धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 33

  1. अर्जुन उवाच मदनुग्रहाय परमं गुह्यम अध्यात्मसंज्ञितम यत तवयॊक्तं वचस तेन मॊहॊ ऽयं विगतॊ मम ॥ 1 ॥

  2. भवाप्ययौ हि भूतानां शरुतौ विस्तरशॊ मया तवत्तः कमलपत्राक्ष माहात्म्यम अपि चाव्ययम ॥ 2 ॥

  3. एवम एतद यथात्थ तवम आत्मानं परमेश्वर दरष्टुम इच्छामि ते रूपम ऐश्वरं पुरुषॊत्तम ॥ 3 ॥

  4. मन्यसे यदि तच छक्यं मया दरष्टुम इति परभॊ यॊगेश्वर ततॊ मे तवं दर्शयात्मानम अव्ययम ॥ 4 ॥

  5. शरीभगवान उवाच पश्य मे पार्थ रूपाणि शतशॊ ऽथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ 5 ॥

  6. पश्यादित्यान वसून रुद्रान अश्विनौ मरुतस तथा बहून्य अदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ 6 ॥

  7. इहैकस्थं जगत कृत्स्नं पश्याद्य सचराचरम मम देहे गुडाकेश यच चान्यद दरष्टुम इच्छसि ॥ 7 ॥

  8. न तु मां शक्यसे दरष्टुम अनेनैव सवचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे यॊगम ऐश्वरम ॥ 8 ॥

  9. संजय उवाच एवम उक्त्वा ततॊ राजन महायॊगेश्वरॊ हरिः दर्शयाम आस पार्थाय परमं रूपम ऐश्वरम ॥ 9 ॥

  10. अनेकवक्त्रनयनम अनेकाद्भुतदर्शनम अनेकदिव्याभरणं दिव्यानेकॊद्यतायुधम ॥ 10 ॥

  11. दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम सर्वाश्चर्यमयं देवम अनन्तं विश्वतॊमुखम ॥ 11 ॥

  12. दिवि सूर्यसहस्रस्य भवेद युगपद उत्थिता यदि भाः सदृशी सा सयाद भासस तस्य महात्मनः ॥ 12 ॥

  13. तत्रैकस्थं जगत कृत्स्नं परविभक्तम अनेकधा अपश्यद देवदेवस्य शरीरे पाण्डवस तदा ॥ 13 ॥

  14. ततः स विस्मयाविष्टॊ हृष्टरॊमा धनंजयः परणम्य शिरसा देवं कृताञ्जलिर अभाषत ॥ 14 ॥

  15. अर्जुन उवाच पश्यामि देवांस तव देव देहे; सर्वांस तथा भूतविशेषसंघान बरह्माणम ईशं कमलासनस्थम; ऋषींश च सर्वान उरगांश च दिव्यान ॥ 15 ॥

  16. अनेकबाहूदरवक्त्रनेत्रं; पश्यामि तवा सर्वतॊ ऽनन्तरूपम नान्तं न मध्यं न पुनस तवादिं; पश्यामि विश्वेश्वर विश्वरूप ॥ 16 ॥

  17. किरीटिनं गदिनं चक्रिणं च; तेजॊराशिं सर्वतॊ दीप्तिमन्तम पश्यामि तवां दुर्निरीक्ष्यं समन्ताद; दीप्तानलार्कद्युतिम अप्रमेयम ॥ 17 ॥

  18. तवम अक्षरं परमं वेदितव्यं; तवम अस्य विश्वस्य परं निधानम तवम अव्ययः शाश्वतधर्मगॊप्ता; सनातनस तवं पुरुषॊ मतॊ मे ॥ 18 ॥

  19. अनादिमध्यान्तम अनन्तवीर्यम; अनन्तबाहुं शशिसूर्यनेत्रम पश्यामि तवां दीप्तहुताशवक्त्रं; सवतेजसा विश्वम इदं तपन्तम ॥ 19 ॥

  20. दयावापृथिव्यॊर इदम अन्तरं हि; वयाप्तं तवयैकेन दिशश च सर्वाः दृष्ट्वाद्भुतं रूपम इदं तवॊग्रं; लॊकत्रयं परव्यथितं महात्मन ॥ 20 ॥

  21. अमी हि तवा सुरसंघा विशन्ति; के चिद भीताः पराञ्जलयॊ गृणन्ति सवस्तीत्य उक्त्वा महर्षिसिद्धसंघाः; सतुवन्ति तवां सतुतिभिः पुष्कलाभिः ॥ 21 ॥

  22. रुद्रादित्या वसवॊ ये च साध्या; विश्वे ऽशविनौ मरुतश चॊष्मपाश च गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते तवां विस्मिताश चैव सर्वे ॥ 22 ॥

  23. रूपं महत ते बहुवक्त्रनेत्रं; महाबाहॊ बहुबाहूरुपादम बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लॊकाः परव्यथितास तथाहम ॥ 23 ॥

  24. नभःस्पृशं दीप्तम अनेकवर्णं; वयात्ताननं दीप्तविशालनेत्रम दृष्ट्वा हि तवां परव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णॊ ॥ 24 ॥

  25. दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि दिशॊ न जाने न लभे च शर्म; परसीद देवेश जगन्निवास ॥ 25 ॥

  26. अमी च तवां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः भीष्मॊ दरॊणः सूतपुत्रस तथासौ; सहास्मदीयैर अपि यॊधमुख्यैः ॥ 26 ॥

  27. वक्त्राणि ते तवरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि के चिद विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर उत्तमाङ्गैः ॥ 27 ॥

  28. यथा नदीनां बहवॊ ऽमबुवेगाः; समुद्रम एवाभिमुखा दरवन्ति तथा तवामी नरलॊकवीरा; विशन्ति वक्त्राण्य अभिविज्वलन्ति ॥ 28 ॥

  29. यथा परदीप्तं जवलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्ति लॊकास; तवापि वक्त्राणि समृद्धवेगाः ॥ 29 ॥

  30. लेलिह्यसे गरसमानः समन्ताल; लॊकान समग्रान वदनैर जवलद्भिः तेजॊभिर आपूर्य जगत समग्रं; भासस तवॊग्राः परतपन्ति विष्णॊ ॥ 30 ॥

  31. आख्याहि मे कॊ भवान उग्ररूपॊ; नमॊ ऽसतु ते देववर परसीद विज्ञातुम इच्छामि भवन्तम आद्यं; न हि परजानामि तव परवृत्तिम ॥ 31 ॥

  32. शरीभगवान उवाच कालॊ ऽसमि लॊकक्षयकृत परवृद्धॊ; लॊकान समाहर्तुम इह परवृत्तः ऋते ऽपि तवा न भविष्यन्ति सर्वे; ये ऽवस्थिताः परत्यनीकेषु यॊधाः ॥ 32 ॥

  33. तस्मात तवम उत्तिष्ठ यशॊ लभस्व; जित्वा शत्रून भुङ्क्ष्व राज्यं समृद्धम मयैवैते निहताः पूर्वम एव; निमित्तमात्रं भव सव्यसाचिन ॥ 33 ॥

  34. दरॊणं च भीष्मं च जयद्रथं च; कर्णं तथान्यान अपि यॊधवीरान मया हतांस तवं जहि मा वयथिष्ठा; युध्यस्व जेतासि रणे सपत्नान ॥ 34 ॥

  35. संजय उवाच एतच छरुत्वा वचनं केशवस्य; कृताञ्जलिर वेपमानः किरीटी नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः परणम्य ॥ 35 ॥

  36. अर्जुन उवाच सथाने हृषीकेश तव परकीर्त्या; जगत परहृष्यत्य अनुरज्यते च रक्षांसि भीतानि दिशॊ दरवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः ॥ 36 ॥

  37. कस्माच च ते न नमेरन महात्मन; गरीयसे बरह्मणॊ ऽपय आदिकर्त्रे अनन्त देवेश जगन्निवास; तवम अक्षरं सद असत तत्परं यत ॥ 37 ॥

  38. तवम आदिदेवः पुरुषः पुराणस; तवम अस्य विश्वस्य परं निधानम वेत्तासि वेद्यं च परं च धाम; तवया ततं विश्वम अनन्तरूप ॥ 38 ॥

  39. वायुर यमॊ ऽगनिर वरुणः शशाङ्कः; परजापतिस तवं परपितामहश च नमॊ नमस ते ऽसतु सहस्रकृत्वः; पुनश च भूयॊ ऽपि नमॊ नमस ते ॥ 39 ॥

  40. नमः पुरस्ताद अथ पृष्ठतस ते; नमॊ ऽसतु ते सर्वत एव सर्व अनन्तवीर्यामितविक्रमस तवं; सर्वं समाप्नॊषि ततॊ ऽसि सर्वः ॥ 40 ॥

  41. सखेति मत्वा परसभं यद उक्तं; हे कृष्ण हे यादव हे सखेति अजानता महिमानं तवेदं; मया परमादात परणयेन वापि ॥ 41 ॥

  42. यच चावहासार्थम असत्कृतॊ ऽसि; विहारशय्यासनभॊजनेषु एकॊ ऽथ वाप्य अच्युत तत्समक्षं; तत कषामये तवाम अहम अप्रमेयम ॥ 42 ॥

  43. पितासि लॊकस्य चराचरस्य; तवम अस्य पूज्यश च गुरुर गरीयान न तवत्समॊ ऽसत्य अभ्यधिकः कुतॊ ऽनयॊ; लॊकत्रये ऽपय अप्रतिमप्रभाव ॥ 43 ॥

  44. तस्मात परणम्य परणिधाय कायं; परसादये तवाम अहम ईशम ईड्यम पितेव पुत्रस्य सखेव सख्युः; परियः परियायार्हसि देव सॊढुम ॥ 44 ॥

  45. अदृष्टपूर्वं हृषितॊ ऽसमि दृष्ट्वा; भयेन च परव्यथितं मनॊ मे तद एव मे दर्शय देव रूपं; परसीद देवेश जगन्निवास ॥ 45 ॥

  46. किरीटिनं गदिनं चक्रहस्तम; इच्छामि तवां दरष्टुम अहं तथैव तेनैव रूपेण चतुर्भुजेन; सहस्रबाहॊ भव विश्वमूर्ते ॥ 46 ॥

  47. शरीभगवान उवाच मया परसन्नेन तवार्जुनेदं; रूपं परं दर्शितम आत्मयॊगात तेजॊमयं विश्वम अनन्तम; आद्यं यन मे तवदन्येन न दृष्टपूर्वम ॥ 47 ॥

  48. न वेद यज्ञाध्ययनैर न दानैर; न च करियाभिर न तपॊभिर उग्रैः एवंरूपः शक्य अहं नृलॊके; दरष्टुं तवदन्येन कुरुप्रवीर ॥ 48 ॥

  49. मा ते वयथा मा च विमूढभावॊ; दृष्ट्वा रूपं घॊरम ईदृङ ममेदम वयपेतभीः परीतमनाः पुनस तवं; तद एव मे रूपम इदं परपश्य ॥ 49 ॥

  50. संजय उवाच इत्य अर्जुनं वासुदेवस तथॊक्त्वा; सवकं रूपं दर्शयाम आस भूयः आश्वासयाम आस च भीतम एनं; भूत्वा पुनः सौम्यवपुर महात्मा ॥ 50 ॥

  51. अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन इदानीम अस्मि संवृत्तः सचेताः परकृतिं गतः ॥ 51 ॥

  52. शरीभगवान उवाच सुदुर्दर्शम इदं रूपं दृष्टवान असि यन मम देवा अप्य अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ 52 ॥

  53. नाहं वेदैर न तपसा न दानेन न चेज्यया शक्य एवंविधॊ दरष्टुं दृष्टवान असि मां यथा ॥ 53 ॥

  54. भक्त्या तव अनन्यया शक्य अहम एवंविधॊ ऽरजुन जञातुं दरष्टुं च तत्त्वेन परवेष्टुं च परंतप ॥ 54 ॥

  55. मत्कर्मकृन मत्परमॊ मद्भक्तः सङ्गवर्जितः निर्वैरः सर्वभूतेषु यः स माम एति पाण्डव ॥ 55 ॥

Reach this point to mark the section finished.

Continue to अध्याय 34

Previous: अध्याय 32