धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 31

  1. शरीभगवान उवाच इदं तु ते गुह्यतमं परवक्ष्याम्य अनसूयवे जञानं विज्ञानसहितं यज जञात्वा मॊक्ष्यसे ऽशुभात ॥ 1 ॥

  2. राजविद्या राजगुह्यं पवित्रम इदम उत्तमम परत्यक्षावगमं धर्म्यं सुसुखं कर्तुम अव्ययम ॥ 2 ॥

  3. अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ 3 ॥

  4. मया ततम इदं सर्वं जगद अव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहं तेष्व अवस्थितः ॥ 4 ॥

  5. न च मत्स्थानि भूतानि पश्य मे यॊगम ऐश्वरम भूतभृन न च भूतस्थॊ ममात्मा भूतभावनः ॥ 5 ॥

  6. यथाकाशस्थितॊ नित्यं वायुः सर्वत्रगॊ महान तथा सर्वाणि भूतानि मत्स्थानीत्य उपधारय ॥ 6 ॥

  7. सर्वभूतानि कौन्तेय परकृतिं यान्ति मामिकाम कल्पक्षये पुनस तानि कल्पादौ विसृजाम्य अहम ॥ 7 ॥

  8. परकृतिं सवाम अवष्टभ्य विसृजामि पुनः पुनः भूतग्रामम इमं कृत्स्नम अवशं परकृतेर वशात ॥ 8 ॥

  9. न च मां तानि कर्माणि निबध्नन्ति धनंजय उदासीनवद आसीनम असक्तं तेषु कर्मसु ॥ 9 ॥

  10. मयाध्यक्षेण परकृतिः सूयते सचराचरम हेतुनानेन कौन्तेय जगद विपरिवर्तते ॥ 10 ॥

  11. अवजानन्ति मां मूढा मानुषीं तनुम आश्रितम परं भावम अजानन्तॊ मम भूतमहेश्वरम ॥ 11 ॥

  12. मॊघाशा मॊघकर्माणॊ मॊघज्ञाना विचेतसः राक्षसीम आसुरीं चैव परकृतिं मॊहिनीं शरिताः ॥ 12 ॥

  13. महात्मानस तु मां पार्थ दैवीं परकृतिम आश्रिताः भजन्त्य अनन्यमनसॊ जञात्वा भूतादिम अव्ययम ॥ 13 ॥

  14. सततं कीर्तयन्तॊ मां यतन्तश च दृढव्रताः नमस्यन्तश च मां भक्त्या नित्ययुक्ता उपासते ॥ 14 ॥

  15. जञानयज्ञेन चाप्य अन्ये यजन्तॊ माम उपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतॊमुखम ॥ 15 ॥

  16. अहं करतुर अहं यज्ञः सवधाहम अहम औषधम मन्त्रॊ ऽहम अहम एवाज्यम अहम अग्निर अहं हुतम ॥ 16 ॥

  17. पिताहम अस्य जगतॊ माता धाता पितामहः वेद्यं पवित्रम ओंकार ऋक साम यजुर एव च ॥ 17 ॥

  18. गतिर भर्ता परभुः साक्षी निवासः शरणं सुहृत परभवः परलयः सथानं निधानं बीजम अव्ययम ॥ 18 ॥

  19. तपाम्य अहम अहं वर्षं निगृह्णाम्य उत्सृजामि च अमृतं चैव मृत्युश च सद असच चाहम अर्जुन ॥ 19 ॥

  20. तरैविद्या मां सॊमपाः पूतपापा; यज्ञैर इष्ट्वा सवर्गतिं परार्थयन्ते ते पुण्यम आसाद्य सुरेन्द्रलॊकम; अश्नन्ति दिव्यान दिवि देवभॊगान ॥ 20 ॥

  21. ते तं भुक्त्वा सवर्गलॊकं विशालं; कषीणे पुण्ये मर्त्यलॊकं विशन्ति एवं तरयीधर्मम अनुप्रपन्ना; गतागतं कामकामा लभन्ते ॥ 21 ॥

  22. अनन्याश चिन्तयन्तॊ मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां यॊगक्षेमं वहाम्य अहम ॥ 22 ॥

  23. ये ऽपय अन्यदेवताभक्ता यजन्ते शरद्धयान्विताः ते ऽपि माम एव कौन्तेय यजन्त्य अविधिपूर्वकम ॥ 23 ॥

  24. अहं हि सर्वयज्ञानां भॊक्ता च परभुर एव च न तु माम अभिजानन्ति तत्त्वेनातश चयवन्ति ते ॥ 24 ॥

  25. यान्ति देवव्रता देवान पितॄन यान्ति पितृव्रताः भूतानि यान्ति भूतेज्या यान्ति मद्याजिनॊ ऽपि माम ॥ 25 ॥

  26. पत्रं पुष्पं फलं तॊयं यॊ मे भक्त्या परयच्छति तद अहं भक्त्युपहृतम अश्नामि परयतात्मनः ॥ 26 ॥

  27. यत करॊषि यद अश्नासि यज जुहॊषि ददासि यत यत तपस्यसि कौन्तेय तत कुरुष्व मदर्पणम ॥ 27 ॥

  28. शुभाशुभफलैर एवं मॊक्ष्यसे कर्मबन्धनैः संन्यासयॊगयुक्तात्मा विमुक्तॊ माम उपैष्यसि ॥ 28 ॥

  29. समॊ ऽहं सर्वभूतेषु न मे दवेष्यॊ ऽसति न परियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य अहम ॥ 29 ॥

  30. अपि चेत सुदुराचारॊ भजते माम अनन्यभाक साधुर एव स मन्तव्यः सम्यग वयवसितॊ हि सः ॥ 30 ॥

  31. कषिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेय परतिजानीहि न मे भक्तः परणश्यति ॥ 31 ॥

  32. मां हि पार्थ वयपाश्रित्य ये ऽपि सयुः पापयॊनयः सत्रियॊ वैश्यास तथा शूद्रास ते ऽपि यान्ति परां गतिम ॥ 32 ॥

  33. किं पुनर बराह्मणाः पुण्या भक्ता राजर्षयस तथा अनित्यम असुखं लॊकम इमं पराप्य भजस्व माम ॥ 33 ॥

  34. मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु माम एवैष्यसि युक्त्वैवम आत्मानं मत्परायणः ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 32

Previous: अध्याय 30