धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 51

  1. [स] गतापराह्णभूयिष्ठे तस्मिन्न अहनि भारत रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥ 1 ॥

  2. दरॊणपुत्रेण शल्येन कृपेण च महात्मना समसज्जत पाञ्चाल्यस तरिभिर एतैर महारथैः ॥ 2 ॥

  3. स लॊकविदितान अश्वान निजघान महाबलः दरौणेः पाञ्चाल दायादः शितैर दशभिर आशुगैः ॥ 3 ॥

  4. ततः शल्य रथं तूर्णम आस्थाय हतवाहनः दरौणिः पाञ्चाल दायादम अभ्यवर्षद अथेषुभिः ॥ 4 ॥

  5. धृष्टद्युम्नं तु संसक्तं दरौणिना दृश्य भारत सौभद्रे ऽभयपतत तूर्णं विकिरन निशिताञ शरान ॥ 5 ॥

  6. स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः अश्वत्थामानम अष्टाभिर विव्याध पुरुषर्षभ ॥ 6 ॥

  7. आर्जुनिं तु ततस तूर्णं दरौणिर विव्याध पत्रिणा शल्यॊ दवादशभिश चैव कृपश च निशितैस तरिभिः ॥ 7 ॥

  8. लक्ष्मणस तव पौत्रस तु तव पौत्रम अवस्थितम अभ्यवर्तत संहृष्टस ततॊ युद्धम अवर्तत ॥ 8 ॥

  9. दौर्यॊधनिस तु संक्रुद्धः सौभद्रं नवभिः शरैः विव्याध समरे राजंस तद अद्भुतम इवाभवत ॥ 9 ॥

  10. अभिमन्युस तु संक्रुद्धॊ भरातरं भरतर्षभ शरैः पञ्चाशता राजन कषिप्रहस्तॊ ऽभयविध्यत ॥ 10 ॥

  11. लक्ष्मणॊ ऽपि ततस तस्य धनुश चिच्छेद पत्रिणा मुष्टिदेशे महाराज तत उच्चुक्रुशुर जनाः ॥ 11 ॥

  12. तद विहाय धनुश छिन्नं सौभद्रः परवीरहा अन्यद आदत्तवांश चित्रं कार्मुकं वेगवत्तरम ॥ 12 ॥

  13. तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ अन्यॊन्यं विशिखैस तीक्ष्णैर जघ्नतुः पुरुषर्षभौ ॥ 13 ॥

  14. ततॊ दुर्यॊधनॊ राजा दृष्ट्वा पुत्रं महारथम पीडितं तव पौत्रेण परायात तत्र जनेश्वरः ॥ 14 ॥

  15. संनिवृत्ते तव सुते सर्व एव जनाधिपाः आर्जुनिं रथवंशेन समन्तात पर्यवारयन ॥ 15 ॥

  16. स तैः परिवृतः शूरैः शूरॊ युधि सुदुर्जयैः न सम विव्यथते राजन कृष्ण तुल्यपराक्रमः ॥ 16 ॥

  17. सौभद्रम अथ संसक्तं तत्र दृष्ट्वा धनंजयः अभिदुद्राव संक्रुद्धस तरातुकामः सवम आत्मजम ॥ 17 ॥

  18. ततः सरथनागाश्वा भीष्मद्रॊणपुरॊगमाः अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम ॥ 18 ॥

  19. उद्धूतं सहसा भौमं नागाश्वरथसादिभिः दिवाकरपथं पराप्य रजस तीव्रम अदृश्यत ॥ 19 ॥

  20. तानि नागसहस्राणि भूमिपाल शतानि च तस्य बाणपथं पराप्य नाभ्यवर्तन्त सर्वशः ॥ 20 ॥

  21. परणेदुः सर्वभूतानि बभूवुस तिमिरा दिशः कुरूणाम अनयस तीव्रः समदृश्यत दारुणः ॥ 21 ॥

  22. नाप्य अन्तरिक्षं न दिशॊ न भूमिर न च भास्करः परजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः ॥ 22 ॥

  23. सादित धवजनागास तु हताश्वा रथिनॊ भृशम विप्रद्रुत रथाः के चिद दृश्यन्ते रथयूथपाः ॥ 23 ॥

  24. विरथा रथिनश चान्ये धावमानाः समन्ततः तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर भुजैः ॥ 24 ॥

  25. हयारॊहा हयांस तयक्त्वा गजारॊहाश च दन्तिनः अर्जुनस्य भयाद राजन समन्ताद विप्रदुद्रुवुः ॥ 25 ॥

  26. रथेभ्यश च गजेभ्यश च हयेभ्यश च नराधिपाः पतिताः पात्यमानाश च दृश्यन्ते ऽरजुन ताडिताः ॥ 26 ॥

  27. सगदान उद्यतान बाहून स खड्गांश च विशां पते स परासांश च स तूणीरान स शरान स शरासनान ॥ 27 ॥

  28. साङ्कुशान स पताकांश च तत्र तत्रार्जुनॊ नृणाम निचकर्त शरैर उग्रै रौद्रं बिभ्रद वपुस तदा ॥ 28 ॥

  29. परिघाणां परवृद्धानां मुद्गराणां च मारिष परासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे ॥ 29 ॥

  30. परश्वधानां तीक्ष्णानां तॊमराणां च भारत वर्मणां चापविद्धानां कवचानां च भूतले ॥ 30 ॥

  31. धवजानां चर्मणां चैव वयजनानां च सर्वशः छत्राणां हेमदण्डानां चामराणां च भारत ॥ 31 ॥

  32. परतॊदानां कशानां च यॊक्त्राणां चैव मारिष राशयश चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥ 32 ॥

  33. नासीत तत्र पुमान कश चित तव सैन्यस्य भारत यॊ ऽरजुनं समरे शूरं परत्युद्यायात कथं चन ॥ 33 ॥

  34. यॊ यॊ हि समरे पार्थं पत्युद्याति विशां पते स स वै विशिखैस तीक्ष्णैः परलॊकाय नीयते ॥ 34 ॥

  35. तेषु विद्रवमाणेषु तव यॊधेषु सर्वशः अर्जुनॊ वासुदेवश च दध्मतुर वारिजॊत्तमौ ॥ 35 ॥

  36. तत परभग्नं बलं दृष्ट्वा पिता देवव्रतस तव अब्रवीत समरे शूरं भारद्वाजं समयन्न इव ॥ 36 ॥

  37. एष पाण्डुसुतॊ वीरः कृष्णेन सहितॊ बली तथा करॊति सैन्यानि यथा कुर्याद धनंजयः ॥ 37 ॥

  38. न हय एष समरे शक्यॊ जेतुम अद्य कथं चन यथास्य दृश्यते रूपं कालान्तकयमॊपमम ॥ 38 ॥

  39. न निवर्तयितुं चापि शक्येयं महती चमूः अन्यॊन्यप्रेक्षया पश्य दरवतीयं वरूथिनी ॥ 39 ॥

  40. एष चास्तं गिरिश्रेष्ठं भानुमान परतिपद्यते वपूंषि सर्वलॊकस्य संहरन्न इव सर्वथा ॥ 40 ॥

  41. तत्रावहारं संप्राप्तं मन्ये ऽहं पुरुषर्षभ शरान्ता भीताश च नॊ यॊधा न यॊत्स्यन्ति कथं चन ॥ 41 ॥

  42. एवम उक्त्वा ततॊ भीष्मॊ दरॊणम आचार्य सत्तमम अवहारम अथॊ चक्रे तावकानां महारथः ॥ 42 ॥

  43. ततॊ ऽवहारः सैन्यानां तव तेषां च भारत अस्तं गच्छति सूर्ये ऽभूत संध्याकाले च वर्तति ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 52

Previous: अध्याय 50