[स] राजञ शतसहस्राणि तत्र तत्र तदा तदा निर्मर्यादं परयुद्धानि तत ते वक्ष्यामि भारत ॥ 1 ॥
न पुत्रः पितरं जज्ञे न पिता पुत्रम औरसम न भराता भरातरं तत्र सवस्रीयं न च मातुलः ॥ 2 ॥
मातुलं न च सवस्रीयॊ न सखायं सखा तथा आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ॥ 3 ॥
रथानीकं नरव्याघ्राः के चिद अभ्यपतन रथैः अभज्यन्त युगैर एव युगानि भरतर्षभ ॥ 4 ॥
रथेषाश च रथेषाभिः कूबरा रथकूबरैः संहता संहतैः के चित परस्परजिघांसवः ॥ 5 ॥
न शेकुश चलितुं के चित संनिपत्य रथा रथैः परभिन्नास तु महाकायाः संनिपत्य गजा गजैः ॥ 6 ॥
बहुधादारयन करुद्धा विषाणैर इतरेतरम स तॊमरपताकैश च वारणाः परवारणैः ॥ 7 ॥
अभिसृत्य महाराज वेगवद्भिर महागजैः दन्तैर अभिहतास तत्र चुक्रुशुः परमातुराः ॥ 8 ॥
अभिनीताश च शिक्षाभिस तॊत्त्राङ्कुश समाहताः सुप्रभिन्नाः परभिन्नानां संमुखाभिमुखा ययुः ॥ 9 ॥
परभिन्नैर अपि संसक्ताः के चित तत्र महागजाः करौञ्चवन निनदं मुक्त्वा पराद्रवन्त ततस ततः ॥ 10 ॥
सम्यक परणीता नागाश च परभिन्नकरटा मुखाः ऋष्टितॊमरनाराचैर निर्विद्धा वरवारणाः ॥ 11 ॥
विनेदुर भिन्नमर्माणॊ निपेतुश च गतासवः पराद्रवन्त दिशः के चिन नदन्तॊ भैरवान रवान ॥ 12 ॥
गजानां पादरक्षास तु वयूढॊरस्काः परहारिणः ऋष्टिभिश च धनुर्भिश च विमलैश च परश्वधैः ॥ 13 ॥
गदाभिर मुसलैश चैव भिण्डिपालैः स तॊमरैः आयसैः परिघैश चैव निस्त्रिंशैर विमलैः शितैः ॥ 14 ॥
परगृहीतैः सुसंरब्धा धावमानास ततस ततः वयदृश्यन्त महाराज परस्परजिघांसवः ॥ 15 ॥
राजमानाश च निस्त्रिंशाः संसिक्ता नरशॊणितैः परत्यदृश्यन्त शूराणाम अन्यॊन्यम अभिधावताम ॥ 16 ॥
अवक्षिप्तावधूतानाम असीनां वीरबाहुभिः संजज्ञे तुमुलः शब्दः पततां परमर्मसु ॥ 17 ॥
गदामुसलरुग्णानां भिन्नानां च वरासिभिः दन्ति दन्ताव अभिन्नानां मृदितानां च दन्तिभिः ॥ 18 ॥
तत्र तत्र नरौघाणां करॊशताम इतरेतरम शुश्रुवुर दारुणा वाचः परेतानाम इव भारत ॥ 19 ॥
हयैर अपि हयारॊहाश चामरापीड धारिभिः हंसैर इव महावेगैर अन्यॊन्यम अभिदुद्रुवुः ॥ 20 ॥
तैर विमुक्ता महाप्रासा जाम्बूनदविभूषणाः आशुगा विमलास तीक्ष्णाः संपेतुर भुजगॊपमाः ॥ 21 ॥
अश्वैर अग्र्यजवैः के चिद आप्लुत्य महतॊ रथान शिरांस्य आददिरे वीरा रथिनाम अश्वसादिनः ॥ 22 ॥
बहून अपि हयारॊहान भल्लैः संनतपर्वभिः रथी जघान संप्राप्य बाणगॊचरम आगतान ॥ 23 ॥
नगमेघप्रतीकाशाश चाक्षिप्य तुरगान गजाः पादैर एवावमृद्नन्त मत्ताः कनकभूषणाः ॥ 24 ॥
पाट्यमानेषु कुम्भेषु पार्श्वेष्व अपि च वारणाः परासैर विनिहताः के चिद विनेदुः परमातुराः ॥ 25 ॥
साश्वारॊहान हयान के चिद उन्मथ्य वरवारणाः सहसा चिक्षिपुस तत्र संकुले भैरवे सति ॥ 26 ॥
साश्वारॊहान विषाणाग्रैर उत्क्षिप्य तुरगान दविपाः रथौघान अवमृद्नन्तः स धवजान परिचक्रमुः ॥ 27 ॥
पुंस्त्वाद अभिमदत्वाच च के चिद अत्र महागजाः साश्वारॊहान हयञ जघ्नुः करैः स चरणैस तथा ॥ 28 ॥
के चिद आक्षिप्य करिणः साश्वान अपि रथान करैः विकर्षन्तॊ दिशः सर्वाः समीयुः सर्वशब्दगाः ॥ 29 ॥
आशुगा विमलास तीक्ष्णाः संपेतुर भुजगॊपमाः नराश्वकायान निर्भिद्य लौहानि कवचानि च ॥ 30 ॥
निपेतुर विमलाः शक्त्यॊ वीरबाहुभिर अर्पिताः महॊल्का परतिमा घॊरास तत्र तत्र विशां पते ॥ 31 ॥
दवीपिचर्मावनद्धैश च वयाघ्रचर्म शयैर अपि विकॊशैर विमलैः खड्गैर अभिजघ्नुः परान रणे ॥ 32 ॥
अभिप्लुतम अभिक्रुद्धम एकपार्श्वावदारितम विदर्शयन्तः संपेतुः खड्गचर्म परश्वधैः ॥ 33 ॥
शक्तिभिर दारिताः के चित संछिन्नाश च परश्वधैः हस्तिभिर मृदिताः के चित कषुण्णाश चान्ये तुरंगमैः ॥ 34 ॥
रथनेमि निकृत्ताश च निकृत्ता निशितैः शरैः विक्रॊशन्ति नरा राजंस तत्र तत्र सम बान्धवान ॥ 35 ॥
पुत्रान अन्ये पितॄन अन्ये भरातॄंश च सह बान्धवैः मातुलान भागिनेयांश च परान अपि च संयुगे ॥ 36 ॥
विकीर्णान्त्राः सुबहवॊ भग्नसक्थाश च भारत बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः करन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ॥ 37 ॥
तृष्णा परिगताः के चिद अल्पसत्त्वा विशां पते भूमौ निपतिताः संख्ये जलम एव ययाचिरे ॥ 38 ॥
रुधिरौघपरिक्लिन्ना कलिश्यमानाश च भारत वयनिन्दन भृशम आत्मानं तव पुत्रांश च संगतान ॥ 39 ॥
अपरे कषत्रियाः शूराः कृतवैराः परस्परम नैवं शस्त्रं विमुञ्चन्ति नैव करन्दन्ति मारिष तर्जयन्ति च संहृष्टास तत्र तत्र परस्परम ॥ 40 ॥
निर्दश्य दशनैश चापि करॊधात सवदशनच छदान भरुकुटी कुटिलैर वक्त्रैः परेक्षन्ते च परस्परम ॥ 41 ॥
अपरे कलिश्यमानास तु वरणार्ताः शरपीडिताः निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः ॥ 42 ॥
अन्ये तु विरथाः शूरा रथम अन्यस्य संयुगे परार्थयाना निपतिताः संक्षुण्णा वरवारणैः अशॊभन्त महाराज पुष्पिता इव किंशुकाः ॥ 43 ॥
संबभूवुर अनीकेषु बहवॊ भैरवस्वनाः वर्तमाने महाभीमे तस्मिन वीरवरक्षये ॥ 44 ॥
अहनत तु पिता पुत्रं पुत्रश च पितरं रणे सवस्रीयॊ मातुलं चापि सवस्रीयं चापि मातुलः ॥ 45 ॥
सखायं च सखा राजन संबन्धी बान्धवं तथा एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ॥ 46 ॥
वर्तमाने भये तस्मिन निर्मर्यादे महाहवे भीष्मम आसाद्य पार्थानां वाहिनी समकम्पत ॥ 47 ॥
केतुना पञ्च तारेण तालेन भरतर्षभ राजतेन महाबाहुर उच्छ्रितेन महारथे बभौ भीष्मस तदा राजंश चन्द्रमा इव मेरुणा ॥ 48 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 44
Reach this point to mark the section finished.
Continue to अध्याय 45