[स] परभातायां तु शर्वर्यां भीष्मः शांतनवस ततः अनीकान्यानुसंयाने वयादिदेशाथ भारत ॥ 1 ॥
गारुडं च महाव्यूहं चक्रे शांतनवस तदा पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ॥ 2 ॥
गरुडस्य सवयं तुण्डे पिता देवव्रतस तव चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ॥ 3 ॥
अश्वत्थामा कृपश चैव शीर्षम आस्तां यशस्विनौ तरिगर्तैर मत्स्यकैकेयैर वाटधानैश च संयुतौ ॥ 4 ॥
भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष मद्रकाः सिन्धुसौवीरास तथा पञ्च नदाश च ये ॥ 5 ॥
जयद्रथेन सहिता गरीवायां संनिवेशिताः पृष्ठे दुर्यॊधनॊ राजा सॊदरैः सानुगैर वृतः ॥ 6 ॥
विन्दानुविन्दाव आवन्त्यौ काम्बॊजश च शकैः सह पुच्छम आसन महाराज शूरसेनाश च सर्वशः ॥ 7 ॥
मागधाश च कलिङ्गाश च दाशेरक गणैः सह दक्षिणं पक्षम आसाद्य सथिता वयूहस्य दंशिताः ॥ 8 ॥
काननाश च विकुञ्जाश च मुक्ताः पुण्ड्राविषस तथा बृहद्बलेन सहिता वामं पक्षम उपाश्रिताः ॥ 9 ॥
वयूढं दृष्ट्वा तु तत सैन्यं सव्यसाची परंतपः धृष्टद्युम्नेन सहितः परत्यव्यूहत संयुगे अर्धचन्द्रेण वयूहेन वयूहं तम अतिदारुणम ॥ 10 ॥
दक्षिणं शृङ्गम आस्थाय भीमसेनॊ वयरॊचत नानाशस्त्रौघसंपन्नैर नानादेश्यैर नृपैर वृतः ॥ 11 ॥
तद अन्व एव विराटश च दरुपदश च महारथः तदनन्तरम एवासीन नीलॊ लीलायुधैः सह ॥ 12 ॥
नीलाद अनन्तरं चैव धृष्टकेतुर महारथः चेदिकाशिकरूषैश च पौरवैश चाभिसंवृतः ॥ 13 ॥
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश च परभद्रकाः मध्ये सैन्यस्य महतः सथिता युद्धाय भारत ॥ 14 ॥
तथैव धर्मराजॊ ऽपि गजानीकेन संवृतः ततस तु सात्यकी राजन दरौपद्याः पञ्च चात्मजाः ॥ 15 ॥
अभिमन्युस ततस तूर्णम इरावांश च ततः परम भैमसेनिस ततॊ राजन केकयाश च महारथाः ॥ 16 ॥
ततॊ ऽभूद दविपदां शरेष्ठॊ वामं पार्श्वम उपाश्रितः सर्वस्य जगतॊ गॊप्ता गॊप्ता यस्य जनार्दनः ॥ 17 ॥
एवम एतन महाव्यूहं परत्यव्यूहन्त पाण्डवाः वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः ॥ 18 ॥
ततः परववृते युद्धं वयतिषक्त रथद्विपम तावकानां परेषां च निघ्नताम इतरेतरम ॥ 19 ॥
हयौघाश च रथौघाश च तत्र तत्र विशां पते संपतन्तः सम दृश्यन्ते निघ्नमानाः परस्परम ॥ 20 ॥
धावतां च रथौघानां निघ्नतां च पृथक पृथक बभूव तुमुलः शब्दॊ विमिश्रॊ दुन्दुभिस्वनैः ॥ 21 ॥
दिवस्पृन नरवीराणां निघ्नताम इतरेतरम संप्रहारे सुतुमुले तव तेषां च भारत ॥ 22 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 52
Reach this point to mark the section finished.
Continue to अध्याय 53