धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 50

  1. [धृ] तथा परतिसमादिष्टः कलिङ्गॊ वाहिनीपतिः कथम अद्भुतकर्माणं भीमसेनं महाबलम ॥ 1 ॥

  2. चरन्तं गदया वीरं दण्डपाणिम इवान्तकम यॊधयाम आस समरे कलिङ्गः सह सेनया ॥ 2 ॥

  3. [स] पुत्रेण तव राजेन्द्र स तथॊक्तॊ महाबलः महत्या सेनया गुप्तः परायाद भीम रथं परति ॥ 3 ॥

  4. ताम आपतन्तीं सहसा कलिङ्गानां महाचमूम रथनागाश्वकलिलां परगृहीतमहायुधाम ॥ 4 ॥

  5. भीमसेनः कलिङ्गानाम आर्छद भारत वाहिनीम केतुमन्तं च नैषादिम आयान्तं सह चेदिभिः ॥ 5 ॥

  6. ततः शरुतायुः संक्रुद्धॊ राज्ञा केतुमता सह आससाद रणे भीमं वयूढानीकेषु चेदिषु ॥ 6 ॥

  7. रथैर अनेकसाहस्रैः कलिङ्गानां जनाधिपः अयुतेन गजानां च निषादैः सह केतुमान भीमसेनं रणे राजन समन्तात पर्यवारयत ॥ 7 ॥

  8. चेदिमत्स्य करूषाश च भीमसेनपुरॊगमाः अभ्यवर्तन्त सहसा निषादान सह राजभिः ॥ 8 ॥

  9. ततः परववृते युद्धं घॊररूपं भयानकम परजानन न च यॊधान सवान परस्परजिघांसया ॥ 9 ॥

  10. घॊरम आसीत ततॊ युद्धं भीमस्य सहसा परैः यथेन्द्रस्य महाराज महत्या दैत्य सेनया ॥ 10 ॥

  11. तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत बभूव सुमहाञ शब्दः सागरस्येव गर्जतः ॥ 11 ॥

  12. अन्यॊन्यस्य तदा यॊधा निकृन्तन्तॊ विशां पते महीं चक्रुश चितां सर्वां शशशॊणितसंनिभाम ॥ 12 ॥

  13. यॊधांश च सवा परान वापि नाभ्यजानज जिघांसया सवान अप्य आददते सवाश च शूराः समरदुर्जयाः ॥ 13 ॥

  14. विमर्दः सुमहान आसीद अल्पानां बहुभिः सह कलिङ्गैः सह चेदीनां निषादैश च विशां पते ॥ 14 ॥

  15. कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ॥ 15 ॥

  16. सर्वैः कलिङ्गैर आसन्नः संनिवृत्तेषु चेदिषु सवबाहुबलम आस्थाय न नयवर्तत पाण्डवः ॥ 16 ॥

  17. न चचाल रथॊपस्थाद भीमसेनॊ महाबलः शितैर अवाकिरन बाणैः कलिङ्गानां वरूथिनीम ॥ 17 ॥

  18. कलिङ्गस तु महेष्वासः पुत्रश चास्य महारथः शक्रदेव इति खयातॊ जघ्नतुः पाण्डवं शरैः ॥ 18 ॥

  19. ततॊ भीमॊ महाबाहुर विधुन्वन रुचिरं धनुः यॊधयाम आस कालिङ्गान सवबाहुबलम आश्रितः ॥ 19 ॥

  20. शक्रदेवस तु समरे विसृजन सायकान बहून अश्वाञ जघान समरे भीमसेनस्य सायकैः ववर्ष शरवर्षाणि तपान्ते जलदॊ यथा ॥ 20 ॥

  21. हताश्वे तु रथे तिष्ठन भीमसेनॊ महाबलः शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम ॥ 21 ॥

  22. स तया निहतॊ राजन कलिङ्गस्य सुतॊ रथात स धवजः सह सूतेन जगाम धरणीतलम ॥ 22 ॥

  23. हतम आत्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः रथैर अनेकसाहस्रैर भिमस्यावारयद दिशः ॥ 23 ॥

  24. ततॊ भीमॊ महाबाहुर गुर्वीं तयक्त्वा महागदाम उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम ॥ 24 ॥

  25. चर्म चाप्रतिमं राजन्न आर्षभं पुरुषर्षभ नक्षतैर अर्धचन्द्रैश च शातकुम्भमयैश चितम ॥ 25 ॥

  26. कलिङ्गस तु ततः करुद्धॊ धनुर्ज्याम अवमृज्य ह परगृह्य च शरं घॊरम एकं सर्पविषॊपमम पराहिणॊद भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥ 26 ॥

  27. तम आपतन्तं वेगेन परेरितं निशितं शरम भीमसेनॊ दविधा राजंश चिच्छेद विपुलासिना उदक्रॊशच च संहृष्टस तरासयानॊ वरूथिनीम ॥ 27 ॥

  28. कलिङ्गस तु ततः करुद्धॊ भीमसेनाय संयुगे तॊमरान पराहिणॊच छीघ्रं चतुर्दश शिलाशितान ॥ 28 ॥

  29. तान अप्राप्तान महाबाहुः खगतान एव पाण्डवः चिच्छेद सहसा राजन्न असंभ्रान्तॊ वरासिना ॥ 29 ॥

  30. निकृत्य तु रणे भीमस तॊमरान वै चतुर्दश भानुमन्तम अभिप्रेक्ष्य पराद्रवत पुरुषर्षभः ॥ 30 ॥

  31. भानुमांस तु ततॊ भीमं शरवर्षेण छादयन ननाद बलवन नादं नादयानॊ नभस्तलम ॥ 31 ॥

  32. न तं स ममृषे भीमः सिंहनादं महारणे ततः सवरेण महता विननाद महास्वनम ॥ 32 ॥

  33. तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी न भीमं समरे मेने मानुषं भरतर्षभ ॥ 33 ॥

  34. ततॊ भीमॊ महाराज नदित्वा विपुलं सवनम सासिर वेगाद अवप्लुत्य दन्ताभ्यां वारणॊत्तमम ॥ 34 ॥

  35. आरुरॊह ततॊ मध्यं नागराजस्य मारिष खड्गेन पृथुना मध्ये भानुमन्तम अतॊ ऽचछिनत ॥ 35 ॥

  36. सॊ ऽनतरायुधिनं हत्वा राजपुत्रम अरिंदमः गुरुभारसह सकन्धे नागस्यासिम अपातयत ॥ 36 ॥

  37. छिन्नस्कन्धः स विनदन पपात गजयूथपः आरुग्णः सिन्धुवेगेन सानुमान इव पर्वतः ॥ 37 ॥

  38. ततस तस्माद अवप्लुत्य गजाद भारत भारतः खड्गपाणिर अदीनात्मा अतिष्ठद भुवि दंशितः ॥ 38 ॥

  39. स चचार बहून मार्गान अभीतः पातयन गजान अग्निचक्रम इवाविद्धं सर्वतः परत्यदृश्यत ॥ 39 ॥

  40. अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः पदातीनां च संघेषु विनिघ्नञ शॊणितॊक्षितः शयेनवद वयचरद भीमॊ रणे रिपुबलॊत्कटः ॥ 40 ॥

  41. छिन्दंस तेषां शरीराणि शिरांसि च महाजवः खड्गेन शितधारेण संयुगे गय यॊधिनाम ॥ 41 ॥

  42. पदातिर एकः संक्रुद्धः शत्रूणां भयवर्धनः मॊहयाम आस च तदा कालान्त क यमॊपमः ॥ 42 ॥

  43. मूढाश च ते तम एवाजौ विनदन्तः समाद्रवन सासिम उत्तमवेगेन विचरन्तं महारणे ॥ 43 ॥

  44. निकृत्य रथिनाम आजौ रथेशाश च युगानि च जघान रथिनश चापि बलवान अरिमर्दनः ॥ 44 ॥

  45. भीमसेनश चरन मार्गान सुबहून परत्यदृश्यत भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम संपातं समुदीर्यं च दर्शयाम आस पाण्डवः ॥ 45 ॥

  46. के चिद अग्रासिना छिन्नाः पाण्डवेन महात्मना विनेदुर भिन्नमर्माणॊ निपेतुश च गतासवः ॥ 46 ॥

  47. छिन्नदन्ता गरहस ताश च भिन्नकुम्भास तथापरे वियॊधाः सवान्य अनीकानि जघ्नुर भारत वारणाः निपेतुर उर्व्यां च तथा विनदन्तॊ महारवान ॥ 47 ॥

  48. छिन्नांश च तॊमरांश चापान महामात्रशिरांसि च परिस्तॊमानि चित्राणि कक्ष्याश च कनकॊज्ज्वलाः ॥ 48 ॥

  49. गरैवेयाण्य अथ शक्तीश च पताकाः कणपांस तथा तूणीराण्य अथ यन्त्राणि विचित्राणि धनूंषि च ॥ 49 ॥

  50. अग्निकुण्डानि शुभ्राणि तॊत्त्रांश चैवाङ्कुशैः सह घण्टाश च विविधा राजन हेमगर्भांस तसरून अपि पततः पतितांश चैव पश्यामः सह सादिभिः ॥ 50 ॥

  51. छिन्नगात्रावर करैर निहतैश चापि वारणैः आसीत तस्मिन समास्तीर्णा पतितैर भूनगैर इव ॥ 51 ॥

  52. विमृद्यैवं महानागान ममर्दाश्वान नरर्षभः अश्वारॊहवरांश चापि पातयाम आस भारत तद घॊरम अभवद युद्धं तस्य तेषां च भारत ॥ 52 ॥

  53. खलीनान्य अथ यॊक्त्राणि कशाश च कनकॊज्ज्वलाः परिस्तॊमाश च परासाश च ऋष्टयश च महाधनाः ॥ 53 ॥

  54. कवचान्य अथ चर्माणि चित्राण्य आस्तरणानि च तत्र तत्रापविद्धानि वयदृश्यन्त महाहवे ॥ 54 ॥

  55. परॊथ यन्त्रैर विचित्रैश च शस्त्रैश च विमलैस तथा सचक्रे वसुधां कीर्णां शबलैः कुसुमैर इव ॥ 55 ॥

  56. आप्लुत्य रथिनः कांश चित परामृश्य महाबलः पातयाम आस खड्गेन स धवजान अपि पाण्डवः ॥ 56 ॥

  57. मुहुर उत्पततॊ दिक्षु धावतश च यशस्विनः मार्गांश च चरतश चित्रान वयस्मयन्त रणे जनाः ॥ 57 ॥

  58. निजघान पदा कांश चिद आक्षिप्यान्यान अपॊथयत खड्गेनान्यांश च चिच्छेद नादेनान्यांश च भीषयन ॥ 58 ॥

  59. ऊरुवेगेन चाप्य अन्यान पातयाम आस भूतले अपरे चैनम आलॊक्य भयात पञ्चत्वम आगताः ॥ 59 ॥

  60. एवं सा बहुला सेना कलिङ्गानां तरस्विनाम परिवार्य रणे भीष्मं भीमसेनम उपाद्रवत ॥ 60 ॥

  61. ततः कलिङ्ग सैन्यानां परमुखे भरतर्षभ शरुतायुषम अभिप्रेक्ष्य भीमसेनः समभ्ययात ॥ 61 ॥

  62. तम आयान्तम अभिप्रेक्ष्य कलिङ्गॊ नवभिः शरैः भीमसेनम अमेयात्मा परत्यविध्यत सतनान्तरे ॥ 62 ॥

  63. कलिङ्ग बाणाभिहतस तॊत्त्रार्दित इव दविषः भीमसेनः परजज्वाल करॊधेनाग्निर इवेन्धनैः ॥ 63 ॥

  64. अथाशॊकः समादाय रथं हेमपरिष्कृतम भीमं संपादयाम आस रथेन रथसारथिः ॥ 64 ॥

  65. तम आरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः कलिङ्गम अभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत ॥ 65 ॥

  66. ततः शरुतायुर बलवान भीमाय निशिताञ शरान परेषयाम आस संक्रुद्धॊ दर्शयन पाणिलाघवम ॥ 66 ॥

  67. स कार्मुकवरॊत्सृष्टैर नवभिर निशितैः शरैः समाहतॊ भृशं राजन कलिङ्गेन महायशाः संचुक्रुधे भृशं भीमॊ दण्डाहत इवॊरगः ॥ 67 ॥

  68. करुद्धश च चापम आयम्य बलवद बलिनां वरः कलिङ्गम अवधीत पार्थॊ भीमः सप्तभिर आयसैः ॥ 68 ॥

  69. कषुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ सत्यदेवं च सत्यं च पराहिणॊद यमसादनम ॥ 69 ॥

  70. ततः पुनर अमेयात्मा नाराचैर निशितैस तरिभिः केतुमन्तं रणे भीमॊ ऽगमयद यमसादनम ॥ 70 ॥

  71. ततः कलिङ्गाः संक्रुद्धा भीमसेनम अमर्षणम अनीकैर बहुसाहस्रैः कषत्रियाः समवारयन ॥ 71 ॥

  72. ततः शक्तिगदा खड्गतॊमरर्ष्टि परश्वधैः कलिङ्गाश च ततॊ राजन भीमसेनम अवाकिरन ॥ 72 ॥

  73. संनिवार्य स तां घॊरां शरवृष्टिं समुत्थिताम गदाम आदाय तरसा परिप्लुत्य महाबलः भीमः सप्तशतान वीरान अनयद यमसादनम ॥ 73 ॥

  74. पुनश चैव दविसाहस्रान कलिङ्गान अरिमर्दनः पराहिणॊन मृत्युलॊकाय तद अद्भुतम इवाभवत ॥ 74 ॥

  75. एवं स तान्य अनीकानि कलिङ्गानां पुनः पुनः बिभेद समरे वीरः परेक्ष्य भीष्मं महाव्रतम ॥ 75 ॥

  76. हतारॊहाश च मातङ्गाः पाण्डवेन महात्मना विप्रजग्मुर अनीकेषु मेघा वातहता इव मृदन्तः सवान्य अनीकानि विनदन्तः शरातुराः ॥ 76 ॥

  77. ततॊ भीमॊ महाबाहुः शङ्खं पराध्मापयद बली सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत ॥ 77 ॥

  78. मॊहश चापि कलिङ्गानाम आविवेश परंतप पराकम्पन्त च सैन्यानि वाहनानि च सर्वशः ॥ 78 ॥

  79. भीमेन समरे राजन गजेन्द्रेणेव सर्वतः मार्गान बहून विचरता धावता च ततस ततः मुहुर उत्पतता चैव संमॊहः समजायत ॥ 79 ॥

  80. भीमसेन भयत्रस्तं सैन्यं च समकम्पत कषॊभ्यमाणम असंबाधं पराहेणेव महत सरः ॥ 80 ॥

  81. तरासितेषु च वीरेषु भीमेनाद्भुत कर्मणा पुनरावर्तमानेषु विद्रवत्सु च संघशः ॥ 81 ॥

  82. सर्वकालिङ्गयॊधेषु पाण्डूनां धवजिनीपतिः अब्रवीत सवान्य अनीकानि युध्यध्वम इति पार्षतः ॥ 82 ॥

  83. सेनापतिवचः शरुत्वा शिखण्डिप्रमुखा गणाः भीमम एवाभ्यवर्तन्त रथानीकैः परहारिभिः ॥ 83 ॥

  84. धर्मराजश च तान सर्वान उपजग्राह पाण्डवः महता मेघवर्णेन नागानीकेन पृष्ठतः ॥ 84 ॥

  85. एवं संचॊद्य सर्वाणि सवान्य अनीकानि पार्षतः भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषॊचिताम ॥ 85 ॥

  86. न हि पाञ्चालराजस्य लॊके कश चन विद्यते भीम सात्यकयॊर अन्यः पराणेभ्यः परियकृत्तमः ॥ 86 ॥

  87. सॊ ऽपश्यत तं कलिङ्गेषु चरन्तम अरिसूदनम भीमसेनं महाबाहुं पार्षतः परवीरहा ॥ 87 ॥

  88. ननर्द बहुधा राजन हृष्टश चासीत परंतपः शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥ 88 ॥

  89. स च पारावताश्वस्य रथे हेमपरिष्कृते कॊविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत ॥ 89 ॥

  90. धृष्टद्युम्नस तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम भीमसेनम अमेयात्मा तराणायाजौ समभ्ययात ॥ 90 ॥

  91. तौ दूरात सात्यकिर दृष्ट्वा धृष्टद्युम्नवृकॊदरौ कलिङ्गान समरे वीरौ यॊधयन्तौ मनस्विनौ ॥ 91 ॥

  92. स तत्र गत्वा शैनेयॊ जवेन जयतां वरः पार्थ पार्षतयॊः पार्ष्णिं जग्राह पुरुषर्षभः ॥ 92 ॥

  93. स कृत्वा कदनं तत्र परगृहीतशरासनः आस्थितॊ रौद्रम आत्मानं जघान समरे परान ॥ 93 ॥

  94. कलिङ्ग परभवां चैव मांसशॊणितकर्दमाम रुधिरस्यन्दिनीं तत्र भीमः परावर्तयन नदीम ॥ 94 ॥

  95. अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम संततार सुदुस्तारां भीमसेनॊ महाबलः ॥ 95 ॥

  96. भीमसेनं तथा दृष्ट्वा पराक्रॊशंस तावका नृप कालॊ ऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥ 96 ॥

  97. ततः शांतनवॊ भीष्मः शरुत्वा तं निनदं रणे अभ्ययात तवरितॊ भीमं वयूढानीकः समन्ततः ॥ 97 ॥

  98. तं सात्यकिर भीमसेनॊ धृष्टद्युम्नश च पार्षतः अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम ॥ 98 ॥

  99. परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे तरिभिस तरिभिः शरैर घॊरैर भीष्मम आनर्छुर अञ्जसा ॥ 99 ॥

  100. परत्यविध्यत तान सर्वान पिता देवव्रतस तव यतमानान महेष्वासांस तरिभिस तरिभिर अजिह्मगैः ॥ 100 ॥

  101. ततः शरसहस्रेण संनिवार्य महारथान हयान काञ्चनसंनाहान भीमस्य नयहनच छरैः ॥ 101 ॥

  102. हताश्वे तु रथे तिष्ठन भीमसेनः परतापवान शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं परति ॥ 102 ॥

  103. अप्राप्ताम एव तां शक्तिं पिता देवव्रतस तव तरिधा चिच्छेद समरे सा पृथिव्याम अशीर्यत ॥ 103 ॥

  104. ततः शैक्यायसीं गुर्वीं परगृह्य बलवद गदाम भीमसेनॊ रथा तूर्णं पुप्लुवे मनुजर्षभ ॥ 104 ॥

  105. सात्यकॊ ऽपि ततस तूर्णं भीमस्य परियकाम्यया सारथिं कुरुवृद्धस्य पातयाम आस सायकैः ॥ 105 ॥

  106. भीष्मस तु निहते तस्मिन सारथौ रथिनां वरः वातायमानैस तैर अश्वैर अपनीतॊ रणाजिरात ॥ 106 ॥

  107. भीमसेनस ततॊ राजन्न अपनीते महाव्रते परजज्वाल यथा वह्निर दहन कक्षम इवैधितः ॥ 107 ॥

  108. स हत्वा सर्वकालिङ्गान सेना मध्ये वयतिष्ठत नैनम अभ्युत्सहन के चित तावका भरतर्षभ ॥ 108 ॥

  109. धृष्टद्युम्नस तम आरॊप्य सवरथे रथिनां वरः पश्यतां सर्वसैन्यानाम अपॊवाह यशस्विनम ॥ 109 ॥

  110. संपूज्यमानः पाञ्चाल्यैर मत्स्यैश च भरतर्षभ धृष्टद्युम्नं परिष्वज्य समेयाद अथ सात्यकिम ॥ 110 ॥

  111. अथाब्रवीद भीमसेनं सात्यकिः सत्यविक्रमः परहर्षयन यदुव्याघ्रॊ धृष्टद्युम्नस्य पश्यतः ॥ 111 ॥

  112. दिष्ट्या कलिङ्ग राजश च राजपुत्रश च केतुमान शक्रदेवश च कालिङ्गः कलिङ्गाश च मृधे हताः ॥ 112 ॥

  113. सवबाहुबलवीर्येण नागाश्वरथसंकुलः महाव्यूहः कलिङ्गानाम एकेन मृदितस तवया ॥ 113 ॥

  114. एवम उक्त्वा शिनेर नप्ता दीर्घबाहुर अरिंदमः रथाद रथम अभिद्रुत्य पर्यष्वजत पाण्डवम ॥ 114 ॥

  115. ततः सवरथम आरुह्य पुनर एव महारथः तावकान अवधीत करुद्धॊ भीमस्य बलम आदधत ॥ 115 ॥

Reach this point to mark the section finished.

Continue to अध्याय 51

Previous: अध्याय 49