धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 45

  1. [स] गतपूर्वाह्णभूयिष्ठे तस्मिन्न अहनि दारुणे वर्तमाने महारौद्रे महावीर वरक्षये ॥ 1 ॥

  2. दुर्मुखः कृतवर्मा च कृपः शल्यॊ विविंशतिः भीष्मं जुगुपुर आसाद्य तव पुत्रेण चॊदिताः ॥ 2 ॥

  3. एतैर अतिरथैर गुप्तः पञ्चभिर भरतर्षभ पाण्डवानाम अनीकानि विजगाहे महारथः ॥ 3 ॥

  4. चेदिकाशिकरूषेषु पाञ्चालेषु च भारत भीष्मस्य बहुधा तालश चरन केतुर अदृश्यत ॥ 4 ॥

  5. शिरांसि च तदा भीष्मॊ बाहूंश चापि सहायुधान निचकर्त महावेगैर भल्लैः संनतपर्वभिः ॥ 5 ॥

  6. नृत्यतॊ रथमार्गेषु भीष्मस्य भरतर्षभ के चिद आर्तस्वरं चक्रुर नागा मर्मणि ताडिताः ॥ 6 ॥

  7. अभिमन्युः सुसंक्रुद्धः पिशङ्गैस तुरगॊत्तमैः संयुक्तं रथम आस्थाय परायाद भीष्मरथं परति ॥ 7 ॥

  8. जाम्बूनदविचित्रेण कर्णिकारेण केतुना अभ्यवर्षत भीष्मं च तांश चैव रथसत्तमान ॥ 8 ॥

  9. स तालकेतॊस तीक्ष्णेन केतुम आहत्य पत्रिणा भीष्मेण युयुधे वीरस तस्य चानुचरैः सह ॥ 9 ॥

  10. कृतवर्माणम एकेन शल्यं पञ्चभिर आयसैः विद्ध्वा नवभिर आनर्छच छिताग्रैः परपितामहम ॥ 10 ॥

  11. पूर्णायतविसृष्टेन सम्यक परणिहितेन च धवजम एकेन विव्याध जाम्बूनदविभूषितम ॥ 11 ॥

  12. दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना जहार सारथेः कायाच छिरः संनतपर्वणा ॥ 12 ॥

  13. धनुश चिच्छेद भल्लेन कार्तस्वरविभूषितम कृपस्य निशिताग्रेण तांश च तीक्ष्णमुखैः शरैः ॥ 13 ॥

  14. जघान परमक्रुद्धॊ नृत्यन्न इव महारथः तस्य लाघवम उद्वीक्ष्य तुतुषुर देवता अपि ॥ 14 ॥

  15. लब्धलक्ष्यतया कर्ष्णेः सर्वे भीष्म मुखा रथाः सत्त्ववन्तम अमन्यन्त साक्षाद इव धनंजयम ॥ 15 ॥

  16. तस्य लाघवमार्गस्थम अलातसदृशप्रभम दिशः पर्यपतच चापं गाण्डीवम इव घॊषवत ॥ 16 ॥

  17. तम आसाद्य महावेगैर भीष्मॊ नवभिर आशुगैः विव्याध समरे तूर्णम आर्जुनिं परवीरहा ॥ 17 ॥

  18. धवजं चास्य तरिभिर भल्लैश चिच्छेद परमौजसः सारथिं च तरिभिर बाणैर अजघान यतव्रतः ॥ 18 ॥

  19. तथैव कृतवर्मा च कृपः शल्यश च मारिष विद्ध्वा नाकम्पयत कार्ष्णिं मैनाकम इव पर्वतम ॥ 19 ॥

  20. स तैः परिवृतः शूरॊ धार्तराष्ट्रैर महारथैः ववर्ष शरवर्षाणि कार्ष्णिः पञ्च रथान परति ॥ 20 ॥

  21. ततस तेषां महास्त्राणि संवार्य शरवृष्टिभिः ननाद बलवा कार्ष्णिर भीष्माय विसृजञ शरान ॥ 21 ॥

  22. तत्रास्य सुमहद राजन बाह्वॊर बलम अदृश्यत यतमानस्य समरे भीष्मम अर्दयतः शरैः ॥ 22 ॥

  23. पराक्रान्तस्य तस्यैव भीष्मॊ ऽपि पराहिणॊच छरान स तांश चिच्छेद समरे भीष्मचापच्युताञ शरान ॥ 23 ॥

  24. ततॊ धवजम अमॊघेषुर भीष्मस्य नवभिः शरैः चिच्छेद समरे वीरस तत उच्चुक्रुशुर जनाः ॥ 24 ॥

  25. स राजतॊ महास्कन्धस तालॊ हेमविभूषितः सौभद्र विशिखैश छिन्नः पपात भुवि भारत ॥ 25 ॥

  26. धवजं सौभद्र विशिखैः पतितं भरतर्षभ दृष्ट्वा भीमॊ ऽनदद धृष्टः सौभद्रम अभिहर्षयन ॥ 26 ॥

  27. अथ भीष्मॊ महास्त्राणि दिव्यानि च बहूनि च परादुश्चक्रे महारौद्रः कषणे तस्मिन महाबलः ॥ 27 ॥

  28. ततः शतसहस्रेण सौभद्रं परपितामहः अवाकिरद अमेयात्मा शराणां नतपर्वणाम ॥ 28 ॥

  29. ततॊ दश महेष्वासाः पाण्डवानां महारथाः रक्षार्थम अभ्यधावन्त सौभद्रं तवरिता रथैः ॥ 29 ॥

  30. विराटः सह पुत्रेण धृष्टद्युम्नश च पार्षतः भीमश च केकयाश चैव सात्यकिश च विशां पते ॥ 30 ॥

  31. जवेनापततां तेषां भीष्मः शांतनवॊ रणे पाञ्चाल्यं तरिभिर आनर्छत सात्यकिं निशितैः शरैः ॥ 31 ॥

  32. पूर्णायतविसृष्टेन कषुरेण निशितेन च धवजम एकन चिच्छेद भीमसेनस्य पत्रिणा ॥ 32 ॥

  33. जाम्बूनदमयः केतुः केसरी नरसत्तम पपात भीमसेनस्य भीष्मेण मथितॊ रथात ॥ 33 ॥

  34. भीमसेनस तरिभिर विद्ध्वा भीष्मं शांतनवं रणे कृपम एकेन विव्याध कृतवर्माणम अष्टभिः ॥ 34 ॥

  35. परगृहीताग्र हस्तेन वैराटिर अपि दन्तिना अभ्यद्रवत राजानं मद्राधिपतिम उत्तरः ॥ 35 ॥

  36. तस्य वारणराजस्य जवेनापततॊ रथी शल्यॊ निवारयाम आस वेगम अप्रतिमं रणे ॥ 36 ॥

  37. तस्य करुद्धः स नागेन्द्रॊ बृहतः साधु वाहिनः पदा युगम अधिष्ठाय जघान चतुरॊ हयान ॥ 37 ॥

  38. स हताश्वे रथे तिष्ठन मद्राधिपतिर आयसीम उत्तरान्त करीं शक्तिं चिक्षेप भुजगॊपमाम ॥ 38 ॥

  39. तया भिन्नतनु तराणः परविश्य विपुलं तमः स पपात गजस्कन्धात परमुक्ताङ्कुश तॊमरः ॥ 39 ॥

  40. समादाय च शल्यॊ ऽसिम अवप्लुत्य रथॊत्तमात वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम ॥ 40 ॥

  41. भिन्नमर्मा शरव्रातैश छिन्नहस्तः स वारणः भीमम आर्तस्वरं कृत्वा पपात च ममार च ॥ 41 ॥

  42. एतद ईदृशकं कृत्वा मद्रराजॊ महारथः आरुरॊह रथं तूर्णं भास्वरं कृतवर्मणः ॥ 42 ॥

  43. उत्तरं निहतं दृष्ट्वा वैराटिर भरातरं शुभम कृतवर्मणा च सहितं दृष्ट्वा शल्यम अवस्थितम शङ्खः करॊधात परजज्वाल हविषा हव्यवाड इव ॥ 43 ॥

  44. स विस्फार्य महच चापं कार्तस्वरविभूषितम अभ्यधावज जिघांसन वै शल्यं मद्राधिपं बली ॥ 44 ॥

  45. महता रथवंशेन समन्तात परिवारितः सृजन बाणमयं वर्षं परायाच छल्य रथं परति ॥ 45 ॥

  46. तम आपतन्तं संप्रेक्ष्य मत्तवारणविक्रमम तावकानां रथा सप्त समन्तात पर्यवारयन मद्रराजं परीप्सन्तॊ मृत्यॊर दंष्ट्रान्तरं गतम ॥ 46 ॥

  47. ततॊ भीष्मॊ महाबाहुर विनद्य जलदॊ यथा तालमात्रं धनुर गृह्य शङ्खम अभ्यद्रवद रणे ॥ 47 ॥

  48. तम उद्यतम उदीक्ष्याथ महेष्वासं महाबलम संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥ 48 ॥

  49. तत्रार्जुनः संत्वरितः शङ्खस्यासीत पुरःसरः भीष्माद रक्ष्यॊ ऽयम अद्येति ततॊ युद्धम अवर्तत ॥ 49 ॥

  50. हाहाकारॊ महान आसीद यॊधानां युधि युध्यताम तेजस तेजसि संपृक्तम इत्य एवं विस्मयं ययुः ॥ 50 ॥

  51. अथ शल्यॊ गदापाणिर अवतीर्य महारथात शङ्खस्य चतुरॊ वाहान अहनद भरतर्षभ ॥ 51 ॥

  52. स हताश्वाद रथात तूर्णं खड्गम आदाय विद्रुतः बीभत्सॊः सयन्दनं पराप्य ततः शान्तिम अविन्दत ॥ 52 ॥

  53. ततॊ भीष्मरथात तूर्णम उत्पतन्ति पतत्रिणः यैर अन्तरिक्षं भूमिश च सर्वतः समवस्तृतम ॥ 53 ॥

  54. पाञ्चालान अथ मत्स्यांश च केकयांश च परभद्रकान भीष्मः परहरतां शरेष्ठः पातयाम आस मार्गणैः ॥ 54 ॥

  55. उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम अभ्यद्रवत पाञ्चाल्यं दरुपदं सेनया वृतम परियं संबन्धिनं राजञ शरान अवकिरन बहून ॥ 55 ॥

  56. अग्निनेव परदग्धानि वनानि शिशिरात्यये शरदग्धान्य अदृश्यन्त सैन्यानि दरुपदस्य ह अतिष्ठत रणे भीष्मॊ विधूम इव पावकः ॥ 56 ॥

  57. मध्यंदिने यथादित्यं तपन्तम इव तेजसा न शेकुः पाण्डवेयस्य यॊधा भीष्मं निरीक्षितुम ॥ 57 ॥

  58. वीक्षां चक्रुः समन्तात ते पाण्डवा भयपीडिताः तरातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥ 58 ॥

  59. हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते हाहाकारॊ महान आसीत पाण्डुसैन्येषु भारत ॥ 59 ॥

  60. ततॊ भीष्मः शांतनवॊ नित्यं मण्डलकार्मुकः मुमॊच बाणान दीप्ताग्रान अहीन आशीविषान इव ॥ 60 ॥

  61. शरैर एकायनीकुर्वन दिशः सर्वा यतव्रतः जघान पाण्डवरथान आदिश्यादिश्य भारत ॥ 61 ॥

  62. ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः पराप्ते चास्तं दिनकरे न पराज्ञायत किं चन ॥ 62 ॥

  63. भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे अवहारम अकुर्वन्त सैन्यानां भरतर्षभ ॥ 63 ॥

Reach this point to mark the section finished.

Continue to अध्याय 46

Previous: अध्याय 44