अर्जुन उवाच संन्यासस्य महाबाहॊ तत्त्वम इच्छामि वेदितुम तयागस्य च हृषीकेश पृथक केशिनिषूदन ॥ 1 ॥
शरीभगवान उवाच काम्यानां कर्मणां नयासं संन्यासं कवयॊ विदुः सर्वकर्मफलत्यागं पराहुस तयागं विचक्षणाः ॥ 2 ॥
तयाज्यं दॊषवद इत्य एके कर्म पराहुर मनीषिणः यज्ञदानतपःकर्म न तयाज्यम इति चापरे ॥ 3 ॥
निश्चयं शृणु मे तत्र तयागे भरतसत्तम तयागॊ हि पुरुषव्याघ्र तरिविधः संप्रकीर्तितः ॥ 4 ॥
यज्ञदानतपःकर्म न तयाज्यं कार्यम एव तत यज्ञॊ दानं तपश चैव पावनानि मनीषिणाम ॥ 5 ॥
एतान्य अपि तु कर्माणि सङ्गं तयक्त्वा फलानि च कर्तव्यानीति मे पार्थ निश्चितं मतम उत्तमम ॥ 6 ॥
नियतस्य तु संन्यासः कर्मणॊ नॊपपद्यते मॊहात तस्य परित्यागस तामसः परिकीर्तितः ॥ 7 ॥
दुःखम इत्य एव यत कर्म कायक्लेशभयात तयजेत स कृत्वा राजसं तयागं नैव तयागफलं लभेत ॥ 8 ॥
कार्यम इत्य एव यत कर्म नियतं करियते ऽरजुन सङ्गं तयक्त्वा फलं चैव स तयागः सात्त्विकॊ मतः ॥ 9 ॥
न दवेष्ट्य अकुशलं कर्म कुशले नानुषज्जते तयागी सत्त्वसमाविष्टॊ मेधावी छिन्नसंशयः ॥ 10 ॥
न हि देहभृता शक्यं तयक्तुं कर्माण्य अशेषतः यस तु कर्मफलत्यागी स तयागीत्य अभिधीयते ॥ 11 ॥
अनिष्टम इष्टं मिश्रं च तरिविधं कर्मणः फलम भवत्य अत्यागिनां परेत्य न तु संन्यासिनां कव चित ॥ 12 ॥
पञ्चैतानि महाबाहॊ कारणानि निबॊध मे सांख्ये कृतान्ते परॊक्तानि सिद्धये सर्वकर्मणाम ॥ 13 ॥
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम विविधाश च पृथक्चेष्टा दैवं चैवात्र पञ्चमम ॥ 14 ॥
शरीरवाङ्मनॊभिर यत कर्म परारभते नरः नयाय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ 15 ॥
तत्रैवं सति कर्तारम आत्मानं केवलं तु यः पश्यत्य अकृतबुद्धित्वान न स पश्यति दुर्मतिः ॥ 16 ॥
यस्य नाहंकृतॊ भावॊ बुद्धिर यस्य न लिप्यते हत्वापि स इमाँल लॊकान न हन्ति न निबध्यते ॥ 17 ॥
जञानं जञेयं परिज्ञाता तरिविधा कर्मचॊदना करणं कर्म कर्तेति तरिविधः कर्मसंग्रहः ॥ 18 ॥
जञानं कर्म च कर्ता च तरिधैव गुणभेदतः परॊच्यते गुणसंख्याने यथावच छृणु तान्य अपि ॥ 19 ॥
सर्वभूतेषु येनैकं भावम अव्ययम ईक्षते अविभक्तं विभक्तेषु तज जञानं विद्धि सात्त्विकम ॥ 20 ॥
पृथक्त्वेन तु यज जञानं नानाभावान पृथग्विधान वेत्ति सर्वेषु भूतेषु तज जञानं विद्धि राजसम ॥ 21 ॥
यत तु कृत्स्नवद एकस्मिन कार्ये सक्तम अहैतुकम अतत्त्वार्थवद अल्पं च तत तामसम उदाहृतम ॥ 22 ॥
नियतं सङ्गरहितम अरागद्वेषतः कृतम अफलप्रेप्सुना कर्म यत तत सात्त्विकम उच्यते ॥ 23 ॥
यत तु कामेप्सुना कर्म साहंकारेण वा पुनः करियते बहुलायासं तद राजसम उदाहृतम ॥ 24 ॥
अनुबन्धं कषयं हिंसाम अनपेक्ष्य च पौरुषम मॊहाद आरभ्यते कर्म यत तत तामसम उच्यते ॥ 25 ॥
मुक्तसङ्गॊ ऽनहंवादी धृत्युत्साहसमन्वितः सिद्ध्यसिद्ध्यॊर निर्विकारः कर्ता सात्त्विक उच्यते ॥ 26 ॥
रागी कर्मफलप्रेप्सुर लुब्धॊ हिंसात्मकॊ ऽशुचिः हर्षशॊकान्वितः कर्ता राजसः परिकीर्तितः ॥ 27 ॥
अयुक्तः पराकृतः सतब्धः शठॊ नैकृतिकॊ ऽलसः विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 28 ॥
बुद्धेर भेदं धृतेश चैव गुणतस तरिविधं शृणु परॊच्यमानम अशेषेण पृथक्त्वेन धनंजय ॥ 29 ॥
परवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मॊक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ 30 ॥
यया धर्मम अधर्मं च कार्यं चाकार्यम एव च अयथावत परजानाति बुद्धिः सा पार्थ राजसी ॥ 31 ॥
अधर्मं धर्मम इति या मन्यते तमसावृता सर्वार्थान विपरीतांश च बुद्धिः सा पार्थ तामसी ॥ 32 ॥
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः यॊगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ 33 ॥
यया तु धर्मकामार्थान धृत्या धारयते ऽरजुन परसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ 34 ॥
यया सवप्नं भयं शॊकं विषादं मदम एव च न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ 35 ॥
सुखं तव इदानीं तरिविधं शृणु मे भरतर्षभ अभ्यासाद रमते यत्र दुःखान्तं च निगच्छति ॥ 36 ॥
यत तदग्रे विषम इव परिणामे ऽमृतॊपमम तत सुखं सात्त्विकं परॊक्तम आत्मबुद्धिप्रसादजम ॥ 37 ॥
विषयेन्द्रियसंयॊगाद यत तदग्रे ऽमृतॊपमम परिणामे विषम इव तत सुखं राजसं समृतम ॥ 38 ॥
यद अग्रे चानुबन्धे च सुखं मॊहनम आत्मनः निद्रालस्यप्रमादॊत्थं तत तामसम उदाहृतम ॥ 39 ॥
न तद अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः सत्त्वं परकृतिजैर मुक्तं यद एभिः सयात तरिभिर गुणैः ॥ 40 ॥
बराह्मणक्षत्रियविशां शूद्राणां च परंतप कर्माणि परविभक्तानि सवभावप्रभवैर गुणैः ॥ 41 ॥
शमॊ दमस तपः शौचं कषान्तिर आर्जवम एव च जञानं विज्ञानम आस्तिक्यं बरह्मकर्म सवभावजम ॥ 42 ॥
शौर्यं तेजॊ धृतिर दाक्ष्यं युद्धे चाप्य अपलायनम दानम ईश्वरभावश च कषात्रं कर्म सवभावजम ॥ 43 ॥
कृषिगॊरक्ष्यवाणिज्यं वैश्यकर्म सवभावजम परिचर्यात्मकं कर्म शूद्रस्यापि सवभावजम ॥ 44 ॥
सवे सवे कर्मण्य अभिरतः संसिद्धिं लभते नरः सवकर्मनिरतः सिद्धिं यथा विन्दति तच छृणु ॥ 45 ॥
यतः परवृत्तिर भूतानां येन सर्वम इदं ततम सवकर्मणा तम अभ्यर्च्य सिद्धिं विन्दति मानवः ॥ 46 ॥
शरेयान सवधर्मॊ विगुणः परधर्मात सवनुष्ठितात सवभावनियतं कर्म कुर्वन नाप्नॊति किल्बिषम ॥ 47 ॥
सहजं कर्म कौन्तेय सदॊषम अपि न तयजेत सर्वारम्भा हि दॊषेण धूमेनाग्निर इवावृताः ॥ 48 ॥
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ 49 ॥
सिद्धिं पराप्तॊ यथा बरह्म तथाप्नॊति निबॊध मे समासेनैव कौन्तेय निष्ठा जञानस्य या परा ॥ 50 ॥
बुद्ध्या विशुद्धया युक्तॊ धृत्यात्मानं नियम्य च शब्दादीन विषयांस तयक्त्वा रागद्वेषौ वयुदस्य च ॥ 51 ॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः धयानयॊगपरॊ नित्यं वैराग्यं समुपाश्रितः ॥ 52 ॥
अहंकारं बलं दर्पं कामं करॊधं परिग्रहम विमुच्य निर्ममः शान्तॊ बरह्मभूयाय कल्पते ॥ 53 ॥
बरह्मभूतः परसन्नात्मा न शॊचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम ॥ 54 ॥
भक्त्या माम अभिजानाति यावान यश चास्मि तत्त्वतः ततॊ मां तत्त्वतॊ जञात्वा विशते तदनन्तरम ॥ 55 ॥
सर्वकर्माण्य अपि सदा कुर्वाणॊ मद्व्यपाश्रयः मत्प्रसादाद अवाप्नॊति शाश्वतं पदम अव्ययम ॥ 56 ॥
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः बुद्धियॊगम उपाश्रित्य मच्चित्तः सततं भव ॥ 57 ॥
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात तरिष्यसि अथ चेत तवम अहंकारान न शरॊष्यसि विनङ्क्ष्यसि ॥ 58 ॥
यद अहंकारम आश्रित्य न यॊत्स्य इति मन्यसे मिथ्यैष वयवसायस ते परकृतिस तवां नियॊक्ष्यति ॥ 59 ॥
सवभावजेन कौन्तेय निबद्धः सवेन कर्मणा कर्तुं नेच्छसि यन मॊहात करिष्यस्य अवशॊ ऽपि तत ॥ 60 ॥
ईश्वरः सर्वभूतानां हृद्देशे ऽरजुन तिष्ठति भरामयन सर्वभूतानि यन्त्रारूढानि मायया ॥ 61 ॥
तम एव शरणं गच्छ सर्वभावेन भारत तत्प्रसादात परां शान्तिं सथानं पराप्स्यसि शाश्वतम ॥ 62 ॥
इति ते जञानम आख्यातं गुह्याद गुह्यतरं मया विमृश्यैतद अशेषेण यथेच्छसि तथा कुरु ॥ 63 ॥
सर्वगुह्यतमं भूयः शृणु मे परमं वचः इष्टॊ ऽसि मे दृढम इति ततॊ वक्ष्यामि ते हितम ॥ 64 ॥
मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु माम एवैष्यसि सत्यं ते परतिजाने परियॊ ऽसि मे ॥ 65 ॥
सर्वधर्मान परित्यज्य माम एकं शरणं वरज अहं तवा सर्वपापेभ्यॊ मॊक्षयिष्यामि मा शुचः ॥ 66 ॥
इदं ते नातपस्काय नाभक्ताय कदा चन न चाशुश्रूषवे वाच्यं न च मां यॊ ऽभयसूयति ॥ 67 ॥
य इदं परमं गुह्यं मद्भक्तेष्व अभिधास्यति भक्तिं मयि परां कृत्वा माम एवैष्यत्य असंशयः ॥ 68 ॥
न च तस्मान मनुष्येषु कश चिन मे परियकृत्तमः भविता न च मे तस्माद अन्यः परियतरॊ भुवि ॥ 69 ॥
अध्येष्यते च य इमं धर्म्यं संवादम आवयॊः जञानयज्ञेन तेनाहम इष्टः सयाम इति मे मतिः ॥ 70 ॥
शरद्धावान अनसूयश च शृणुयाद अपि यॊ नरः सॊ ऽपि मुक्तः शुभाँल लॊकान पराप्नुयात पुण्यकर्मणाम ॥ 71 ॥
कच चिद एतच छरुतं पार्थ तवयैकाग्रेण चेतसा कच चिद अज्ञानसंमॊहः परनष्टस ते धनंजय ॥ 72 ॥
अर्जुन उवाच नष्टॊ मॊहः समृतिर लब्धा तवत्प्रसादान मयाच्युत सथितॊ ऽसमि गतसंदेहः करिष्ये वचनं तव ॥ 73 ॥
संजय उवाच इत्य अहं वासुदेवस्य पार्थस्य च महात्मनः संवादम इमम अश्रौषम अद्भुतं रॊमहर्षणम ॥ 74 ॥
वयासप्रसादाच छरुतवान एतद गुह्यम अहं परम यॊगं यॊगेश्वरात कृष्णात साक्षात कथयतः सवयम ॥ 75 ॥
राजन संस्मृत्य संस्मृत्य संवादम इमम अद्भुतम केशवार्जुनयॊः पुण्यं हृष्यामि च मुहुर मुहुः ॥ 76 ॥
तच च संस्मृत्य संस्मृत्य रूपम अत्यद्भुतं हरेः विस्मयॊ मे महान राजन हृष्यामि च पुनः पुनः ॥ 77 ॥
यत्र यॊगेश्वरः कृष्णॊ यत्र पार्थॊ धनुर्धरः तत्र शरीर विजयॊ भूतिर धरुवा नीतिर मतिर मम ॥ 78 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 40
Reach this point to mark the section finished.
Continue to अध्याय 41