धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 48

  1. [धृ] एवं वयूढेष्व अनीकेषु मामकेष्व इतरेषु च कथं परहरतां शरेष्ठाः संप्रहारं परचक्रिरे ॥ 1 ॥

  2. [स] समं वयूढेष्व अनीकेषु संनद्धा रुचिरध्वजाः अपारम इव संदृश्य सागरप्रतिमं बलम ॥ 2 ॥

  3. तेषां मध्ये सथितॊ राजा पुत्रॊ दुर्यॊधनस तव अब्रवीत तावकान सर्वान युध्यध्वम इति दंशिताः ॥ 3 ॥

  4. ते मनः करूरम आस्थाय समभित्यक्तजीविताः पाण्डवान अभ्यवर्तन्त सर्व एवॊच्छ्रितध्वजाः ॥ 4 ॥

  5. ततॊ युद्धं समभवत तुमुलं लॊमहर्षणम तावकानां परेषां च वयतिषक्त रथद्विपम ॥ 5 ॥

  6. मुक्तास तु रथिभिर बाणा रुक्मपुङ्खाः सुतेजनाः संनिपेतुर अकुण्ठाग्रा नागेषु च हयेषु च ॥ 6 ॥

  7. तथा परवृत्ते संग्रामे धनुर उद्यम्य दंशितः अभिपत्य महाबाहुर भीष्मॊ भीमपराक्रमः ॥ 7 ॥

  8. सौभद्रे भीमसेने च शौनेये च महारथे केकये च विराते च धृष्टद्युम्ने च पार्षते ॥ 8 ॥

  9. एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥ 9 ॥

  10. पराकम्पत महाव्यूहस तस्मिन वीर समागमे सर्वेषाम एव सैन्यानाम आसीद वयतिकरॊ महान ॥ 10 ॥

  11. सादित धवजनागाश च हतप्रवर वाजिनः विप्रयातरथानीकाः समपद्यन्त पाण्डवाः ॥ 11 ॥

  12. अर्जुनस तु नरव्याघ्रॊ दृष्ट्वा भीष्मं महारथम वार्ष्णेयम अब्रवीत करुद्धॊ याहि यत्र पितामहः ॥ 12 ॥

  13. एष भीष्मः सुसंक्रुद्धॊ वार्ष्णेय मम वाहिनीम नाशयिष्यति सुव्यक्तं दुर्यॊधन हिते रतः ॥ 13 ॥

  14. एष दरॊणः कृपः शल्यॊ विकर्णश च जनार्दन धार्तराष्ट्राश च सहिता दुर्यॊधन पुरॊगमाः ॥ 14 ॥

  15. पाञ्चालान निहनिष्यन्ति रक्षिता दृढधन्वना सॊ ऽहं भीष्मं गमिष्यामि सैन्यहेतॊर जनार्दन ॥ 15 ॥

  16. तम अब्रवीद वासुदेवॊ यत्तॊ भव धनंजय एष तवा परापये वीर पितामह रथं परति ॥ 16 ॥

  17. एवम उक्त्वा ततः शौरी रथं तं लॊकविश्रुतम परापयाम आस भीष्माय रथं परति जनेश्वर ॥ 17 ॥

  18. चञ्चद बहु पताकेन बलाका वर्णवाजिना समुच्छ्रितमहाभीम नदद वानरकेतुना महता मेघनादेन रथेनादित्यवर्चसा ॥ 18 ॥

  19. विनिघ्नन कौरवानीकं शूरसेनांश च पाण्डवः आयाच छरान नुदञ शीघ्रं सुहृच छॊष विनाशनः ॥ 19 ॥

  20. तम आपतन्तं वेगेन परभिन्नम इव वारणम तरासयानं रणे शूरान पातयन्तं च सायकैः ॥ 20 ॥

  21. सैन्धव परमुखैर गुप्तः पराच्य सौवीरकेकयैः सहसा परत्युदीयाय भीष्मः शांतनवॊ ऽरजुनम ॥ 21 ॥

  22. कॊ हि गाण्डीवधन्वानम अन्यः कुरुपितामहात दरॊण वैकर्तनाभ्यां वा रथः संयातुम अर्हति ॥ 22 ॥

  23. ततॊ भीष्मॊ महाराज कौरवाणां पितामहः अर्जुनं सप्त सप्तत्या नाराचानां समावृणॊत ॥ 23 ॥

  24. दरॊणश च पञ्चविंशत्या कृपः पञ्चाशता शरैः दुर्यॊधनश चतुःषष्ट्या शल्यश च नवभिः शरैः ॥ 24 ॥

  25. सैन्धवॊ नवभिश चापि शकुनिश चापि पञ्चभिः विकर्णॊ दशभिर भल्लै राजन विव्याध पाण्डवम ॥ 25 ॥

  26. स तैर विद्धॊ महेष्वासः समन्तान निशितैः शरैः न विव्यथे महाबाहुर भिद्यमान इवाचलः ॥ 26 ॥

  27. स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः दरॊणं षष्ट्या नरव्याघ्रॊ विकर्णं च तरिभिः शरैः ॥ 27 ॥

  28. आर्तायनिं तरिभिर बाणै राजानं चापि पञ्चभिः परत्यविध्यद अमेयात्मा किरीटी भरतर्षभ ॥ 28 ॥

  29. तं सात्यकिर विराटश च धृष्टद्युम्नश च पार्षतः दरौपदेयाभिमन्युश च परिवव्रुर धनंजयम ॥ 29 ॥

  30. ततॊ दरॊणं महेष्वासं गाङ्गेयस्य परिये रतम अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सॊमकैः ॥ 30 ॥

  31. भीष्मस तु रथिनां शरेष्ठस तूर्णं विव्याध पाण्डवम अशीत्या निशितैर बाणैस ततॊ ऽकरॊशन्त तावकाः ॥ 31 ॥

  32. तेषां तु निनदं शरुत्वा परहृष्टानां परहृष्टवत परविवेश ततॊ मध्यं रथसिंहः परतापवान ॥ 32 ॥

  33. तेषां तु रथसिंहानां मध्यं पराप्य धनंजयः चिक्रीड धनुषा राजँल लक्ष्यं कृत्वा महारथान ॥ 33 ॥

  34. ततॊ दुर्यॊधनॊ राजा भीष्मम आह जनेश्वरः पीड्यमानं सवकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥ 34 ॥

  35. एष पाण्डुसुतस तात कृष्णेन सहितॊ बली यततां सर्वसैन्यानां मूलं नः परिकृन्तति तवयि जीवति गाङ्गेये दरॊणे च रथिनां वरे ॥ 35 ॥

  36. तवत्कृते हय एष कर्णॊ ऽपि नयस्तशस्त्रॊ महारथः न युध्यति रणे पार्थं हितकामः सदा मम ॥ 36 ॥

  37. स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः एवम उक्तस ततॊ राजन पिता देवव्रतस तव धिक कषत्रधर्मम इत्य उक्त्वा ययौ पार्थरथं परति ॥ 37 ॥

  38. उभौ शवेतहयौ राजन संसक्तौ दृश्यपार्थिवाः सिंहनादान भृशं चक्रुः शङ्खशब्दांश च भारत ॥ 38 ॥

  39. दरौणिर दुर्यॊधनश चैव विकर्णश च तवात्मजः परिवार्य रणे भीष्मं सथिता युद्धाय मारिष ॥ 39 ॥

  40. तथैव पाण्डवाः सर्वे परिवार्य धनंजयम सथिता युद्धाय महते ततॊ युद्धम अवर्तत ॥ 40 ॥

  41. गाङ्गेयस तु रणे पार्थम आनर्छन नवभिः शरैः तम अर्जुनः परत्यविध्यद दशभिर मर्म वेधिभिः ॥ 41 ॥

  42. ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः अर्जुनः समरश्लाघी भीष्मस्यावारयद दिशः ॥ 42 ॥

  43. शरजालं ततस तत तु शरजालेन कौरव वारयाम आस पार्थस्य भीष्मः शांतनवस तथा ॥ 43 ॥

  44. उभौ परमसंहृष्टाव उभौ युद्धाभिनन्दिनौ निर्विशेषम अयुध्येतां कृतप्रतिकृतैषिणौ ॥ 44 ॥

  45. भीष्म चापविमुक्तानि शरजालानि संधशः शीर्यमाणान्य अदृश्यन्त भिन्नान्य अर्जुन सायकैः ॥ 45 ॥

  46. तथैवार्जुन मुक्तानि शरजालानि भागशः गाङ्गेय शरनुन्नानि नयपतन्त महीतले ॥ 46 ॥

  47. अर्जुनः पञ्चविंशत्या भीष्मम आर्च्छच छितैः शरैः भीष्मॊ ऽपि समरे पार्थं विव्याध तरिंशता शरैः ॥ 47 ॥

  48. अन्यॊन्यस्य हयान विद्ध्वा धवजौ च सुमहाबलौ रथेषां रथचक्रे च चिक्रीडतुर अरिंदमौ ॥ 48 ॥

  49. ततः करुद्धॊ महाराज भीष्मः परहरतां वरः वासुदेवं तरिभिर बाणैर आजघान सतनान्तरे ॥ 49 ॥

  50. भीष्मचापच्युतैर बाणैर निर्विद्धॊ मधुसूदनः विरराज रणे राजन स पुष्प इव किंशुकः ॥ 50 ॥

  51. ततॊ ऽरजुनॊ भृशं करुद्धॊ निर्विद्धं परेक्ष्य माधवम गाङ्गेय सारथिं संख्ये निर्बिभेद तरिभिः शरैः ॥ 51 ॥

  52. यतमानौ तु तौ वीराव अन्यॊन्यस्य वधं परति नाशक्नुतां तदान्यॊन्यम अभिसंधातुम आहवे ॥ 52 ॥

  53. मण्डलानि विचित्राणि गतप्रत्यागतानि च अदर्शयेतां बहुधा सूत सामर्थ्य लाघवात ॥ 53 ॥

  54. अन्तरं च परहारेषु तर्कयन्तौ महारथौ राजन्न अन्तरमार्गस्थौ सथिताव आस्तां मुहुर मुहुः ॥ 54 ॥

  55. उभौ सिंहरवॊन्मिश्रं शङ्खशब्दं परचक्रतुः तथैव चापनिर्घॊषं चक्रतुस तौ महारथौ ॥ 55 ॥

  56. तयॊः शङ्खप्रणादेन रथनेमि सवनेन च दारिता सहसा भूमिश चकम्प च ननाद च ॥ 56 ॥

  57. न तयॊर अन्तरं कश चिद ददृशे भरतर्षभ बलिनौ समरे शूराव अन्यॊन्यसदृशाव उभौ ॥ 57 ॥

  58. चिह्नमात्रेण भीष्मं तु परजज्ञुस तत्र कौरवाः तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ॥ 58 ॥

  59. तयॊर नृवरयॊ राजन दृश्यतादृक पराक्रमम विस्मयं सर्वभूतानि जग्मुर भारत संयुगे ॥ 59 ॥

  60. न तयॊर विवरं कश चिद रणे पश्यति भारत धर्मे सथितस्य हि यथा न कश चिद वृजिनं कव चित ॥ 60 ॥

  61. उभौ हि शरजालेन ताव अदृश्यौ बभूवतुः परकाशौ च पुनस तूर्णं बभूवतुर उभौ रणे ॥ 61 ॥

  62. तत्र देवाः स गन्धर्वाश चारणाश च सहर्षिभिः अन्यॊन्यं परत्यभाषन्त तयॊर दृष्ट्वा पराक्रमम ॥ 62 ॥

  63. न शक्यौ युधि संरब्धौ जेतुम एतौ महारथौ स देवासुरगन्धर्वैर लॊकैर अपि कथं चन ॥ 63 ॥

  64. आश्चर्यभूतं लॊकेषु युद्धम एतन महाद्भुतम नैतादृशानि युद्धानि भविष्यन्ति कथं चन ॥ 64 ॥

  65. नापि शक्यॊ रणे जेतुं भीष्मः पार्थेन धीमता सधनुश च रथस्थश च परवपन सायकान रणे ॥ 65 ॥

  66. तथैव पाण्डवं युद्धे देवैर अपि दुरासदम न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम ॥ 66 ॥

  67. इति सम वाचः शरूयन्ते परॊच्चरन्त्यस ततस ततः गाङ्गेयार्जुनयॊः संख्ये सतवयुक्ता विशां पते ॥ 67 ॥

  68. तवदीयास तु ततॊ यॊधाः पाण्डवेयाश च भारत अन्यॊन्यं समरे जघ्नुस तयॊस तत्र पराक्रमे ॥ 68 ॥

  69. शितधारैस तथा खड्गैर विमलैश च परश्वधैः शरैर अन्यैश च बहुभिः शस्त्रैर नानाविधैर युधि उभयॊः सेनयॊर वीरा नयकृन्तन्त परस्परम ॥ 69 ॥

  70. वर्तमाने तथा घॊरे तस्मिन युद्धे सुदारुणे दरॊण पाञ्चाल्ययॊ राजन महान आसीत समागमः ॥ 70 ॥

Reach this point to mark the section finished.

Continue to अध्याय 49

Previous: अध्याय 47