धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 32

  1. शरीभगवान उवाच भूय एव महाबाहॊ शृणु मे परमं वचः यत ते ऽहं परीयमाणाय वक्ष्यामि हितकाम्यया ॥ 1 ॥

  2. न मे विदुः सुरगणाः परभवं न महर्षयः अहम आदिर हि देवानां महर्षीणां च सर्वशः ॥ 2 ॥

  3. यॊ माम अजम अनादिं च वेत्ति लॊकमहेश्वरम असंमूढः स मर्त्येषु सर्वपापैः परमुच्यते ॥ 3 ॥

  4. बुद्धिर जञानम असंमॊहः कषमा सत्यं दमः शमः सुखं दुःखं भवॊ ऽभावॊ भयं चाभयम एव च ॥ 4 ॥

  5. अहिंसा समता तुष्टिस तपॊ दानं यशॊ ऽयशः भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ 5 ॥

  6. महर्षयः सप्त पूर्वे चत्वारॊ मनवस तथा मद्भावा मानसा जाता येषां लॊक इमाः परजाः ॥ 6 ॥

  7. एतां विभूतिं यॊगं च मम यॊ वेत्ति तत्त्वतः सॊ ऽविकम्पेन यॊगेन युज्यते नात्र संशयः ॥ 7 ॥

  8. अहं सर्वस्य परभवॊ मत्तः सर्वं परवर्तते इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ 8 ॥

  9. मच्चित्ता मद्गतप्राणा बॊधयन्तः परस्परम कथयन्तश च मां नित्यं तुष्यन्ति च रमन्ति च ॥ 9 ॥

  10. तेषां सततयुक्तानां भजतां परीतिपूर्वकम ददामि बुद्धियॊगं तं येन माम उपयान्ति ते ॥ 10 ॥

  11. तेषाम एवानुकम्पार्थम अहम अज्ञानजं तमः नाशयाम्य आत्मभावस्थॊ जञानदीपेन भास्वता ॥ 11 ॥

  12. अर्जुन उवाच परं बरह्म परं धाम पवित्रं परमं भवान पुरुषं शाश्वतं दिव्यम आदिदेवम अजं विभुम ॥ 12 ॥

  13. आहुस तवाम ऋषयः सर्वे देवर्षिर नारदस तथा असितॊ देवलॊ वयासः सवयं चैव बरवीषि मे ॥ 13 ॥

  14. सर्वम एतद ऋतं मन्ये यन मां वदसि केशव न हि ते भगवन वयक्तिं विदुर देवा न दानवाः ॥ 14 ॥

  15. सवयम एवात्मनात्मानं वेत्थ तवं पुरुषॊत्तम भूतभावन भूतेश देवदेव जगत्पते ॥ 15 ॥

  16. वक्तुम अर्हस्य अशेषेण दिव्या हय आत्मविभूतयः याभिर विभूतिभिर लॊकान इमांस तवं वयाप्य तिष्ठसि ॥ 16 ॥

  17. कथं विद्याम अहं यॊगिंस तवां सदा परिचिन्तयन केषु केषु च भावेषु चिन्त्यॊ ऽसि भगवन मया ॥ 17 ॥

  18. विस्तरेणात्मनॊ यॊगं विभूतिं च जनार्दन भूयः कथय तृप्तिर हि शृण्वतॊ नास्ति मे ऽमृतम ॥ 18 ॥

  19. शरीभगवान उवाच हन्त ते कथयिष्यामि दिव्या हय आत्मविभूतयः पराधान्यतः कुरुश्रेष्ठ नास्त्य अन्तॊ विस्तरस्य मे ॥ 19 ॥

  20. अहम आत्मा गुडाकेश सर्वभूताशयस्थितः अहम आदिश च मध्यं च भूतानाम अन्त एव च ॥ 20 ॥

  21. आदित्यानाम अहं विष्णुर जयॊतिषां रविर अंशुमान मरीचिर मरुताम अस्मि नक्षत्राणाम अहं शशी ॥ 21 ॥

  22. वेदानां सामवेदॊ ऽसमि देवानाम अस्मि वासवः इन्द्रियाणां मनश चास्मि भूतानाम अस्मि चेतना ॥ 22 ॥

  23. रुद्राणां शंकरश चास्मि वित्तेशॊ यक्षरक्षसाम वसूनां पावकश चास्मि मेरुः शिखरिणाम अहम ॥ 23 ॥

  24. पुरॊधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम सेनानीनाम अहं सकन्दः सरसाम अस्मि सागरः ॥ 24 ॥

  25. महर्षीणां भृगुर अहं गिराम अस्म्य एकम अक्षरम यज्ञानां जपयज्ञॊ ऽसमि सथावराणां हिमालयः ॥ 25 ॥

  26. अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलॊ मुनिः ॥ 26 ॥

  27. उच्चैःश्रवसम अश्वानां विद्धि माम अमृतॊद्भवम ऐरावतं गजेन्द्राणां नराणां च नराधिपम ॥ 27 ॥

  28. आयुधानाम अहं वज्रं धेनूनाम अस्मि कामधुक परजनश चास्मि कन्दर्पः सर्पाणाम अस्मि वासुकिः ॥ 28 ॥

  29. अनन्तश चास्मि नागानां वरुणॊ यादसाम अहम पितॄणाम अर्यमा चास्मि यमः संयमताम अहम ॥ 29 ॥

  30. परह्लादश चास्मि दैत्यानां कालः कलयताम अहम मृगाणां च मृगेन्द्रॊ ऽहं वैनतेयश च पक्षिणाम ॥ 30 ॥

  31. पवनः पवताम अस्मि रामः शस्त्रभृताम अहम झषाणां मकरश चास्मि सरॊतसाम अस्मि जाह्नवी ॥ 31 ॥

  32. सर्गाणाम आदिर अन्तश च मध्यं चैवाहम अर्जुन अध्यात्मविद्या विद्यानां वादः परवदताम अहम ॥ 32 ॥

  33. अक्षराणाम अकारॊ ऽसमि दवन्द्वः सामासिकस्य च अहम एवाक्षयः कालॊ धाताहं विश्वतॊमुखः ॥ 33 ॥

  34. मृत्युः सर्वहरश चाहम उद्भवश च भविष्यताम कीर्तिः शरीर वाक च नारीणां समृतिर मेधा धृतिः कषमा ॥ 34 ॥

  35. बृहत्साम तथा साम्नां गायत्री छन्दसाम अहम मासानां मार्गशीर्षॊ ऽहम ऋतूनां कुसुमाकरः ॥ 35 ॥

  36. दयूतं छलयताम अस्मि तेजस तेजस्विनाम अहम जयॊ ऽसमि वयवसायॊ ऽसमि सत्त्वं सत्त्ववताम अहम ॥ 36 ॥

  37. वृष्णीनां वासुदेवॊ ऽसमि पाण्डवानां धनंजयः मुनीनाम अप्य अहं वयासः कवीनाम उशना कविः ॥ 37 ॥

  38. दण्डॊ दमयताम अस्मि नीतिर अस्मि जिगीषताम मौनं चैवास्मि गुह्यानां जञानं जञानवताम अहम ॥ 38 ॥

  39. यच चापि सर्वभूतानां बीजं तद अहम अर्जुन न तद अस्ति विना यत सयान मया भूतं चराचरम ॥ 39 ॥

  40. नान्तॊ ऽसति मम दिव्यानां विभूतीनां परंतप एष तूद्देशतः परॊक्तॊ विभूतेर विस्तरॊ मया ॥ 40 ॥

  41. यद यद विभूतिमत सत्त्वं शरीमद ऊर्जितम एव वा तत तद एवावगच्छ तवं मम तेजॊ ऽंशसंभवम ॥ 41 ॥

  42. अथ वा बहुनैतेन किं जञातेन तवार्जुन विष्टभ्याहम इदं कृत्स्नम एकांशेन सथितॊ जगत ॥ 42 ॥

Reach this point to mark the section finished.

Continue to अध्याय 33

Previous: अध्याय 31