धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 3

  1. [वय] खरा गॊषु परजायन्ते रमन्ते मातृभिः सुताः अनार्तवं पुष्पफलं दर्शयन्ति वने दरुमाः ॥ 1 ॥

  2. गर्भिण्यॊ राजपुत्र्यश च जनयन्ति विभीषणान करव्यादान पक्षिणश चैव गॊमायून अपरान मृगान ॥ 2 ॥

  3. तरिविषाणाश चतुर्नेत्राः पञ्च पादा दविमेहनाः दविशीर्षाश च दविपुच्छाश च दंष्ट्रिणः पशवॊ ऽशिवाः ॥ 3 ॥

  4. जायन्ते विवृतास्याश च वयाहरन्तॊ ऽशिवा गिरः तरिपदाः शिखिनस तार्क्ष्याश चतुर्दंष्ट्रा विषाणिनः ॥ 4 ॥

  5. तथैवान्याश च दृश्यन्ते सत्रियश च बरह्मवादिनाम वैनतेयान मयूरांश च जनयन्त्यः पुरे तव ॥ 5 ॥

  6. गॊवत्सं वडवा सूते शवा सृगालं महीपते करकराञ शारिकाश चैव शुकांश चाशुभ वादिनः ॥ 6 ॥

  7. सत्रियः काश चित परजायन्ते चतस्रः पञ्च कन्यकाः ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च ॥ 7 ॥

  8. पृथग्जनस्य कुडकाः सतनपाः सतेन वेश्मनि नृत्यन्ति परिगायन्ति वेदयन्तॊ महद भयम ॥ 8 ॥

  9. परतिमाश चालिखन्त्य अन्ये स शस्त्राः कालचॊदिताः अन्यॊन्यम अभिधावन्ति शिशवॊ दण्डपाणयः उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः ॥ 9 ॥

  10. पद्मॊत्पलानि वृक्षेषु जायन्ते कुमुदानि च विष्वग वाताश च वान्त्य उग्रा रजॊ न वयुपशाम्यति ॥ 10 ॥

  11. अभीक्ष्णं कम्पते भूमिर अर्कं राहुस तथाग्रसत शवेतॊ गरहस तथा चित्रां समतिक्रम्य तिष्ठति ॥ 11 ॥

  12. अभावं हि विशेषेण कुरूणां परतिपश्यति धूमकेतुर महाघॊरः पुष्यम आक्रम्य तिष्ठति ॥ 12 ॥

  13. सेनयॊर अशिवं घॊरं करिष्यति महाग्रहः मघास्व अङ्गारकॊ वक्रः शरवणे च बृहस्पतिः ॥ 13 ॥

  14. भाग्यं नक्षत्रम आक्रम्य सूर्यपुत्रेण पीड्यते शुक्रः परॊष्ठपदे पूर्वे समारुह्य विशां पते उत्तरे तु परिक्रम्य सहितः परत्युदीक्षते ॥ 14 ॥

  15. शयामॊ गरहः परज्वलितः स धूमः सह पावकः ऐन्द्रं तेजस्वि नक्षत्रं जयेष्ठाम आक्रम्य तिष्ठति ॥ 15 ॥

  16. धरुवः परज्वलितॊ घॊरम अपसव्यं परवर्तते चित्रा सवात्य अन्तरे चैव धिष्ठितः परुषॊ गरहः ॥ 16 ॥

  17. वक्रानुवक्रं कृत्वा च शरवणे पावकप्रभः बरह्मराशिं समावृत्य लॊहिताङ्गॊ वयवस्थितः ॥ 17 ॥

  18. सर्वसस्य परतिच्छन्ना पृथिवी फलमालिनी पञ्चशीर्षा यवाश चैव शतशीर्षाश च शालयः ॥ 18 ॥

  19. परधानाः सर्वलॊकस्य यास्व आयत्तम इदं जगत ता गावः परस्नुता वत्सैः शॊणितं परक्षरन्त्य उत ॥ 19 ॥

  20. निश्चेरुर अपिधानेभ्यः खड्गाः परज्वलिता भृशम वयक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम ॥ 20 ॥

  21. अग्निवर्णा यथा भासः शस्त्राणाम उदकस्य च कवचानां धवजानां च भविष्यति महान कषयः ॥ 21 ॥

  22. दिक्षु परज्वलितास्याश च वयाहरन्ति मृगद्विजाः अत्याहितं दर्शयन्तॊ वेदयन्ति महद भयम ॥ 22 ॥

  23. एकपक्षाक्षि चरणः शकुनिः खचरॊ निशि रौद्रं वदति संरब्धः शॊणितं छर्दयन मुहुः ॥ 23 ॥

  24. गरहौ ताम्रारुण शिखौ परज्वलन्ताव इव सथितौ सप्तर्षीणाम उदाराणां समवच्छाद्य वै परभाम ॥ 24 ॥

  25. संवत्सरस्थायिनौ च गरहौ परज्वलिताव उभौ विशाखयॊः समीपस्थौ बृहस्पतिशनैश्चरौ ॥ 25 ॥

  26. कृत्तिकासु गरहस तीव्रॊ नक्षत्रे परथमे जवलन वपूंष्य अपहरन भासा धूमकेतुर इव सथितः ॥ 26 ॥

  27. तरिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते बुधः संपतते ऽभीक्ष्णं जनयन सुमहद भयम ॥ 27 ॥

  28. चतुर्दशीं पञ्चदशीं भूतपूर्वां च षॊडशीम इमां तु नाभिजानामि अमावास्यां तरयॊदशीम ॥ 28 ॥

  29. चन्द्रसूर्याव उभौ गरस्ताव एकमासे तरयॊदशीम अपर्वणि गरहाव एतौ परजाः संक्षपयिष्यतः ॥ 29 ॥

  30. रजॊ वृता दिशः सर्वाः पांसुवर्षैः समन्ततः उत्पातमेघा रौद्राश च रात्रौ वर्षन्ति शॊणितम ॥ 30 ॥

  31. मांसवर्षं पुनस तीव्रम आसीत कृष्ण चतुर्दशीम अर्धरात्रे महाघॊरम अतृप्यंस तत्र राक्षसाः ॥ 31 ॥

  32. परतिस्रॊतॊ ऽवहन नद्यः सरितः शॊणितॊदकाः फेनायमानाः कूपाश च नर्दन्ति वृषभा इव पतन्त्य उल्काः स निर्घाताः शुष्काशनि विमिश्रिताः ॥ 32 ॥

  33. अद्य चैव निशां वयुष्टाम उदये भानुर आहतः जवलन्तीभिर महॊल्काभिश चतुर्भिः सर्वतॊदिशम ॥ 33 ॥

  34. आदित्यम उपतिष्ठद्भिस तत्र चॊक्तं महर्षिभिः भूमिपाल सहस्राणां भूमिः पास्यति शॊणितम ॥ 34 ॥

  35. कैलासमन्दराभ्यां तु तथा हिमवतॊ गिरेः सहस्रशॊ महाशब्दं शिखराणि पतन्ति च ॥ 35 ॥

  36. महाभूता भूमिकम्पे चतुरः सागरान पृथक वेलाम उद्वर्तयन्ति सम कषॊभयन्तः पुनः पुनः ॥ 36 ॥

  37. वृक्षान उन्मथ्य वान्त्य उग्रा वाताः शर्कर कर्णिणः पतन्ति चैत्यवृक्षाश च गरामेषु नगरेषु च ॥ 37 ॥

  38. पीतलॊहित नीलश च जवलत्य अग्निर हुतॊ दविजैः वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः सपर्शा गन्धा रसाश चैव विपरीता महीपते ॥ 38 ॥

  39. धूमायन्ते धवजा राज्ञां कम्पमाना मुहुर मुहुः मुञ्चन्त्य अङ्गारवर्षाणि भेर्यॊ ऽथ पटहास तथा ॥ 39 ॥

  40. परासादशिखराग्रेषु पुरद्वारेषु चैव हि गृध्राः परिपतन्त्य उग्रा वामं मण्डलम आश्रिताः ॥ 40 ॥

  41. पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च निलीयन्ते धवजाग्रेषु कषयाय पृथिवीक्षिताम ॥ 41 ॥

  42. धयायन्तः परकिरन्तश च वालान वेपथुसंयुताः रुदन्ति दीनास तुरगा मातङ्गाश च सहस्रशः ॥ 42 ॥

  43. एतच छरुत्वा भवान अत्र पराप्तकालं वयवस्यताम यथा लॊकः समुच्छेदं नायं गच्छेत भारत ॥ 43 ॥

  44. [व] पितुर वचॊ निशम्यैतद धृतराष्ट्रॊ ऽबरवीद इदम दिष्टम एतत पुरा मन्ये भविष्यति न संशयः ॥ 44 ॥

  45. कषत्रियाः कषत्रधर्मेण वध्यन्ते यदि संयुगे वीरलॊकं समासाद्य सुखं पराप्स्यन्ति केवलम ॥ 45 ॥

  46. इह कीर्तिं परे लॊके दीर्घकालं महत सुखम पराप्स्यन्ति पुरुषव्याघ्राः पराणांस तयक्त्वा महाहवे ॥ 46 ॥

Reach this point to mark the section finished.

Continue to अध्याय 4

Previous: अध्याय 2