ राजन वयतिषक्त रथद्विपाः ॥ 9 ॥
हयारॊहैर हयारॊहाः पात्यन्ते सम महाहवे ऋष्टिभिर विमलाग्राभिः परासैर अपि च संयुगे ॥ 10 ॥
रथी रत्निनम आसाद्य शरैः कनकभूषणैः पातयाम आस समरे तस्मिन्न अतिभयं करे ॥ 11 ॥
गजारॊहा गजारॊहान नाराचशरतॊमरैः संसक्ताः पातयाम आसुस तव तेषां च संघशः ॥ 12 ॥
पत्तिसंघा रणे पत्तीन भिण्डिपाल परश्वधैः नयपातयन्त संहृष्टाः परस्परकृतागसः ॥ 13 ॥
पदाती रथिनं संख्ये रथी चापि पदातिनम नयपातयच छितैः शस्त्रैः सेनयॊर उभयॊर अपि ॥ 14 ॥
गजारॊहा हयारॊहान पातयां चक्रिरे तदा हयारॊहा गजस्थांश च तद अद्भुतम इवाभवत ॥ 15 ॥
गजारॊह वरैश चापि तत्र तत्र पदातयः पातिताः समदृश्यन्त तैश चापि गजयॊधिनः ॥ 16 ॥
पत्तिसंघा हयारॊहैः सादिसंघाश च पत्तिभिः पात्यमाना वयदृश्यन्त शतशॊ ऽथ सहस्रशः ॥ 17 ॥
धवजैस तत्रापविद्धैश च कार्मुकैस तॊमरैस तथा परासैस तथा गदाभिश च परिघैः कम्पनैस तथा ॥ 18 ॥
शक्तिभिः कवचैश चित्रैः कणपैर अङ्कुशैर अपि निस्त्रिंशैर विमलैश चापि सवर्णपुङ्खैः शरैस तथा ॥ 19 ॥
परिस्तॊमैः कुथाभिश च कम्बलैश च महाधनैः भूर भाति भरतश्रेष्ठ सरग्दामैर इव चित्रिता ॥ 20 ॥
नराश्वकायैः पतितैर दन्तिभिश च महाहवे अगम्यरूपा पृथिवी मांसशॊणितकर्दमा ॥ 21 ॥
परशशाम रजॊ भौमं वयुक्षितं रणशॊणितैः दिशश च विमलाः सर्वाः संबभूवुर जनेश्वर ॥ 22 ॥
उत्थितान्य अगणेयानि कबन्धानि समन्ततः चिह्नभूतानि जगतॊ विनाशार्थाय भारत ॥ 23 ॥
तस्मिन युद्धे महारौद्रे वर्तमाने सुदारुणे परत्यदृश्यन्त रथिनॊ धावमानाः समन्ततः ॥ 24 ॥
ततॊ दरॊणश च भीष्मश च सैन्धवश च जयद्रथः पुरुमित्रॊ विकर्णश च शकुनिश चापि सौबलः ॥ 25 ॥
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः पाण्डवानाम अनीकानि बभञ्जुः सम पुनः पुनः ॥ 26 ॥
तथैव भीमसेनॊ ऽपि राक्षसश च घटॊत्कचः सात्यकिश चेकितानश च दरौपदेयाश च भारत ॥ 27 ॥
तावकांस तव पुत्रांश च सहितान सर्वराजभिः दरावयाम आसुर आजौ ते तरिदशा दानवान इव ॥ 28 ॥
तथा ते समरे ऽनयॊन्यं निघ्नन्तः कषत्रियर्षभाः रक्तॊक्षिता घॊररूपा विरेजुर दानवा इव ॥ 29 ॥
विनिर्जित्य रिपून वीराः सेनयॊर उभयॊर अपि वयदृश्यन्त महामात्रा गरहा इव नभस्तले ॥ 30 ॥
ततॊ रथसहस्रेण पुत्रॊ दुर्यॊधनस तव अभ्ययात पाण्डवान युद्धे राक्षसं च घटॊत्कचम ॥ 31 ॥
तथैव पाण्डवाः सर्वे महत्या सेनया सह दरॊण भीष्मौ रणे शूरौ परत्युद्ययुर अरिंदमौ ॥ 32 ॥
किरीटी तु ययौ करुद्धः समर्थान पार्थिवॊत्तमान आर्जुनिः सात्यकिश चैव ययतुः सौबलं बलम ॥ 33 ॥
ततः परववृते भूयः संग्रामॊ लॊमहर्षणः तावकानां परेषां च समरे विजिगीषताम ॥ 34 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 53
Reach this point to mark the section finished.
Continue to अध्याय 54