[स] कृते ऽवहारे सैन्यानां परथमे भरतर्षभ भीष्मे च युधि संरब्धे हृष्टे दुर्यॊधने तथा ॥ 1 ॥
धर्मराजस ततस तूर्णम अभिगम्य जनार्दनम भरातृभिः सहितः सर्वैः सर्वैश चैव जनेश्वरैः ॥ 2 ॥
शुचा परमया युक्तश चिन्तयानः पराजयम वार्ष्णेयम अब्रवीद राजन दृष्ट्वा भीष्मस्य विक्रमम ॥ 3 ॥
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम शरैर दहन्तं सैन्यं मे गरीष्मे कक्षम इवानलम ॥ 4 ॥
कथम एनं महात्मानां शक्ष्यामः परतिवीक्षितुम लेलिह्यमानं सैन्यं मे हविष्मन्तम इवानलम ॥ 5 ॥
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम ॥ 6 ॥
शक्यॊ जेतुं यमः करुद्धॊ वज्रपाणिश च संयुगे वरुणः पाशभृच चापि कुबेरॊ वा गदाधरः ॥ 7 ॥
न तु भीष्मॊ महातेजाः शक्यॊ जेतुं महाबलः सॊ ऽहम एवंगते मग्नॊ भीष्मागाध जले ऽलपवः ॥ 8 ॥
आत्मनॊ बुद्धिदौर्बल्याद भीष्मम आसाद्य केशव वनं यास्यामि गॊविन्द शरेयॊ मे तत्र जीवितुम ॥ 9 ॥
न तव इमान पृथिवीपालान दातुं भीष्माय मृत्यवे कषपयिष्यति सेनां मे कृष्ण भीष्मॊ महास्त्रवित ॥ 10 ॥
यथानलं परज्वलितं पतंगाः समभिद्रुताः विनाशायैव गच्छन्ति तथा मे सैनिकॊ जनः ॥ 11 ॥
कषयं नीतॊ ऽसमि वार्ष्णेय राज्यहेतॊः पराक्रमी भरातरश चैव मे वीराः कर्शिताः शरपीडिताः ॥ 12 ॥
मृत कृते भरातृसौहार्दाद राज्याद भरष्टास तथा सुखात जीवितं बहु मन्ये ऽहं जीवितं हय अद्य दुर्लभम ॥ 13 ॥
जीवितस्य हि शेषेण तपस तप्स्यामि दुश्चरम न घातयिष्यामि रणे मित्राणीमानि केशव ॥ 14 ॥
रथान मे बहुसाहस्रान दिव्यैर अस्त्रैर महाबलः घातयत्य अनिशं भीष्मः परवराणां परहारिणाम ॥ 15 ॥
किं नु कृत्वा कृतं मे सयाद बरूहि माधव माचिरम मध्यस्थम इव पश्यामि समरे सव्यसाचिनम ॥ 16 ॥
एकॊ भीमः परं शक्त्या युध्यत्य एष महाभुजः केवलं बाहुवीर्येण कषत्रधर्मम अनुस्मरन ॥ 17 ॥
गदया वीर घातिन्या यथॊत्साहं महामनाः करॊत्य असुकरं कर्म गजाश्वरथपत्तिषु ॥ 18 ॥
नालम एष कषयं कर्तुं परसैन्यस्य मारिष आर्जवेनैव युद्धेन वीर वर्षशतैर अपि ॥ 19 ॥
एकॊ ऽसत्रवित सखा ते ऽयं सॊ ऽपय अस्मान समुपेक्षते निर्दह्यमानान भीष्मेण दरॊणेन च महात्मना ॥ 20 ॥
दिव्यान्य अस्त्राणि भीष्मस्य दरॊणस्य च महात्मनः धक्ष्यन्ति कषत्रियान सर्वान परयुक्तानि पुनः पुनः ॥ 21 ॥
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः कषपयिष्यति नॊ नूनं यादृशॊ ऽसय पराक्रमः ॥ 22 ॥
स तवं पश्य महेष्वासं यॊगीष्वर महारथम यॊ भीष्मं शमयेत संख्ये दावाग्निं जलदॊ यथा ॥ 23 ॥
तव परसादाद गॊविन्द पाण्डवा निहतद्विषः सवराज्यम अनुसंप्राप्ता मॊदिष्यन्ति स बान्धवाः ॥ 24 ॥
एवम उक्त्वा ततः पार्थॊ धयायन्न आस्ते महामनाः चिरम अन्तर मना भूत्वा शॊकॊपहतचेतनः ॥ 25 ॥
शॊकार्तं पाण्डवं जञात्वा दुःखेन हतचेतसम अब्रवीत तत्र गॊविन्दॊ हर्षयन सर्वपाण्डवान ॥ 26 ॥
मा शुचॊ भरतश्रेष्ठ न तवं शॊचितुम अर्हसि यस्य ते भरातरः शूराः सर्वलॊकस्य धन्विनः ॥ 27 ॥
अहं च परियकृद राजन सात्यकिश च महारथः विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश च पार्षतः ॥ 28 ॥
तथैव सबलाः सर्वे राजानॊ राजसत्तम तवत्प्रसादं परतीक्षन्ते तवद भक्ताश च विशां पते ॥ 29 ॥
एष ते पार्षतॊ नित्यं हितकामः परिये रतः सेनापत्यम अनुप्राप्तॊ धृष्टद्युम्नॊ महाबलः शिखण्डी च महाबाहॊ भीष्मस्य निधनं किल ॥ 30 ॥
एतच छरुत्वा ततॊ राजा धृष्टद्युम्नं महारथम अब्रवीत समितौ तस्यां वासुदेवस्य शृण्वतः ॥ 31 ॥
धृष्टद्युम्न निबॊधेदं यत तवा वक्ष्यामि मारिष नातिक्रम्यं भवेत तच च वचनं मम भाषितम ॥ 32 ॥
भवान सेनापतिर मह्यं वासुदेवेन संमतः कार्त्तिकेयॊ यथा नित्यं देवानाम अभवत पुरा तथा तवम अपि पाण्डूनां सेनानीः पुरुषर्षभ ॥ 33 ॥
स तवं पुरुषशार्दूल विक्रम्य जहि कौरवान अहं च तवानुयास्यामि भीमः कृष्णश च मारिष ॥ 34 ॥
माद्रीपुत्रौ च सहितौ दरौपदेयाश च दंशिताः ये चान्ये पृथिवीपालाः परधानाः पुरुषर्षभ ॥ 35 ॥
तत उद्धर्षयन सर्वान धृष्टद्युम्नॊ ऽभयभाषत अहं दरॊणान्तकः पार्थ विहितः शम्भुना पुरा ॥ 36 ॥
रणे भीष्मं तथा दरॊणं कृपं शल्यं जयद्रथम सर्वान अद्य रणे दृप्तान परतियॊत्स्यामि पार्थिव ॥ 37 ॥
अथॊत्क्रुष्टं महेष्वासैः पाण्डवैर युद्धदुर्मदैः समुद्यते पार्थिवेन्द्र पार्षते शत्रुसूदने ॥ 38 ॥
तम अब्रवीत ततः पार्थः पार्षतं पृतना पतिम वयूहः करौञ्चारुणॊ नाम सर्वशत्रुनिबर्हणः ॥ 39 ॥
यं बृहस्पतिर इन्द्राय तदा देवासुरे ऽबरवीत तं यथावत परतिव्यूह परानीक विनाशनम अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥ 40 ॥
तथॊक्तः स नृदेवेन विष्णुर वज्रभृता इव परभाते सर्वसैन्यानाम अग्रे चक्रे धनंजयम ॥ 41 ॥
आदित्यपथगः केतुस तस्याद्भुत मनॊरमः शासनात पुरुहूतस्य निर्मितॊ विश्वकर्मणा ॥ 42 ॥
इन्द्रायुधसवर्णाभिः पताकाभिर अलंकृतः आकाशग इवाकाशे गन्धर्वनगरॊपमः नृत्यमान इवाभाति रथचर्यासु मारिष ॥ 43 ॥
तेन रत्नवता पार्थः स च गाण्डीवधन्वना बभूव परमॊपेतः सवयम्भूर इव भानुना ॥ 44 ॥
शिरॊ ऽभूद दरुपदॊ राजा महत्या सेनया वृतः कुन्तिभॊजश च चैद्यश च चक्षुष्य आस्तां जनेश्वर ॥ 45 ॥
दाशार्णकाः परयागाश च दाश्रेरक गणैः सह अनूपगाः किराताश च गरीवायां भरतर्षभ ॥ 46 ॥
पटच चरैश च हुण्डैश च राजन पौरवकैस तथा निषादैः सहितश चापि पृष्ठम आसीद युधिष्ठिरः ॥ 47 ॥
पक्षौ तु भीमसेनश च धृष्टद्युम्नश च पार्षतः दरौपदेयाभिमन्युश च सात्यकिश च महारथः ॥ 48 ॥
पिशाचा दरदाश चैव पुण्ड्राः कुण्डी विषैः सह मडका कडकाश चैव तङ्गणाः परपङ्गणाः ॥ 49 ॥
बाह्लिकास तित्तिराश चैव चॊलाः पाण्ड्याश च भारत एते जनपदा राजन दक्षिणं पक्षम आश्रिताः ॥ 50 ॥
अग्निवेष्या जगत तुण्डा पलदाशाश च भारत शबरास तुम्बुपाश चैव वत्साश च सह नाकुलैः नकुलः सहदेवश च वामं पार्श्वं समाश्रिताः ॥ 51 ॥
रथानाम अयुतं पक्षौ शिरश च नियुतं तथा पृष्ठम अर्बुदम एवासीत सहस्राणि च विंशतिः गरीवायां नियुतं चापि सहस्राणि च सप्ततिः ॥ 52 ॥
पक्षकॊटिप्रपक्षेषु पक्षान्तेषु च वारणाः जग्मुः परिवृता राजंश चलन्त इव पर्वताः ॥ 53 ॥
जघनं पालयाम आस विराटः सह केकयैः काशिराजश च शैब्यश च रथानाम अयुतैस तरिभिः ॥ 54 ॥
एवम एतं महाव्यूहं वयूह्य भारत पाण्डवाः सूर्यॊदयनम इच्छन्तः सथिता युद्धाय दंशिताः ॥ 55 ॥
तेषाम आदित्यवर्णानि विमलानि महान्ति च शवेतच छत्राण्य अशॊभन्त वारणेषु रथेषु च ॥ 56 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 46
Reach this point to mark the section finished.
Continue to अध्याय 47