अर्जुन उवाच एवं सततयुक्ता ये भक्तास तवां पर्युपासते ये चाप्य अक्षरम अव्यक्तं तेषां के यॊगवित्तमाः ॥ 1 ॥
शरीभगवान उवाच मय्य आवेश्य मनॊ ये मां नित्ययुक्ता उपासते शरद्धया परयॊपेतास ते मे युक्ततमा मताः ॥ 2 ॥
ये तव अक्षरम अनिर्देश्यम अव्यक्तं पर्युपासते सर्वत्रगम अचिन्त्यं च कूटस्थम अचलं धरुवम ॥ 3 ॥
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ते पराप्नुवन्ति माम एव सर्वभूतहिते रताः ॥ 4 ॥
कलेशॊ ऽधिकतरस तेषाम अव्यक्तासक्तचेतसाम अव्यक्ता हि गतिर दुःखं देहवद्भिर अवाप्यते ॥ 5 ॥
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः अनन्येनैव यॊगेन मां धयायन्त उपासते ॥ 6 ॥
तेषाम अहं समुद्धर्ता मृत्युसंसारसागरात भवामि नचिरात पार्थ मय्य आवेशितचेतसाम ॥ 7 ॥
मय्य एव मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्य एव अत ऊर्ध्वं न संशयः ॥ 8 ॥
अथ चित्तं समाधातुं न शक्नॊषि मयि सथिरम अभ्यासयॊगेन ततॊ माम इच्छाप्तुं धनंजय ॥ 9 ॥
अभ्यासे ऽपय असमर्थॊ ऽसि मत्कर्मपरमॊ भव मदर्थम अपि कर्माणि कुर्वन सिद्धिम अवाप्स्यसि ॥ 10 ॥
अथैतद अप्य अशक्तॊ ऽसि कर्तुं मद्यॊगम आश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान ॥ 11 ॥
शरेयॊ हि जञानम अभ्यासाज जञानाद धयानं विशिष्यते धयानात कर्मफलत्यागस तयागाच छान्तिर अनन्तरम ॥ 12 ॥
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च निर्ममॊ निरहंकारः समदुःखसुखः कषमी ॥ 13 ॥
संतुष्टः सततं यॊगी यतात्मा दृढनिश्चयः मय्य अर्पितमनॊबुद्धिर यॊ मद्भक्तः स मे परियः ॥ 14 ॥
यस्मान नॊद्विजते लॊकॊ लॊकान नॊद्विजते च यः हर्षामर्षभयॊद्वेगैर मुक्तॊ यः स च मे परियः ॥ 15 ॥
अनपेक्षः शुचिर दक्ष उदासीनॊ गतव्यथः सर्वारम्भपरित्यागी यॊ मद्भक्तः स मे परियः ॥ 16 ॥
यॊ न हृष्यति न दवेष्टि न शॊचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान यः स मे परियः ॥ 17 ॥
समः शत्रौ च मित्रे च तथा मानापमानयॊः शीतॊष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ 18 ॥
तुल्यनिन्दास्तुतिर मौनी संतुष्टॊ येन केन चित अनिकेतः सथिरमतिर भक्तिमान मे परियॊ नरः ॥ 19 ॥
ये तु धर्म्यामृतम इदं यथॊक्तं पर्युपासते शरद्दधाना मत्परमा भक्तास ते ऽतीव मे परियाः ॥ 20 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 34
Reach this point to mark the section finished.
Continue to अध्याय 35