[स] पूर्वाह्णे तस्य रौद्रस्य युद्धम अह्नॊ विशां पते परावर्तत महाघॊरं राज्ञां देहावकर्तनम ॥ 1 ॥
कुरूणां पाण्डवानां च संग्रामे विजिगीषताम सिंहानाम इव संह्रादॊ दिवम उर्वीं च नादयन ॥ 2 ॥
आसीत किल किला शब्दस तलशङ्खरवैः सह जज्ञिरे सिंहनादाश च शूराणां परतिगर्जताम ॥ 3 ॥
तलत्राभिहताश चैव जयाशब्दा भरतर्षभ पत्तीनां पादशब्दाश च वाजिनां च महास्वनाः ॥ 4 ॥
तॊत्त्राङ्कुश निपाताश च आयुधानां च निस्वनाः घण्टा शब्दाश च नागानाम अन्यॊन्यम अभिधावताम ॥ 5 ॥
तस्मिन समुदिते शब्दे तुमुले लॊमहर्षणे बभूव रथनिर्घॊषः पर्जन्यनिनदॊपमः ॥ 6 ॥
ते मनः करूरम आधाय समभित्यक्तजीविताः पाण्डवान अभ्यवर्तन्त सर्व एवॊच्छ्रितध्वजाः ॥ 7 ॥
सवयं शांतनवॊ राजन्न अभ्यधावद धनंजयम परगृह्य कार्मुकं घॊरं कालदण्डॊपमं रणे ॥ 8 ॥
अर्जुनॊ ऽपि धनुर गृह्य गाण्डीवं लॊकविश्रुतम अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥ 9 ॥
ताव उभौ कुरुशार्दूलौ परस्परवधैषिणौ गाङ्गेयस तु रणे पार्थं विद्ध्वा नाकम्पयद बली तथैव पाण्डवॊ राजन भीष्मं नाकम्पयद युधि ॥ 10 ॥
सात्यकिश च महेष्वासः कृतवर्माणम अभ्ययात तयॊः समभवद युद्धं तुमुलं लॊमहर्षणम ॥ 11 ॥
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम आनर्हतुः शरैर घॊरैस तक्षमाणौ परस्परम ॥ 12 ॥
तौ शराचित सर्वाङ्गौ शुशुभाते महाबलौ वसन्ते पुष्पशबलौ पुष्पिताव इव कुंशुकौ ॥ 13 ॥
अभिमन्युर महेष्वासॊ बृहद्बलम अयॊधयत ततः कॊसलकॊ राजा सौभद्रस्य विशां पते धवजं चिच्छेद समरे सारथिं च नयपातयत ॥ 14 ॥
सौभद्रस तु ततः करुद्धं पातिते रथसारथौ बृहद्बलं महाराज विव्याध नवभिः शरैः ॥ 15 ॥
अथापराभ्यां भल्लाभ्यां पीताभ्याम अरिमर्दनः धवजम एकेन चिच्छेद पार्ष्णिम एकेन सारथिम अन्यॊन्यं च शरैस तीक्ष्णैः करुद्धौ राजंस ततक्षतुः ॥ 16 ॥
मानिनं समरे दृप्तं कृतवैरं महारथम भीमसेनस तव सुतं दुर्यॊधनम अयॊधयत ॥ 17 ॥
ताव उभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ अन्यॊन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ॥ 18 ॥
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयॊधिनौ विस्मयः सर्वभूतानां समपद्यत भारत ॥ 19 ॥
दुःशासनस तु नकुलं परत्युद्याय महारथम अविध्यन निशितैर बाणैर बहुभिर मर्मभेदिभिः ॥ 20 ॥
तस्य माद्री सुतः केतुं स शरं च शरासनम चिच्छेद निशितैर बाणैः परहसन्न इव भारत अथैनं पञ्चविंशत्या कषुद्रकाणां समार्दयत ॥ 21 ॥
पुत्रस तु तव दुर्धर्षॊ नकुलस्य महाहवे युगेषां चिच्छिदे बाणैर धवजं चैव नयपातयत ॥ 22 ॥
दुर्मुखः सहदेवं तु परत्युद्याय महाबलम विव्याध शरवर्षेण यतमानं महाहवे ॥ 23 ॥
सहदेवस ततॊ वीरॊ दुर्मुखस्य महाहवे शरेण भृशतीक्ष्णेन पातयाम आस सारथिम ॥ 24 ॥
ताव अन्यॊन्यं समासाद्य समरे युद्धदुर्मदौ तरासयेतां शरैर घॊरैः कृतप्रतिकृतैषिणौ ॥ 25 ॥
युधिष्ठिरः सवयं राजा मद्रराजानम अभ्ययात तस्य मद्राधिपश चापं दविधा चिच्छेद मारिष ॥ 26 ॥
तद अपास्य धनुश छिन्नं कुन्तीपुत्रॊ युधिष्ठिरः अन्यकार्मुकम आदाय वेगवद बलवत्तरम ॥ 27 ॥
ततॊ मद्रेश्वरं राजा शरैः संनतपर्वभिः छादयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत ॥ 28 ॥
धृष्टद्युम्नस ततॊ दरॊणम अभ्यद्रवत भारत तस्य दरॊणः सुसंक्रुद्धः परासु करणं दृढम तरिधा चिच्छेद समरे यतमानस्य कार्मुकम ॥ 29 ॥
शरं चैव महाघॊरं कालदण्डम इवापरम परेषयाम आस समरे सॊ ऽसय काये नयमज्जत ॥ 30 ॥
अथान्यद धनुर आदाय सायकांश च चतुर्दश दरॊणं दरुपदपुत्रस तु परतिविव्याध संयुगे ताव अन्यॊन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम ॥ 31 ॥
सौमदत्तिं रणे शङ्खॊ रभसं रभसॊ युधि परत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत ॥ 32 ॥
तस्य वै दक्षिणं वीरॊ निर्बिभेद रणे भुजम सौमदत्तिस तथा शङ्खं जत्रु देशे समाहनत ॥ 33 ॥
तयॊः समभवद युद्धं घॊररूपं विशां पते दृप्तयॊः समरे तूर्णं वृत्रवासवयॊर इव ॥ 34 ॥
बाह्लीकं तु रणे करुद्धं करुद्ध रूपॊ विशां पते अभ्यद्रवद अमेयात्मा धृष्टकेतुर महारथः ॥ 35 ॥
बाह्लीकस तु ततॊ राजन धृष्टकेतुम अमर्षणम शरैर बहुभिर आनर्च्छत सिंहनादम अथानदत ॥ 36 ॥
चेदिराजस तु संक्रुद्धॊ बाह्लीकं नवभिः शरैः विव्याध समरे तूर्णं मत्तॊ मत्तम इव दविपम ॥ 37 ॥
तौ तत्र समरे करुद्धौ नर्दन्तौ च मुहुर मुहुः समीयतुः सुसंक्रुद्धाव अङ्गारक बुधाव इव ॥ 38 ॥
राक्षसं करूरकर्माणं करूरकर्मा घटॊत्कचः अलम्बुसं परत्युदियाद बलं शक्र इवाहवे ॥ 39 ॥
घटॊत्कचस तु संक्रुद्धॊ राक्षसं तं महाबलम नवत्या सायकैस तीक्ष्णैर दारयाम आस भारत ॥ 40 ॥
अलम्बुसस तु समरे भैमसेनिं महाबलम बहुधा वारयाम आस शरैः संनतपर्वभिः ॥ 41 ॥
वयभ्राजेतां ततस तौ तु संयुगे शरविक्षतौ यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ 42 ॥
शिखण्डी समरे राजन दरौणिम अभ्युद्यतौ बली अश्वत्थामा ततः करुद्धः शिखण्डिनम अवस्थितम ॥ 43 ॥
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा वयकम्पयत शिखण्ड्य अपि ततॊ राजन दरॊणपुत्रम अताडयत ॥ 44 ॥
सायकेन सुपीतेन तीक्ष्णेन निशितेन च तौ जघ्नतुस तदान्यॊन्यं शरैर बहुविधैर मृधे ॥ 45 ॥
भगदत्तं रणे शूरं विराटॊ वाहिनीपतिः अभ्ययात तवरितॊ राजंस ततॊ युद्धम अवर्तत ॥ 46 ॥
विराटॊ भगदत्तेन शरवर्षेण ताडितः अभ्यवर्षत सुसंक्रुद्धॊ मेघॊ वृष्ट्या इवाचलम ॥ 47 ॥
भगदत्तस ततस तूर्णं विराटं पृथिवीपतिम छादयाम आस समरे मेघः सूर्यम इवॊदितम ॥ 48 ॥
बृहत कषत्रं तु कैकेयं कृपः शारद्वतॊ ययौ तं कृपः शरवर्षेण छादयाम आस भारत ॥ 49 ॥
गौतमं केकयः करुद्धः शरवृष्ट्याभ्यपूरयत ताव अन्यॊन्यं हयान हत्वा धनुषी विनिकृत्य वै ॥ 50 ॥
विरथाव असियुद्धाय समीयतुर अमर्षणौ तयॊस तद अभवद युद्धं घॊररूपं सुदारुणम ॥ 51 ॥
दरुपदस तु ततॊ राजा सैन्धवं वै जयद्रथम अभ्युद्ययौ संप्रहृष्टॊ हृष्टरूपं परंतप ॥ 52 ॥
ततः सैन्धवकॊ राजा दरुपदं विशिखैस तरिभिः ताडयाम आस समरे स च तं परत्यविध्यत ॥ 53 ॥
तयॊः समभवद युद्धं घॊररूपं सुदारुणम ईक्षितृप्रीतिजननं शुक्राङ्गारकयॊर इव ॥ 54 ॥
विकर्णस तु सुतस तुभ्यं सुत सॊमं महाबलम अभ्ययाज जवनैर अश्वैस ततॊ युद्धम अवर्तत ॥ 55 ॥
विकर्णः सुत सॊमं तु विद्ध्वा नाकम्पयच छरैः सुत सॊमॊ विकर्णं च तद अद्भुतम इवाभवत ॥ 56 ॥
सुशर्माणं नरव्याघ्रं चेकितानॊ महारथः अभ्यद्रवत सुसंक्रुद्धः पाण्डवार्थे पराक्रमी ॥ 57 ॥
सुशर्मा तु महाराज चेकितानं महारथम महता शरवर्षेण वारयाम आस संयुगे ॥ 58 ॥
चेकितानॊ ऽपि संरब्धः सुशर्माणं महाहवे पराच्छादयत तम इषुभिर महामेघ इवाचलम ॥ 59 ॥
शकुनिः परतिविन्ध्यं तु पराक्रान्तं पराक्रमी अभ्यद्रवत राजेन्द्र मत्तॊ मत्तम इव दविपम ॥ 60 ॥
यौधिष्ठिरस तु संक्रुद्धः सौबलं निशितैः शरैः वयदारयत संग्रामे मघवान इव दानवम ॥ 61 ॥
शकुनिः परतिविन्ध्यं तु परतिविध्यन्तम आहवे वयदारयन महाप्राज्ञः शरैः संनतपर्वभिः ॥ 62 ॥
सुदक्षिणं तु राजेन्द्र काम्बॊजानां महारथम शरुतकर्मा पराक्रान्तम अभ्यद्रवत संयुगे ॥ 63 ॥
सुदक्षिणस तु समरे साहदेविं महारथम विद्ध्वा नाकम्पयत वै मैनाकम इव पर्वतम ॥ 64 ॥
शरुतकर्मा ततः करुद्धः काम्बॊजानां महारथम शरैर बहुभिर आनर्छद दरयन्न इव सर्वशः ॥ 65 ॥
इरावान अथ संक्रुद्धः शरुतायुषम अमर्षणम परत्युद्ययौ रणे यत्तॊ यत्त रूपतरं ततः ॥ 66 ॥
आर्जुनिस तस्य समरे हयान हत्वा महारथः ननाद सुमहन नादं तत सैन्यं परत्यपूरयत ॥ 67 ॥
शरुतायुस तव अथ संक्रुद्धः फाल्गुनेः समरे हयान निजघान गदाग्रेण ततॊ युद्धम अवर्तत ॥ 68 ॥
विन्दानुविन्दाव आवन्त्यौ कुन्तिभॊजं महारथम स सेनं स सुतं वीरं संससज्जतुर आहवे ॥ 69 ॥
तत्राद्भुतम अपश्याम आवन्त्यानां पराक्रमम यद अयुध्यन सथिरा भूत्वा महत्या सेनया सह ॥ 70 ॥
अनुविन्दस तु गदया कुन्तिभॊजम अताडयत कुन्तिभॊजस ततस तूर्णं शरव्रातैर अवाकिरत ॥ 71 ॥
कुन्तिभॊजसुतश चापि विन्दं विव्याध सायकैः स च तं परतिविव्याध तद अद्भुतम इवाभवत ॥ 72 ॥
केकया भरातरः पञ्च गान्धारान पञ्च मारिष स सैन्यास ते स सैन्यांश च यॊधयाम आसुर आहवे ॥ 73 ॥
वीरबाहुश च ते पुत्रॊ वैराटिं रथसत्तमम उत्तरं यॊधयाम आस विव्याध निशितैः शरैः उत्तरश चापि तं घॊरं विव्याध निशितैः शरैः ॥ 74 ॥
चेदिराट समरे राजन्न उलूकं समभिद्रवत उलूकश चापि तं बाणैर निशितैर लॊमवाहिभिः ॥ 75 ॥
तयॊर युद्धं समभवद घॊररूपं विशां पते दारयेतां सुसंक्रुद्धाव अन्यॊन्यम अपराजितौ ॥ 76 ॥
एवं दवंद्व सहस्राणि रथवारणवाजिनाम पदातीनां च समरे तव तेषां च संकुलम ॥ 77 ॥
मुहूर्तम इव तद युद्धम आसीन मधुरदर्शनम तत उन्मत्तवद राजन न पराज्ञायत किं चन ॥ 78 ॥
गजॊ गजेन समरे रथी च रथिनं ययौ अश्वॊ ऽशवं समभिप्रेत्य पदातिश च पदातिनम ॥ 79 ॥
ततॊ युद्धं सुदुर्धर्षं वयाकुलं समपद्यत शूराणां समरे तत्र समासाद्य परस्परम ॥ 80 ॥
तत्र देवर्षयः सिद्धाश चारणाश च समागताः परैक्षन्त तद रणं घॊरं देवासुररणॊपमम ॥ 81 ॥
ततॊ दन्ति सहस्राणि रथानां चापि मारिष अश्वौघाः पुरुषौघाश च विपरीतं समाययुः ॥ 82 ॥
तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः सादिनश च नरव्याघ्र युध्यमाना मुहुर मुहुः ॥ 83 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 43
Reach this point to mark the section finished.
Continue to अध्याय 44