[व] एवम उक्तॊ मुनिस तत्त्वं कवीन्द्रॊ राजसत्तम पुत्रेण धृतराष्ट्रेण धयानम अन्वगमत परम ॥ 1 ॥
पुनर एवाब्रवीद वाक्यं कालवादी महातपाः असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत ॥ 2 ॥
सृजते च पुनर लॊकान नेह विद्यति शाश्वतम जञातीनां च कुरूणां च संबन्धिसुहृदां तथा ॥ 3 ॥
धर्म्यं देशय पन्थानं समर्थॊ हय असि वारणे कषुद्रं जञातिवधं पराहुर मा कुरुष्व ममाप्रियम ॥ 4 ॥
कालॊ ऽयं पुत्र रूपेण तव जातॊ विशां पते न वधः पूज्यते वेदे हितं नैतत कथं चन ॥ 5 ॥
हन्यात स एव यॊ हन्यात कुलधर्मं सवकां तनुम कालेनॊत्पथ गन्तासि शक्ये सति यथा पथि ॥ 6 ॥
कुलस्यास्य विनाशाय तथैव च महीक्षिताम अनर्थॊ राज्यरूपेण तयज्यताम असुखावहः ॥ 7 ॥
लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान किं ते राज्येन दुर्धर्ष येन पराप्तॊ ऽसि किल्बिषम ॥ 8 ॥
यशॊधर्मं च कीर्तिं च पालयन सवर्गम आप्स्यसि लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥ 9 ॥
एवं बरुवति विप्रेन्द्रे धृतराष्ट्रॊ ऽमबिका सुतः आक्षिप्य वाक्यं वाक्यज्ञॊ वाक्पथेनाप्य अयात पुनः ॥ 10 ॥
[धृ] यथा भवान वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत सवार्थे हि संमुह्यति तात लॊकॊ; मां चापि लॊकात्मकम एव विद्धि ॥ 11 ॥
परसादये तवाम अतुलप्रभावं; तवं नॊ गतिर दर्शयिता च धीरः न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुम इहार्हसे माम ॥ 12 ॥
तवं हि धर्मः पवित्रं च यशः कीर्तिर धृतिः समृतिः करुणां पाण्डवानां च मान्यश चासि पितामहः ॥ 13 ॥
[वय] वैचित्रवीर्य नृपते यत ते मनसि वर्तते अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम ॥ 14 ॥
[धृ] यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम तानि सर्वाणि भगवञ शरॊतुम इच्छामि तत्त्वतः ॥ 15 ॥
[वय] परसन्नभाः पावक ऊर्ध्वरश्मिः; परदक्षिणावर्तशिखॊ विधूमः पुण्या गन्धाश चाहुतीनां परवान्ति; जयस्यैतद भाविनॊ रूपम आहुः ॥ 16 ॥
गम्भीरघॊषाश च महास्वनाश च; शङ्खा मृदङ्गाश च नदन्ति यत्र विशुद्धरश्मिस तपनः शशी च; जयस्यैतद भाविनॊ रूपम आहुः ॥ 17 ॥
इष्टा वाचः पृष्ठतॊ वायसानां; संप्रस्थितानां च गमिष्यतां च ये पृष्ठतस ते तवरयन्ति राजन; ये तव अग्रतस ते परतिषेधयन्ति ॥ 18 ॥
कल्याण वाचः शकुना राजहंसाः; शुकाः करौञ्चाः शतपत्राश च यत्र परदक्षिणाश चैव भवन्ति संख्ये; धरुवं जयं तत्र वदन्ति विप्राः ॥ 19 ॥
अलंकारैः कवचैः केतुभिश च; मुखप्रसादैर हेमवर्णैश च नॄणाम भराजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस ते विजयन्ति शत्रून ॥ 20 ॥
हृष्टा वाचस तथा सत्त्वं यॊधानां यत्र भारत न मलायन्ते सरजश चैव ते तरन्ति रणे रिपून ॥ 21 ॥
इष्टॊ वातः परविष्टस्य दक्षिणा परविविक्षतः पश्चात संसाधयत्य अर्थं पुरस्तात परतिषेधते ॥ 22 ॥
शब्दरूपरसस्पर्श गन्धाश चाविष्कृताः शुभाः सदा यॊधाश च हृष्टाश च येषां तेषां धरुवं जयः ॥ 23 ॥
अन्व एव वायवॊ वान्ति तथाभ्राणि वयांसि च अनुप्लवन्ते मेघाश च तथैवेन्द्र धनूंषि च ॥ 24 ॥
एतानि जयमानानां लक्षणानि विशां पते भवन्ति विपरीतानि मुमूर्षाणां जनाधिप ॥ 25 ॥
अल्पायां वा महत्यां वा सेनायाम इति निश्चितम हर्षॊ यॊधगणस्यैकं जयलक्षणम उच्यते ॥ 26 ॥
एकॊ दीर्णॊ दारयति सेनां सुमहतीम अपि तं दीर्णम अनुदीर्यन्ते यॊधाः शूरतमा अपि ॥ 27 ॥
दुर्निवारतमा चैव परभग्ना महती चमूः अपाम इव महावेगस तरस्ता मृगगणा इव ॥ 28 ॥
नैव शक्या समाधातुं स निपाते महाचमूः दीर्णा इत्य एव दीर्यन्ते यॊधाः शूरतमा अपि भीतान भग्नांश च संप्रेक्ष्य भयं भूयॊ विवर्धते ॥ 29 ॥
परभग्ना सहसा राजन दिशॊ विभ्रामिता परैः नैव सथापयितुं शक्या शूरैर अपि महाचमूः ॥ 30 ॥
संभृत्य महतीं सेनां चतुरङ्गां महीपतिः उपायपूर्वं मेधावी यतेत सततॊत्थितः ॥ 31 ॥
उपायविजयं शरेष्ठम आहुर भेदेन मध्यमम जघन्य एष विजयॊ यॊ युद्धेन विशां पते महादॊषः संनिपातस ततॊ वयङ्गः स उच्यते ॥ 32 ॥
परस्परज्ञाः संहृष्टा वयवधूताः सुनिश्चिताः पञ्चाशद अपि ये शूरा मथ्नन्ति महतीं चमूम अथ वा पञ्चषट सप्त विजयन्त्य अनिवर्तिनः ॥ 33 ॥
न वैनतेयॊ गरुडः परशंसति महाजनम दृष्ट्वा सुपर्णॊपचितिं महतीम अपि भारत ॥ 34 ॥
न बाहुल्येन सेनाया जयॊ भवति भारत अध्रुवॊ हि जयॊ नाम दैवं चात्र परायणम जयन्तॊ हय अपि संग्रामे कषत्रवन्तॊ भवन्त्य उत ॥ 35 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 4
Reach this point to mark the section finished.
Continue to अध्याय 5