[धृ] कथं दरॊणॊ महेष्वासः पाञ्चाल्यश चापि पार्षतः रणे समीयतुर यत्तौ तन ममाचक्ष्व संजय ॥ 1 ॥
दिष्टम एव परं मन्ये पौरुषाद अपि संजय यत्र शांतनवॊ भीष्मॊ नातरद युधि पाण्डवम ॥ 2 ॥
भीष्मॊ हि समरे करुद्धॊ हन्याल लॊकांश चराचरान स कथं पाण्डवं युद्धे नातरत संजयौजसा ॥ 3 ॥
[स] शृणु राजन सथिरॊ भूत्वा युद्धम एतत सुदारुणम न शक्यः पाण्डवॊ जेतुं देवैर अपि स वासवैः ॥ 4 ॥
दरॊणस तु निशितैर बाणैर धृष्टद्युम्नम अयॊधयत सारथिं चास्य भल्लेन रथनीडाद अपातयत ॥ 5 ॥
तस्याथ चतुरॊ वाहांश चतुर्भिः सायकॊत्तमैः पीडयाम आस संक्रुद्धॊ धृष्टद्युम्नस्य मारिष ॥ 6 ॥
धृष्टद्युम्नस ततॊ दरॊणं नवत्या निशितैः शरैः विव्याध परहसन वीरस तिष्ठ तिष्ठेति चाब्रवीत ॥ 7 ॥
ततः पुनर अमेयात्मा भारद्वाजः परतापवान शरैः परच्छादयाम आस धृष्टद्युम्नम अमर्षणम ॥ 8 ॥
आददे च शरं घॊरं पार्षतस्य वधं परति शक्राशनिसमस्पर्शं मृत्युदण्डम इवापरम ॥ 9 ॥
हाहाकारॊ महान आसीत सर्वसैन्यस्य भारत तम इषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे ॥ 10 ॥
तत्राद्भुतम अपश्याम धृष्टद्युम्नस्य पौरुषम यद एकः समरे वीरस तस्थौ गिरिर इवाचलः ॥ 11 ॥
तं च दीप्तं शरं घॊरम आयान्तं मृत्युम आत्मनः चिच्छेद शरवृष्टिं च भारद्वाजे मुमॊच ह ॥ 12 ॥
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह धृष्टद्युम्नेन तत कर्मकृतं दृष्ट्वा सुदुष्करम ॥ 13 ॥
ततः शक्तिं महावेगां सवर्णवैडूर्य भूषिताम दरॊणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ॥ 14 ॥
ताम आपतन्तीं सहसा शक्तिं कनकभूषणाम तरिधा चिक्षेप समरे भारद्वाजॊ हसन्न इव ॥ 15 ॥
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः परतापवान ववर्ष शरवर्षाणि दरॊणं परति जनेश्वर ॥ 16 ॥
शरवर्षं ततस तं तु संनिवार्य महायशाः दरॊणॊ दरुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम ॥ 17 ॥
स छिन्नधन्वा समरे गदां गुर्वीं महायशाः दरॊणाय परेषयाम आस गिरिसारमयीं बली ॥ 18 ॥
सा गदा वेगवन मुक्ता परायाद दरॊण जिघांसया तत्राद्भुतम अपश्याम भारद्वाजस्य विक्रमम ॥ 19 ॥
लाघवाद वयंसयाम आस गदां हेमविभूषिताम वयंसयित्वा गदां तां च परेषयाम आस पार्षते ॥ 20 ॥
भल्लान सुनिशितान पीतान सवर्णपुङ्खाञ शिलाशितान ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे ॥ 21 ॥
अथान्यद धनुर आदाय धृष्टद्युम्ने महामनाः दरॊणं युधि पराक्रम्य शरैर विव्याध पञ्चभिः ॥ 22 ॥
रुधिराक्तौ ततस तौ तु शुशुभाते नरर्षभौ वसन्त समये राजन पुष्पिताव इव कुंशुकौ ॥ 23 ॥
अमर्षितस ततॊ राजन पराक्रम्य चमूमुखे दरॊणॊ दरुपदपुत्रस्य पुनश चिच्छेद कार्मुकम ॥ 24 ॥
अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः अवाकिरद अमेयात्मा वृष्ट्या मेघ इवाचलम ॥ 25 ॥
सारथिं चास्य भल्लेन रथनीडाद अपातयत अथास्य चतुरॊ वाहांश चतुर्भिर निशितैः शरैः ॥ 26 ॥
पातयाम आस समरे सिंहनादं ननाद च ततॊ ऽपरेण भल्लेन हस्ताच चापम अथाच्छिनत ॥ 27 ॥
स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः गदापाणिर अवारॊहत खयापयन पौरुषं महत ॥ 28 ॥
ताम अस्य विशिखैस तूर्णं पातयाम आस भारत रथाद अनवरूढस्य तद अद्भुतम इवाभवत ॥ 29 ॥
ततः स विपुलं चर्म शतचन्द्रं च भानुमत खड्गं च विपुलं दिव्यं परगृह्य सुभुजॊ बली ॥ 30 ॥
अभिदुद्राव वेगेन दरॊणस्य वधकाङ्क्षया आमिषार्थी यथा सिंहॊ वने मत्तम इव दविपम ॥ 31 ॥
तत्राद्भुतम अपश्याम भारद्वाजस्य पौरुषम लाघवं चास्त्रयॊगं च बलं बाह्वॊश च भारत ॥ 32 ॥
यद एनं शरवर्षेण वारयाम आस पार्षतम न शशाक ततॊ गन्तुं बलवान अपि संयुगे ॥ 33 ॥
तत्र सथितम अपश्याम धृष्टद्युम्नं महारथम वारयाणं शरौघांश च चर्मणा कृतहस्तवत ॥ 34 ॥
ततॊ भीमॊ महाबाहुः सहसाभ्यपतद बली साहाय्यकारी समरे पार्षतस्य महात्मनः ॥ 35 ॥
स दरॊणं निशितैर बाणै राजन विव्याध सप्तभिः पार्षतं च तदा तूर्णम अन्यम आरॊपयद रथम ॥ 36 ॥
ततॊ दुर्यॊधनॊ राजा कलिङ्गं समचॊदयत सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ॥ 37 ॥
ततः सा महती सेना कलिङ्गानां जनेश्वर भीमम अभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात ॥ 38 ॥
पाञ्चाल्यम अभिसंत्यज्य दरॊणॊ ऽपि रथिनां वरः विराटद्रुपदौ वृद्धौ यॊधयाम आस संगतौ धृष्टद्युम्नॊ ऽपि समरे धर्मराजं समभ्ययात ॥ 39 ॥
ततः परववृते युद्धं तुमुलं लॊमहर्षणम कलिङ्गानां च समरे भीमस्य च महात्मनः जगतः परक्षय करं घॊररूपं भयानकम ॥ 40 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 49
Reach this point to mark the section finished.
Continue to अध्याय 50