धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 35

  1. शरीभगवान उवाच इदं शरीरं कौन्तेय कषेत्रम इत्य अभिधीयते एतद यॊ वेत्ति तं पराहुः कषेत्रज्ञ इति तद्विदः ॥ 1 ॥

  2. कषेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत कषेत्रक्षेत्रज्ञयॊर जञानं यत तज जञानं मतं मम ॥ 2 ॥

  3. तत कषेत्रं यच च यादृक च यद्विकारि यतश च यत स च यॊ यत्प्रभावश च तत समासेन मे शृणु ॥ 3 ॥

  4. ऋषिभिर बहुधा गीतं छन्दॊभिर विविधैः पृथक बरह्मसूत्रपदैश चैव हेतुमद्भिर विनिश्चितैः ॥ 4 ॥

  5. महाभूतान्य अहंकारॊ बुद्धिर अव्यक्तम एव च इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगॊचराः ॥ 5 ॥

  6. इच्छा दवेषः सुखं दुःखं संघातश चेतना धृतिः एतत कषेत्रं समासेन सविकारम उदाहृतम ॥ 6 ॥

  7. अमानित्वम अदम्भित्वम अहिंसा कषान्तिर आर्जवम आचार्यॊपासनं शौचं सथैर्यम आत्मविनिग्रहः ॥ 7 ॥

  8. इन्द्रियार्थेषु वैराग्यम अनहंकार एव च जन्ममृत्युजराव्याधिदुःखदॊषानुदर्शनम ॥ 8 ॥

  9. असक्तिर अनभिष्वङ्गः पुत्रदारगृहादिषु नित्यं च समचित्तत्वम इष्टानिष्टॊपपत्तिषु ॥ 9 ॥

  10. मयि चानन्ययॊगेन भक्तिर अव्यभिचारिणी विविक्तदेशसेवित्वम अरतिर जनसंसदि ॥ 10 ॥

  11. अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम एतज जञानम इति परॊक्तम अज्ञानं यद अतॊ ऽनयथा ॥ 11 ॥

  12. जञेयं यत तत परवक्ष्यामि यज जञात्वामृतम अश्नुते अनादिमत परं बरह्म न सत तन नासद उच्यते ॥ 12 ॥

  13. सर्वतः पाणिपादं तत सर्वतॊ ऽकषिशिरॊमुखम सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति ॥ 13 ॥

  14. सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम असक्तं सर्वभृच चैव निर्गुणं गुणभॊक्तृ च ॥ 14 ॥

  15. बहिर अन्तश च भूतानाम अचरं चरम एव च सूक्ष्मत्वात तद अविज्ञेयं दूरस्थं चान्तिके च तत ॥ 15 ॥

  16. अविभक्तं च भूतेषु विभक्तम इव च सथितम भूतभर्तृ च तज जञेयं गरसिष्णु परभविष्णु च ॥ 16 ॥

  17. जयॊतिषाम अपि तज जयॊतिस तमसः परम उच्यते जञानं जञेयं जञानगम्यं हृदि सर्वस्य विष्ठितम ॥ 17 ॥

  18. इति कषेत्रं तथा जञानं जञेयं चॊक्तं समासतः मद्भक्त एतद विज्ञाय मद्भावायॊपपद्यते ॥ 18 ॥

  19. परकृतिं पुरुषं चैव विद्ध्य अनादी उभाव अपि विकारांश च गुणांश चैव विद्धि परकृतिसंभवान ॥ 19 ॥

  20. कार्यकारणकर्तृत्वे हेतुः परकृतिर उच्यते पुरुषः सुखदुःखानां भॊक्तृत्वे हेतुर उच्यते ॥ 20 ॥

  21. पुरुषः परकृतिस्थॊ हि भुङ्क्ते परकृतिजान गुणान कारणं गुणसङ्गॊ ऽसय सदसद्यॊनिजन्मसु ॥ 21 ॥

  22. उपद्रष्टानुमन्ता च भर्ता भॊक्ता महेश्वरः परमात्मेति चाप्य उक्तॊ देहे ऽसमिन पुरुषः परः ॥ 22 ॥

  23. य एवं वेत्ति पुरुषं परकृतिं च गुणैः सह सर्वथा वर्तमानॊ ऽपि न स भूयॊ ऽभिजायते ॥ 23 ॥

  24. धयानेनात्मनि पश्यन्ति के चिद आत्मानम आत्मना अन्ये सांख्येन यॊगेन कर्मयॊगेन चापरे ॥ 24 ॥

  25. अन्ये तव एवम अजानन्तः शरुत्वान्येभ्य उपासते ते ऽपि चातितरन्त्य एव मृत्युं शरुतिपरायणाः ॥ 25 ॥

  26. यावत संजायते किं चित सत्त्वं सथावरजङ्गमम कषेत्रक्षेत्रज्ञसंयॊगात तद विद्धि भरतर्षभ ॥ 26 ॥

  27. समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम विनश्यत्स्व अविनश्यन्तं यः पश्यति स पश्यति ॥ 27 ॥

  28. समं पश्यन हि सर्वत्र समवस्थितम ईश्वरम न हिनस्त्य आत्मनात्मानं ततॊ याति परां गतिम ॥ 28 ॥

  29. परकृत्यैव च कर्माणि करियमाणानि सर्वशः यः पश्यति तथात्मानम अकर्तारं स पश्यति ॥ 29 ॥

  30. यदा भूतपृथग्भावम एकस्थम अनुपश्यति तत एव च विस्तारं बरह्म संपद्यते तदा ॥ 30 ॥

  31. अनादित्वान निर्गुणत्वात परमात्मायम अव्ययः शरीरस्थॊ ऽपि कौन्तेय न करॊति न लिप्यते ॥ 31 ॥

  32. यथा सर्वगतं सौक्ष्म्याद आकाशं नॊपलिप्यते सर्वत्रावस्थितॊ देहे तथात्मा नॊपलिप्यते ॥ 32 ॥

  33. यथा परकाशयत्य एकः कृत्स्नं लॊकम इमं रविः कषेत्रं कषेत्री तथा कृत्स्नं परकाशयति भारत ॥ 33 ॥

  34. कषेत्रक्षेत्रज्ञयॊर एवम अन्तरं जञानचक्षुषा भूतप्रकृतिमॊक्षं च ये विदुर यान्ति ते परम ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 36

Previous: अध्याय 34