[धृ] एवं वयूढेष्व अनीकेषु मामकेष्व इतरेषु च के पूर्वं पराहरंस तत्र कुरवः पाण्डवास तथा ॥ 1 ॥
[स] भरातृभिः सहितॊ राजन पुत्रॊ दुर्यॊधनस तव भीष्मं परमुखतः कृत्वा परययौ सह सेनया ॥ 2 ॥
तथैव पाण्डवाः सर्वे भीमसेनपुरॊगमाः भीष्मेण युद्धम इच्छन्तः परययुर हृष्टमानसाः ॥ 3 ॥
कष्वेडाः किल किला शब्दः करकचा गॊविषाणिकाः भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ॥ 4 ॥
उभयॊः सेनयॊ राजंस ततस ते ऽसमान समद्रवन वयं परतिनदन्तश च तदासीत तुमुलं महत ॥ 5 ॥
महान्त्य अनीकानि महासमुच्छ्रये; समागमे पाण्डव धार्तराष्ट्रयॊः चकम्पिरे शङ्खमृदङ्ग निस्वनैः; परकम्पितानीव वनानि वायुना ॥ 6 ॥
नरेन्द्र नागाश्वरथाकुलानाम; अभ्यायतीनाम अशिवे मुहूर्ते बभूव घॊषस तुमुलश चमूनां; वातॊद्धुतानाम इव सागराणाम ॥ 7 ॥
तस्मिन समुत्थिते शब्दे तुमुले लॊमहर्षणे भीमसेनॊ महाबाहुः पराणदद गॊवृषॊ यथा ॥ 8 ॥
शङ्खदुन्दुभिनिर्घॊषं वारणानां च बृंहितम सिंहनादं च सैन्यानां भीमसेनरवॊ ऽभयभूत ॥ 9 ॥
हयानां हेषमाणानाम अनीकेषु सहस्रशः सर्वान अभ्यभवच छब्दान भीमसेनस्य निस्वनः ॥ 10 ॥
तं शरुत्वा निनदं तस्य सैन्यास तव वितत्रसुः जीमूतस्येव नदतः शक्राशनिसमस्वनम ॥ 11 ॥
वाहनानि च सर्वाणि शकृन मूत्रं परसुस्रुवुः शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥ 12 ॥
दर्शयन घॊरम आत्मानं महाभ्रम इव नारयन विभीषयंस तव सुतांस तव सेनां समभ्ययात ॥ 13 ॥
तम आयान्तं महेष्वासं सॊदर्याः पर्यवारयन छादयन्तः शरव्रातैर मेघा इव दिवाकरम ॥ 14 ॥
दुर्यॊधनश च पुत्रस ते दुर्मुखॊ दुःसहः शलः दुःशासनश चातिरथस तथा दुर्मर्षणॊ नृप ॥ 15 ॥
विविंशतिश चित्रसेनॊ विकर्णश च महारथः पुरुमित्रॊ जयॊ भॊजः सौमदत्तिश च वीर्यवान ॥ 16 ॥
महाचापानि धुन्वन्तॊ जलदा इव विद्युतः आददानाश च नाराचान निर्मुक्ताशीविषॊपमान ॥ 17 ॥
अथ तान दरौपदीपुत्राः सौभद्रश च महारथ नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः ॥ 18 ॥
धार्तराष्ट्रान परतिययुर अर्दयन्तः शितैः शरैः वज्रैर इव महावेगैः शिखराणि धराभृताम ॥ 19 ॥
तस्मिन परथमसंमर्दे भीम जयातलनिस्वने तावकानां परेषां च नासीत कश चित पराङ्मुखः ॥ 20 ॥
लाघवं दरॊणशिष्याणाम अपश्यं भरतर्षभ निमित्तवेधिनां राजञ शरान उत्सृजतां भृशम ॥ 21 ॥
नॊपशाम्यति निर्घॊषॊ धनुषां कूजतां तथा विनिश्चेरुः शरा दीप्ता जयॊतींषीव नभस्तलात ॥ 22 ॥
सर्वे तव अन्ये महीपालाः परेक्षका इव भारत ददृशुर दर्शनीयं तं भीमं जञातिसमागमम ॥ 23 ॥
ततस ते जातसंरम्भाः परस्परकृतागसः अन्यॊन्यस्पर्धया राजन वयायच्छन्त महारथाः ॥ 24 ॥
कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले शुशुभाते रणे ऽतीव पटे चित्रगते इव ॥ 25 ॥
ततस ते पार्थिवाः सर्वे परगृहीतशरासनाः सह सैन्याः समापेतुः पुत्रस्य तव शासनात ॥ 26 ॥
युधिष्ठिरेण चादिष्टाः पार्थिवास ते सहस्रशः विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम ॥ 27 ॥
उभयॊः सेनयॊस तीव्रः सैन्यानां स समागमः अन्तर धीयत चादित्यः सैन्येन रजसावृतः ॥ 28 ॥
परयुद्धानां परभग्नानां पुनरावर्तताम अपि नात्र सवेषां परेषां वा विशेषः समजायत ॥ 29 ॥
तस्मिंस तु तुमुले युद्धे वर्तमाने महाभये अति सर्वाण्य अनीकानि पिता ते ऽभिव्यरॊचत ॥ 30 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 42
Reach this point to mark the section finished.
Continue to अध्याय 43