संजय उवाच ततॊ धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम पुनर एव महानादं वयसृजन्त महारथाः ॥ 1 ॥
पाण्डवाः सॊमकाश चैव ये चैषाम अनुयायिनः दध्मुश च मुदिताः शङ्खान वीराः सागरसंभवान ॥ 2 ॥
ततॊ भेर्यश च पेश्यश च करकचा गॊविषाणिकाः सहसैवाभ्यहन्यन्त ततः शब्दॊ महान अभूत ॥ 3 ॥
अथ देवाः सगन्धर्वाः पितरश च जनेश्वर सिद्धचारणसंघाश च समीयुस ते दिदृक्षया ॥ 4 ॥
ऋषयश च महाभागाः पुरस्कृत्य शतक्रतुम समीयुस तत्र सहिता दरष्टुं तद वैशसं महत ॥ 5 ॥
ततॊ युधिष्ठिरॊ दृष्ट्वा युद्धाय सुसमुद्यते ते सेने सागरप्रख्ये मुहुः परचलिते नृप ॥ 6 ॥
विमुच्य कवचं वीरॊ निक्षिप्य च वरायुधम अवरुह्य रथात तूर्णं पद्भ्याम एव कृताञ्जलिः ॥ 7 ॥
पितामहम अभिप्रेक्ष्य धर्मराजॊ युधिष्ठिरः वाग्यतः परययौ येन पराङ्मुखॊ रिपुवाहिनीम ॥ 8 ॥
तं परयान्तम अभिप्रेक्ष्य कुन्तीपुत्रॊ धनंजयः अवतीर्य रथात तूर्णं भरातृभिः सहितॊ ऽनवयात ॥ 9 ॥
वासुदेवश च भगवान पृष्ठतॊ ऽनुजगाम ह यथामुख्याश च राजानस तम अन्वाजग्मुर उत्सुकाः ॥ 10 ॥
अर्जुन उवाच किं ते वयवसितं राजन यद अस्मान अपहाय वै पद्भ्याम एव परयातॊ ऽसि पराङ्मुखॊ रिपुवाहिनीम ॥ 11 ॥
भीमसेन उवाच कव गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः दंशितेष्व अरिसैन्येषु भरातॄन उत्सृज्य पार्थिव ॥ 12 ॥
नकुल उवाच एवंगते तवयि जयेष्ठे मम भरातरि भारत भीर मे दुनॊति हृदयं बरूहि गन्ता भवान कव नु ॥ 13 ॥
सहदेव उवाच अस्मिन रणसमूहे वै वर्तमाने महाभये यॊद्धव्ये कव नु गन्तासि शत्रून अभिमुखॊ नृप ॥ 14 ॥
संजय उवाच एवम आभाष्यमाणॊ ऽपि भरातृभिः कुरुनन्दन नॊवाच वाग्यतः किं चिद गच्छत्य एव युधिष्ठिरः ॥ 15 ॥
तान उवाच महाप्राज्ञॊ वासुदेवॊ महामनाः अभिप्रायॊ ऽसय विज्ञातॊ मयेति परहसन्न इव ॥ 16 ॥
एष भीष्मं तथा दरॊणं गौतमं शल्यम एव च अनुमान्य गुरून सर्वान यॊत्स्यते पार्थिवॊ ऽरिभिः ॥ 17 ॥
शरूयते हि पुराकल्पे गुरून अननुमान्य यः युध्यते स भवेद वयक्तम अपध्यातॊ महत्तरैः ॥ 18 ॥
अनुमान्य यथाशास्त्रं यस तु युध्येन महत्तरैः धरुवस तस्य जयॊ युद्धे भवेद इति मतिर मम ॥ 19 ॥
एवं बरुवति कृष्णे तु धार्तराष्ट्रचमूं परति हाहाकारॊ महान आसीन निःशब्दास तव अपरे ऽभवन ॥ 20 ॥
दृष्ट्वा युधिष्ठिरं दूराद धार्तराष्ट्रस्य सैनिकाः मिथः संकथयां चक्रुर नेशॊ ऽसति कुलपांसनः ॥ 21 ॥
वयक्तं भीत इवाभ्येति राजासौ भीष्मम अन्तिकात युधिष्ठिरः ससॊदर्यः शरणार्थं परयाचकः ॥ 22 ॥
धनंजये कथं नाथे पाण्डवे च वृकॊदरे नकुले सहदेवे च भीतॊ ऽभयेति च पाण्डवः ॥ 23 ॥
न नूनं कषत्रियकुले जातः संप्रथिते भुवि यथास्य हृदयं भीतम अल्पसत्त्वस्य संयुगे ॥ 24 ॥
ततस ते कषत्रियाः सर्वे परशंसन्ति सम कौरवान हृष्टाः सुमनसॊ भूत्वा चैलानि दुधुवुः पृथक ॥ 25 ॥
वयनिन्दन्त ततः सर्वे यॊधास तत्र विशां पते युधिष्ठिरं ससॊदर्यं सहितं केशवेन ह ॥ 26 ॥
ततस तत कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम निःशब्दम अभवत तूर्णं पुनर एव विशां पते ॥ 27 ॥
किं नु वक्ष्यति राजासौ किं भीष्मः परतिवक्ष्यति किं भीमः समरश्लाघी किं नु कृष्णार्जुनाव इति ॥ 28 ॥
विवक्षितं किम अस्येति संशयः सुमहान अभूत उभयॊः सेनयॊ राजन युधिष्ठिरकृते तदा ॥ 29 ॥
स विगाह्य चमूं शत्रॊः शरशक्तिसमाकुलाम भीष्मम एवाभ्ययात तूर्णं भरातृभिः परिवारितः ॥ 30 ॥
तम उवाच ततः पादौ कराभ्यां पीड्य पाण्डवः भीष्मं शांतनवं राजा युद्धाय समुपस्थितम ॥ 31 ॥
युधिष्ठिर उवाच आमन्त्रये तवां दुर्धर्ष यॊत्स्ये तात तवया सह अनुजानीहि मां तात आशिषश च परयॊजय ॥ 32 ॥
भीष्म उवाच यद्य एवं नाभिगच्छेथा युधि मां पृथिवीपते शपेयं तवां महाराज पराभावाय भारत ॥ 33 ॥
परीतॊ ऽसमि पुत्र युध्यस्व जयम आप्नुहि पाण्डव यत ते ऽभिलषितं चान्यत तद अवाप्नुहि संयुगे ॥ 34 ॥
वरियतां च वरः पार्थ किम अस्मत्तॊ ऽभिकाङ्क्षसि एवं गते महाराज न तवास्ति पराजयः ॥ 35 ॥
अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः ॥ 36 ॥
अतस तवां कलीबवद वाक्यं बरवीमि कुरुनन्दन हृतॊ ऽसम्य अर्थेन कौरव्य युद्धाद अन्यत किम इच्छसि ॥ 37 ॥
युधिष्ठिर उवाच मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥ 38 ॥
भीष्म उवाच राजन किम अत्र साह्यं ते करॊमि कुरुनन्दन कामं यॊत्स्ये परस्यार्थे बरूहि यत ते विवक्षितम ॥ 39 ॥
युधिष्ठिर उवाच कथं जयेयं संग्रामे भवन्तम अपराजितम एतन मे मन्त्रय हितं यदि शरेयः परपश्यसि ॥ 40 ॥
भीष्म उवाच न तं पश्यामि कौन्तेय यॊ मां युध्यन्तम आहवे विजयेत पुमान कश चिद अपि साक्षाच छतक्रतुः ॥ 41 ॥
युधिष्ठिर उवाच हन्त पृच्छामि तस्मात तवां पितामह नमॊ ऽसतु ते जयॊपायं बरवीहि तवम आत्मनः समरे परैः ॥ 42 ॥
भीष्म उवाच न शत्रुं तात पश्यामि समरे यॊ जयेत माम न तावन मृत्युकालॊ मे पुनरागमनं कुरु ॥ 43 ॥
संजय उवाच ततॊ युधिष्ठिरॊ वाक्यं भीष्मस्य कुरुनन्दन शिरसा परतिजग्राह भूयस तम अभिवाद्य च ॥ 44 ॥
परायात पुनर महाबाहुर आचार्यस्य रथं परति पश्यतां सर्वसैन्यानां मध्येन भरातृभिः सह ॥ 45 ॥
स दरॊणम अभिवाद्याथ कृत्वा चैव परदक्षिणम उवाच वाचा दुर्धर्षम आत्मनिःश्रेयसं वचः ॥ 46 ॥
आमन्त्रये तवां भगवन यॊत्स्ये विगतकल्मषः जयेयं च रिपून सर्वान अनुज्ञातस तवया दविज ॥ 47 ॥
दरॊण उवाच यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः शपेयं तवां महाराज पराभावाय सर्वशः ॥ 48 ॥
तद युधिष्ठिर तुष्टॊ ऽसमि पूजितश च तवयानघ अनुजानामि युध्यस्व विजयं समवाप्नुहि ॥ 49 ॥
करवाणि च ते कामं बरूहि यत ते ऽभिकाङ्क्षितम एवं गते महाराज युद्धाद अन्यत किम इच्छसि ॥ 50 ॥
अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः ॥ 51 ॥
अतस तवां कलीबवद बरूमॊ युद्धाद अन्यत किम इच्छसि यॊत्स्यामि कौरवस्यार्थे तवाशास्यॊ जयॊ मया ॥ 52 ॥
युधिष्ठिर उवाच जयम आशास्स्व मे बरह्मन मन्त्रयस्व च मद्धितम युध्यस्व कौरवस्यार्थे वर एष वृतॊ मया ॥ 53 ॥
दरॊण उवाच धरुवस ते विजयॊ राजन यस्य मन्त्री हरिस तव अहं च तवाभिजानामि रणे शत्रून विजेष्यसि ॥ 54 ॥
यतॊ धर्मस ततः कृष्णॊ यतः कृष्णस ततॊ जयः युध्यस्व गच्छ कौन्तेय पृच्छ मां किं बरवीमि ते ॥ 55 ॥
युधिष्ठिर उवाच पृच्छामि तवां दविजश्रेष्ठ शृणु मे यद विवक्षितम कथं जयेयं संग्रामे भवन्तम अपराजितम ॥ 56 ॥
दरॊण उवाच न ते ऽसति विजयस तावद यावद युध्याम्य अहं रणे ममाशु निधने राजन यतस्व सह सॊदरैः ॥ 57 ॥
युधिष्ठिर उवाच हन्त तस्मान महाबाहॊ वधॊपायं वदात्मनः आचार्य परणिपत्यैष पृच्छामि तवां नमॊ ऽसतु ते ॥ 58 ॥
दरॊण उवाच न शत्रुं तात पश्यामि यॊ मां हन्याद रणे सथितम युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम ॥ 59 ॥
ऋते परायगतं राजन नयस्तशस्त्रम अचेतनम हन्यान मां युधि यॊधानां सत्यम एतद बरवीमि ते ॥ 60 ॥
शस्त्रं चाहं रणे जह्यां शरुत्वा सुमहद अप्रियम शरद्धेयवाक्यात पुरुषाद एतत सत्यं बरवीमि ते ॥ 61 ॥
संजय उवाच एतच छरुत्वा महाराज भारद्वाजस्य धीमतः अनुमान्य तम आचार्यं परायाच छारद्वतं परति ॥ 62 ॥
सॊ ऽभिवाद्य कृपं राजा कृत्वा चापि परदक्षिणम उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः ॥ 63 ॥
अनुमानये तवां यॊत्स्यामि गुरॊ विगतकल्मषः जयेयं च रिपून सर्वान अनुज्ञातस तवयानघ ॥ 64 ॥
कृप उवाच यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः शपेयं तवां महाराज पराभावाय सर्वशः ॥ 65 ॥
अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः ॥ 66 ॥
तेषाम अर्थे महाराज यॊद्धव्यम इति मे मतिः अतस तवां कलीबवद बरूमि युद्धाद अन्यत किम इच्छसि ॥ 67 ॥
युधिष्ठिर उवाच हन्त पृच्छामि ते तस्माद आचार्य शृणु मे वचः ॥ 68 ॥
संजय उवाच इत्य उक्त्वा वयथितॊ राजा नॊवाच गतचेतनः तं गौतमः परत्युवाच विज्ञायास्य विवक्षितम अवध्यॊ ऽहं महीपाल युध्यस्व जयम आप्नुहि ॥ 69 ॥
परीतस तव अभिगमेनाहं जयं तव नराधिप आशासिष्ये सदॊत्थाय सत्यम एतद बरवीमि ते ॥ 70 ॥
एतच छरुत्वा महाराज गौतमस्य वचस तदा अनुमान्य कृपं राजा परययौ येन मद्रराट ॥ 71 ॥
स शल्यम अभिवाद्याथ कृत्वा चाभिप्रदक्षिणम उवाच राजा दुर्धर्षम आत्मनिःश्रेयसं वचः ॥ 72 ॥
अनुमानये तवां यॊत्स्यामि गुरॊ विगतकल्मषः जयेयं च महाराज अनुज्ञातस तवया रिपून ॥ 73 ॥
शल्य उवाच यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः शपेयं तवां महाराज पराभावाय वै रणे ॥ 74 ॥
तुष्टॊ ऽसमि पूजितश चास्मि यत काङ्क्षसि तद अस्तु ते अनुजानामि चैव तवां युध्यस्व जयम आप्नुहि ॥ 75 ॥
बरूहि चैव परं वीर केनार्थः किं ददामि ते एवं गते महाराज युद्धाद अन्यत किम इच्छसि ॥ 76 ॥
अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित इति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः ॥ 77 ॥
करिष्यामि हि ते कामं भागिनेय यथेप्सितम बरवीम्य अतः कलीबवत तवां युद्धाद अन्यत किम इच्छसि ॥ 78 ॥
युधिष्ठिर उवाच मन्त्रयस्व महाराज नित्यं मद्धितम उत्तमम कामं युध्य परस्यार्थे वरम एतद वृणॊम्य अहम ॥ 79 ॥
शल्य उवाच बरूहि किम अत्र साह्यं ते करॊमि नृपसत्तम कामं यॊत्स्ये परस्यार्थे वृतॊ ऽसम्य अर्थेन कौरवैः ॥ 80 ॥
युधिष्ठिर उवाच स एव मे वरः सत्य उद्यॊगे यस तवया कृतः सूतपुत्रस्य संग्रामे कार्यस तेजॊवधस तवया ॥ 81 ॥
शल्य उवाच संपत्स्यत्य एष ते कामः कुन्तीपुत्र यथेप्सितः गच्छ युध्यस्व विस्रब्धं परतिजाने जयं तव ॥ 82 ॥
संजय उवाच अनुमान्याथ कौन्तेयॊ मातुलं मद्रकेश्वरम निर्जगाम महासैन्याद भरातृभिः परिवारितः ॥ 83 ॥
वासुदेवस तु राधेयम आहवे ऽभिजगाम वै तत एनम उवाचेदं पाण्डवार्थे गदाग्रजः ॥ 84 ॥
शरुतं मे कर्ण भीष्मस्य दवेषात किल न यॊत्स्यसि अस्मान वरय राधेय यावद भीष्मॊ न हन्यते ॥ 85 ॥
हते तु भीष्मे राधेय पुनर एष्यसि संयुगे धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत समम ॥ 86 ॥
कर्ण उवाच न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव तयक्तप्राणं हि मां विद्धि दुर्यॊधनहितैषिणम ॥ 87 ॥
संजय उवाच तच छरुत्वा वचनं कृष्णः संन्यवर्तत भारत युधिष्ठिरपुरॊगैश च पाण्डवैः सह संगतः ॥ 88 ॥
अथ सैन्यस्य मध्ये तु पराक्रॊशत पाण्डवाग्रजः यॊ ऽसमान वृणॊति तद अहं वरये साह्यकारणात ॥ 89 ॥
अथ तान समभिप्रेक्ष्य युयुत्सुर इदम अब्रवीत परीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम ॥ 90 ॥
अहं यॊत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान युष्मद अर्थे महाराज यदि मां वृणुषे ऽनघ ॥ 91 ॥
युधिष्ठिर उवाच एह्य एहि सर्वे यॊत्स्यामस तव भरातॄन अपण्डितान युयुत्सॊ वासुदेवश च वयं च बरूम सर्वशः ॥ 92 ॥
वृणॊमि तवां महाबाहॊ युध्यस्व मम कारणात तवयि पिण्डश च तन्तुश च धृतराष्ट्रस्य दृश्यते ॥ 93 ॥
भजस्वास्मान राजपुत्र भजमानान महाद्युते न भविष्यति दुर्बुद्धिर धार्तराष्ट्रॊ ऽतयमर्षणः ॥ 94 ॥
संजय उवाच ततॊ युयुत्सुः कौरव्यः परित्यज्य सुतांस तव जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम ॥ 95 ॥
ततॊ युधिष्ठिरॊ राजा संप्रहृष्टः सहानुजैः जग्राह कवचं भूयॊ दीप्तिमत कनकॊज्ज्वलम ॥ 96 ॥
परत्यपद्यन्त ते सर्वे रथान सवान पुरुषर्षभाः ततॊ वयूहं यथापूर्वं परत्यव्यूहन्त ते पुनः ॥ 97 ॥
अवादयन दुन्दुभींश च शतशश चैव पुष्करान सिंहनादांश च विविधान विनेदुः पुरुषर्षभाः ॥ 98 ॥
रथस्थान पुरुषव्याघ्रान पाण्डवान परेक्ष्य पार्थिवाः धृष्टद्युम्नादयः सर्वे पुनर जहृषिरे मुदा ॥ 99 ॥
गौरवं पाण्डुपुत्राणां मान्यान मानयतां च तान दृष्ट्वा महीक्षितस तत्र पूजयां चक्रिरे भृशम ॥ 100 ॥
सौहृदं च कृपां चैव पराप्तकालं महात्मनाम दयां च जञातिषु परां कथयां चक्रिरे नृपाः ॥ 101 ॥
साधु साध्व इति सर्वत्र निश्चेरुः सतुतिसंहिताः वाचः पुण्याः कीर्तिमतां मनॊहृदयहर्षिणीः ॥ 102 ॥
मलेच्छाश चार्याश च ये तत्र ददृशुः शुश्रुवुस तदा वृत्तं तत पाण्डुपुत्राणां रुरुदुस ते सगद्गदाः ॥ 103 ॥
ततॊ जघ्नुर महाभेरीः शतशश चैव पुष्करान शङ्खांश च गॊक्षीरनिभान दध्मुर हृष्टा मनस्विनः ॥ 104 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 41
Reach this point to mark the section finished.
Continue to अध्याय 42