धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 2

  1. [व] ततः पूर्वापरे संध्ये समीक्ष्य भगवान ऋषिः सर्ववेद विदां शरेष्ठॊ वयासः सत्यवती सुतः ॥ 1 ॥

  2. भविष्यति रणे घॊरे भरतानां पितामह परत्यक्षदर्शी भगवान भूतभव्य भविष्यवित ॥ 2 ॥

  3. वैचित्रवीर्यं राजानं स रहस्यं बरवीद इदम शॊचन्तम आर्तं धयायन्तं पुत्राणाम अनयं तदा ॥ 3 ॥

  4. [वय] राजन परीतकालास ते पुत्राश चान्ये च भूमिपाः ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम ॥ 4 ॥

  5. तेषु कालपरीतेषु विनश्यत्सु च भारत कालपर्यायम आज्ञाय मा सम शॊके मनः कृथाः ॥ 5 ॥

  6. यदि तव इच्छसि संग्रामे दरष्टुम एनं विशां पते चक्षुर ददानि ते हन्त युद्धम एतन निशामय ॥ 6 ॥

  7. [धृ] न रॊचये जञातिवधं दरष्टुं बरह्मर्षिसत्तम युद्धम एतत तव अशेषेण शृणुयां तव तेजसा ॥ 7 ॥

  8. [व] तस्मिन्न अनिच्छति दरष्टुं संग्रामं शरॊतुम इच्छति वराणाम ईश्वरॊ दाता संजयाय वरं ददौ ॥ 8 ॥

  9. एष ते संजयॊ राजन युद्धम एतद वदिष्यति एतस्य सर्वं संग्रामे न परॊक्षं भविष्यति ॥ 9 ॥

  10. चक्षुषा संजयॊ राजन दिव्येनैष समन्वितः कथयिष्यति ते युद्धं सर्वज्ञश च भविष्यति ॥ 10 ॥

  11. परकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा मनसा चिन्तितम अपि सर्वं वेत्स्यति संजयः ॥ 11 ॥

  12. नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते शरमः गावल्गणिर अयं जीवन युद्धाद अस्माद विमॊक्ष्यते ॥ 12 ॥

  13. अहं च कीर्तिम एतेषां कुरूणां भरतर्षभ पाण्डवानां च सर्वेषां परथयिष्यामि मां शुचः ॥ 13 ॥

  14. दिष्टम एतत पुरा चैव नात्र शॊचितुम अर्हसि न चैव शक्यं संयन्तुं यतॊ धर्मस ततॊ जयः ॥ 14 ॥

  15. [व] एवम उक्त्वा स भगवान कुरूणां परपितामहः पुनर एव महाबाहुं धृतराष्ट्रम उवाच ह ॥ 15 ॥

  16. इह युद्धे महाराज भविष्यति महान कषयः यथेमानि निमित्तानि भयायाद्यॊपलक्षये ॥ 16 ॥

  17. शयेना गृध्राश च काकाश च कङ्काश च सहिता बलैः संपतन्ति वनान्तेषु समवायांश च कुर्वते ॥ 17 ॥

  18. अत्युग्रं च परपश्यन्ति युद्धम आनन्दिनॊ दविजाः करव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम ॥ 18 ॥

  19. खटा खटेति वाशन्तॊ भैरवं भयवेदिनः कह्वाः परयान्ति मध्येन दक्षिणाम अभितॊ दिशम ॥ 19 ॥

  20. उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत उदयास्तमने सूर्यं कबन्धैः परिवारितम ॥ 20 ॥

  21. शवेतलॊहित पर्यन्ताः कृष्ण गरीवाः स विद्युतः तरिवर्णाः परिघाः संधौ भानुम आवारयन्त्य उत ॥ 21 ॥

  22. जवलितार्केन्दु नक्षत्रं निर्विशेष दिनक्षपम अहॊरात्रं मया दृष्टं तत कषयाय भविष्यति ॥ 22 ॥

  23. अलक्ष्यः परभया हीनः पौर्णमासीं च कार्त्तिकीम चन्द्रॊ ऽभूद अग्निवर्णश च समवर्णे नभस्तले ॥ 23 ॥

  24. सवप्स्यन्ति निहता वीरा भूमिम आवृत्य पार्थिवाः राजानॊ राजपुत्राश च शूराः परिघबाहवः ॥ 24 ॥

  25. अन्तरिक्षे वराहस्य वृषदंशस्य चॊभयॊः परणादं युध्यतॊ रात्रौ रौद्रं नित्यं परलक्षये ॥ 25 ॥

  26. देवता परतिमाश चापि कम्पन्ति च हसन्ति च वमन्ति रुधिरं चास्यैः सविद्यन्ति परपतन्ति च ॥ 26 ॥

  27. अनाहता दुन्दुभयः परणदन्ति विशां पते अयुक्ताश च परवर्तन्ते कषत्रियाणां महारथाः ॥ 27 ॥

  28. कॊकिलाः शतपत्राश च चाषा भासाः शुकास तथा सारसाश च मयूराश च वाचॊ मुञ्चन्ति दारुणाः ॥ 28 ॥

  29. गृहीतशस्त्राभरणा वर्मिणॊ वाजिपृष्ठगाः अरुणॊदयेषु दृश्यन्ते शतशः शलभ वरजाः ॥ 29 ॥

  30. उभे संध्ये परकाशेते दिशां दाहसमन्विते आसीद रुधिरवर्षं च अस्थि वर्षं च भारत ॥ 30 ॥

  31. या चैषा विश्रुता राजंस तरैलॊक्ये साधु संमता अरुन्धती तयाप्य एष वसिष्ठः पृष्ठतः कृतः ॥ 31 ॥

  32. रॊहिणीं पीडयन्न एष सथितॊ राजञ शनैश्चरः वयावृत्तं लक्ष्म सॊमस्य भविष्यति महद भयम ॥ 32 ॥

  33. अनभ्रे च महाघॊरं सतनितं शरूयते ऽनिशम वाहनानां च रुदतां परपतन्त्य अश्रुबिन्दवः ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 3

Previous: अध्याय 1