[स] करौञ्चं ततॊ महाव्यूहम अभेद्यं तनयस तव वयूढं दृष्ट्वा महाघॊरं पार्थेनामित तेजसा ॥ 1 ॥
आचार्यम उपसंगम्य कृपं शल्यं च मारिष सौमदत्तिं विकर्णं च अश्वत्थामानम एव च ॥ 2 ॥
दुःशासनादीन भरातॄंश च स सर्वान एव भारत अन्यांश च सुबहूञ शूरान युद्धाय समुपागतान ॥ 3 ॥
पराहेदं वचनं काले हर्षयंस तनयस तव नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः ॥ 4 ॥
एकैकशः समर्थाहि यूयं सर्वे महारथाः पाण्डुपुत्रान रणे हन्तुं स सैन्यान किम उ संहताः ॥ 5 ॥
अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम पर्याप्तं तव इदम एतेषां बलं पार्थिव सत्तमाः ॥ 6 ॥
संस्थानाः शूरसेनाश च वेणिकाः कुकुरास तथा आरेवकास तरिगर्ताश च मद्रका यवनास तथा ॥ 7 ॥
शत्रुंजयेन सहितास तथा दुःशासनेन च विकर्णेन च वीरेण तथा नन्दॊपनन्दकैः ॥ 8 ॥
चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः भीष्मम एवाभिरक्षन्तु सह सैन्यपुरस्कृताः ॥ 9 ॥
ततॊ दरॊणश च भीष्मश च तव पुत्रश च मारिष अव्यूहन्त महाव्यूहं पाण्डूनां परतिबाधने ॥ 10 ॥
भीष्मः सैन्येन महता समन्तात परिवारितः ययौ परकर्षन महतीं वाहिनीं सुरराड इव ॥ 11 ॥
तम अन्वयान महेष्वासॊ भारद्वाजः परतापवान कुन्तलैश च दशार्णैश च मागधैश च विशां पते ॥ 12 ॥
विदर्भैर मेकलैश चैव कर्णप्रावरणैर अपि सहिताः सर्वसैन्येन भीष्मम आहवशॊभिनम ॥ 13 ॥
गान्धाराः सिन्धुसौवीराः शिबयॊ ऽथ वसातयः शकुनिश च सवसैन्येन भारद्वाजम अपालयत ॥ 14 ॥
ततॊ दुर्यॊधनॊ राजा सहितः सर्वसॊदरैः अश्वातकैर विकर्णैश च तथा शर्मिल कॊसलैः ॥ 15 ॥
दरदैश चूचुपैश चैव तथा कषुद्रकमालवैः अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम ॥ 16 ॥
भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष विन्दानुविन्दाव आवन्त्यौ वामं पार्श्वम अपालयन ॥ 17 ॥
सौमदत्तिः सुशर्मा च काम्बॊजश च सुदक्षिणः शतायुश च शरुतायुश च दक्षिणं पार्श्वम आस्थिताः ॥ 18 ॥
अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः महत्या सेनया सार्धं सेना पृष्ठे वयवस्थिताः ॥ 19 ॥
पृष्ठगॊपास तु तस्यासन नानादेश्या जनेश्वराः केतुमान वसु दानश च पुत्रः काश्यस्य चाभिभूः ॥ 20 ॥
ततस ते तावकाः सर्वे हृष्टा युद्धाय भारत दध्मुः शङ्खान मुदा युक्ताः सिंहनादांश च नादयन ॥ 21 ॥
तेषां शरुत्वा तु हृष्टानां कुरुवृद्धः पितामहः सिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान ॥ 22 ॥
ततः शङ्खाश च भेर्यश च पेश्यश च विविधाः परैः आनकाश चाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत ॥ 23 ॥
ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ परदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ॥ 24 ॥
पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः ॥ 25 ॥
अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः नकुलः सहदेवश च सुघॊषमणिपुष्पकौ ॥ 26 ॥
काशिराजश च शैब्यश च शिखण्डी च महारथः धृष्टद्युम्नॊ विराटश च सात्यकिश च महायशाः ॥ 27 ॥
पाञ्चाल्यश च महेष्वासॊ दरौपद्याः पञ्च चात्मजाः सर्वे दध्मुर महाशङ्खान सिंहनादांश च नेदिरे ॥ 28 ॥
स घॊषः सुमहांस तत्र वीरैस तैः समुदीरितः नभश च पृथिवीं चैव तुमुलॊ वयनुनादयत ॥ 29 ॥
एवम एते महाराज परहृष्टाः कुरुपाण्डवाः पुनर युद्धाय संजग्मुस तापयानाः परस्परम ॥ 30 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 47
Reach this point to mark the section finished.
Continue to अध्याय 48