धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 37

  1. शरीभगवान उवाच ऊर्ध्वमूलम अधःशाखम अश्वत्थं पराहुर अव्ययम छन्दांसि यस्य पर्णानि यस तं वेद स वेदवित ॥ 1 ॥

  2. अधश चॊर्ध्वं परसृतास तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः अधश च मूलान्य अनुसंततानि; कर्मानुबन्धीनि मनुष्यलॊके ॥ 2 ॥

  3. न रूपम अस्येह तथॊपलभ्यते; नान्तॊ न चादिर न च संप्रतिष्ठा अश्वत्थम एनं सुविरूढमूलम; असङ्गशस्त्रेण दृढेन छित्त्वा ॥ 3 ॥

  4. ततः पदं तत्परिमार्गितव्यं; यस्मिन गता न निवर्तन्ति भूयः तम एव चाद्यं पुरुषं परपद्ये; यतः परवृत्तिः परसृता पुराणी ॥ 4 ॥

  5. निर्मानमॊहा जितसङ्गदॊषा; अध्यात्मनित्या विनिवृत्तकामाः दवन्द्वैर विमुक्ताः सुखदुःखसंज्ञैर; गच्छन्त्य अमूढाः पदम अव्ययं तत ॥ 5 ॥

  6. न तद भासयते सूर्यॊ न शशाङ्कॊ न पावकः यद गत्वा न निवर्तन्ते तद धाम परमं मम ॥ 6 ॥

  7. ममैवांशॊ जीवलॊके जीवभूतः सनातनः मनःषष्ठानीन्द्रियाणि परकृतिस्थानि कर्षति ॥ 7 ॥

  8. शरीरं यद अवाप्नॊति यच चाप्य उत्क्रामतीश्वरः गृहीत्वैतानि संयाति वायुर गन्धान इवाशयात ॥ 8 ॥

  9. शरॊत्रं चक्षुः सपर्शनं च रसनं घराणम एव च अधिष्ठाय मनश चायं विषयान उपसेवते ॥ 9 ॥

  10. उत्क्रामन्तं सथितं वापि भुञ्जानं वा गुणान्वितम विमूढा नानुपश्यन्ति पश्यन्ति जञानचक्षुषः ॥ 10 ॥

  11. यतन्तॊ यॊगिनश चैनं पश्यन्त्य आत्मन्य अवस्थितम यतन्तॊ ऽपय अकृतात्मानॊ नैनं पश्यन्त्य अचेतसः ॥ 11 ॥

  12. यद आदित्यगतं तेजॊ जगद भासयते ऽखिलम यच चन्द्रमसि यच चाग्नौ तत तेजॊ विद्धि मामकम ॥ 12 ॥

  13. गाम आविश्य च भूतानि धारयाम्य अहम ओजसा पुष्णामि चौषधीः सर्वाः सॊमॊ भूत्वा रसात्मकः ॥ 13 ॥

  14. अहं वैश्वानरॊ भूत्वा पराणिनां देहम आश्रितः पराणापानसमायुक्तः पचाम्य अन्नं चतुर्विधम ॥ 14 ॥

  15. सर्वस्य चाहं हृदि संनिविष्टॊ; मत्तः समृतिर जञानम अपॊहनं च वेदैश च सर्वैर अहम एव वेद्यॊ; वेदान्तकृद वेदविद एव चाहम ॥ 15 ॥

  16. दवाव इमौ पुरुषौ लॊके कषरश चाक्षर एव च कषरः सर्वाणि भूतानि कूटस्थॊ ऽकषर उच्यते ॥ 16 ॥

  17. उत्तमः पुरुषस तव अन्यः परमात्मेत्य उदाहृतः यॊ लॊकत्रयम आविश्य बिभर्त्य अव्यय ईश्वरः ॥ 17 ॥

  18. यस्मात कषरम अतीतॊ ऽहम अक्षराद अपि चॊत्तमः अतॊ ऽसमि लॊके वेदे च परथितः पुरुषॊत्तमः ॥ 18 ॥

  19. यॊ माम एवम असंमूढॊ जानाति पुरुषॊत्तमम स सर्वविद भजति मां सर्वभावेन भारत ॥ 19 ॥

  20. इति गुह्यतमं शास्त्रम इदम उक्तं मयानघ एतद बुद्ध्वा बुद्धिमान सयात कृतकृत्यश च भारत ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 38

Previous: अध्याय 36