अर्जुन उवाच ये शास्त्रविधिम उत्सृज्य यजन्ते शरद्धयान्विताः तेषां निष्ठा तु का कृष्ण सत्त्वम आहॊ रजस तमः ॥ 1 ॥
शरीभगवान उवाच तरिविधा भवति शरद्धा देहिनां सा सवभावजा सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ 2 ॥
सत्त्वानुरूपा सर्वस्य शरद्धा भवति भारत शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः ॥ 3 ॥
यजन्ते सात्त्विका देवान यक्षरक्षांसि राजसाः परेतान भूतगणांश चान्ये यजन्ते तामसा जनाः ॥ 4 ॥
अशास्त्रविहितं घॊरं तप्यन्ते ये तपॊ जनाः दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥ 5 ॥
कर्शयन्तः शरीरस्थं भूतग्रामम अचेतसः मां चैवान्तःशरीरस्थं तान विद्ध्य आसुरनिश्चयान ॥ 6 ॥
आहारस तव अपि सर्वस्य तरिविधॊ भवति परियः यज्ञस तपस तथा दानं तेषां भेदम इमं शृणु ॥ 7 ॥
आयुःसत्त्वबलारॊग्यसुखप्रीतिविवर्धनाः रस्याः सनिग्धाः सथिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ 8 ॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः आहारा राजसस्येष्टा दुःखशॊकामयप्रदाः ॥ 9 ॥
यातयामं गतरसं पूति पर्युषितं च यत उच्छिष्टम अपि चामेध्यं भॊजनं तामसप्रियम ॥ 10 ॥
अफलाकाङ्क्षिभिर यज्ञॊ विधिदृष्टॊ य इज्यते यष्टव्यम एवेति मनः समाधाय स सात्त्विकः ॥ 11 ॥
अभिसंधाय तु फलं दम्भार्थम अपि चैव यत इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम ॥ 12 ॥
विधिहीनम असृष्टान्नं मन्त्रहीनम अदक्षिणम शरद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ 13 ॥
देवद्विजगुरुप्राज्ञपूजनं शौचम आर्जवम बरह्मचर्यम अहिंसा च शारीरं तप उच्यते ॥ 14 ॥
अनुद्वेगकरं वाक्यं सत्यं परियहितं च यत सवाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ 15 ॥
मनःप्रसादः सौम्यत्वं मौनम आत्मविनिग्रहः भावसंशुद्धिर इत्य एतत तपॊ मानसम उच्यते ॥ 16 ॥
शरद्धया परया तप्तं तपस तत तरिविधं नरैः अफलाकाङ्क्षिभिर युक्तैः सात्त्विकं परिचक्षते ॥ 17 ॥
सत्कारमानपूजार्थं तपॊ दम्भेन चैव यत करियते तद इह परॊक्तं राजसं चलम अध्रुवम ॥ 18 ॥
मूढग्राहेणात्मनॊ यत पीडया करियते तपः परस्यॊत्सादनार्थं वा तत तामसम उदाहृतम ॥ 19 ॥
दातव्यम इति यद दानं दीयते ऽनुपकारिणे देशे काले च पात्रे च तद दानं सात्त्विकं समृतम ॥ 20 ॥
यत तु परत्युपकारार्थं फलम उद्दिश्य वा पुनः दीयते च परिक्लिष्टं तद दानं राजसं समृतम ॥ 21 ॥
अदेशकाले यद दानम अपात्रेभ्यश च दीयते असत्कृतम अवज्ञातं तत तामसम उदाहृतम ॥ 22 ॥
ओं तत सद इति निर्देशॊ बरह्मणस तरिविधः समृतः बराह्मणास तेन वेदाश च यज्ञाश च विहिताः पुरा ॥ 23 ॥
तस्माद ओम इत्य उदाहृत्य यज्ञदानतपःक्रियाः परवर्तन्ते विधानॊक्ताः सततं बरह्मवादिनाम ॥ 24 ॥
तद इत्य अनभिसंधाय फलं यज्ञतपःक्रियाः दानक्रियाश च विविधाः करियन्ते मॊक्षकाङ्क्षिभिः ॥ 25 ॥
सद्भावे साधुभावे च सद इत्य एतत परयुज्यते परशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ 26 ॥
यज्ञे तपसि दाने च सथितिः सद इति चॊच्यते कर्म चैव तदर्थीयं सद इत्य एवाभिधीयते ॥ 27 ॥
अश्रद्धया हुतं दत्तं तपस तप्तं कृतं च यत असद इत्य उच्यते पार्थ न च तत परेत्य नॊ इह ॥ 28 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 39
Reach this point to mark the section finished.
Continue to अध्याय 40