शरीभगवान उवाच मय्य आसक्तमनाः पार्थ यॊगं युञ्जन मदाश्रयः असंशयं समग्रं मां यथा जञास्यसि तच छृणु ॥ 1 ॥
जञानं ते ऽहं सविज्ञानम इदं वक्ष्याम्य अशेषतः यज जञात्वा नेह भूयॊ ऽनयज जञातव्यम अवशिष्यते ॥ 2 ॥
मनुष्याणां सहस्रेषु कश चिद यतति सिद्धये यतताम अपि सिद्धानां कश चिन मां वेत्ति तत्त्वतः ॥ 3 ॥
भूमिर आपॊ ऽनलॊ वायुः खं मनॊ बुद्धिर एव च अहंकार इतीयं मे भिन्ना परकृतिर अष्टधा ॥ 4 ॥
अपरेयम इतस तव अन्यां परकृतिं विद्धि मे पराम जीवभूतां महाबाहॊ ययेदं धार्यते जगत ॥ 5 ॥
एतद्यॊनीनि भूतानि सर्वाणीत्य उपधारय अहं कृत्स्नस्य जगतः परभवः परलयस तथा ॥ 6 ॥
मत्तः परतरं नान्यत किं चिद अस्ति धनंजय मयि सर्वम इदं परॊतं सूत्रे मणिगणा इव ॥ 7 ॥
रसॊ ऽहम अप्सु कौन्तेय परभास्मि शशिसूर्ययॊः परणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ 8 ॥
पुण्यॊ गन्धः पृथिव्यां च तेजश चास्मि विभावसौ जीवनं सर्वभूतेषु तपश चास्मि तपस्विषु ॥ 9 ॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम बुद्धिर बुद्धिमताम अस्मि तेजस तेजस्विनाम अहम ॥ 10 ॥
बलं बलवतां चाहं कामरागविवर्जितम धर्माविरुद्धॊ भूतेषु कामॊ ऽसमि भरतर्षभ ॥ 11 ॥
ये चैव सात्त्विका भावा राजसास तामसाश च ये मत्त एवेति तान विद्धि न तव अहं तेषु ते मयि ॥ 12 ॥
तरिभिर गुणमयैर भावैर एभिः सर्वम इदं जगत मॊहितं नाभिजानाति माम एभ्यः परम अव्ययम ॥ 13 ॥
दैवी हय एषा गुणमयी मम माया दुरत्यया माम एव ये परपद्यन्ते मायाम एतां तरन्ति ते ॥ 14 ॥
न मां दुष्कृतिनॊ मूढाः परपद्यन्ते नराधमाः माययापहृतज्ञाना आसुरं भावम आश्रिताः ॥ 15 ॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनॊ ऽरजुन आर्तॊ जिज्ञासुर अर्थार्थी जञानी च भरतर्षभ ॥ 16 ॥
तेषां जञानी नित्ययुक्त एकभक्तिर विशिष्यते परियॊ हि जञानिनॊ ऽतयर्थम अहं स च मम परियः ॥ 17 ॥
उदाराः सर्व एवैते जञानी तव आत्मैव मे मतम आस्थितः स हि युक्तात्मा माम एवानुत्तमां गतिम ॥ 18 ॥
बहूनां जन्मनाम अन्ते जञानवान मां परपद्यते वासुदेवः सर्वम इति स महात्मा सुदुर्लभः ॥ 19 ॥
कामैस तैस तैर हृतज्ञानाः परपद्यन्ते ऽनयदेवताः तं तं नियमम आस्थाय परकृत्या नियताः सवया ॥ 20 ॥
यॊ यॊ यां यां तनुं भक्तः शरद्धयार्चितुम इच्छति तस्य तस्याचलां शरद्धां ताम एव विदधाम्य अहम ॥ 21 ॥
स तया शरद्धया युक्तस तस्या राधनम ईहते लभते च ततः कामान मयैव विहितान हि तान ॥ 22 ॥
अन्तवत तु फलं तेषां तद भवत्य अल्पमेधसाम देवान देवयजॊ यान्ति मद्भक्ता यान्ति माम अपि ॥ 23 ॥
अव्यक्तं वयक्तिम आपन्नं मन्यन्ते माम अबुद्धयः परं भावम अजानन्तॊ ममाव्ययम अनुत्तमम ॥ 24 ॥
नाहं परकाशः सर्वस्य यॊगमायासमावृतः मूढॊ ऽयं नाभिजानाति लॊकॊ माम अजम अव्ययम ॥ 25 ॥
वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां तु वेद न कश चन ॥ 26 ॥
इच्छाद्वेषसमुत्थेन दवन्द्वमॊहेन भारत सर्वभूतानि संमॊहं सर्गे यान्ति परंतप ॥ 27 ॥
येषां तव अन्तगतं पापं जनानां पुण्यकर्मणाम ते दवन्द्वमॊहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ 28 ॥
जरामरणमॊक्षाय माम आश्रित्य यतन्ति ये ते बरह्म तद विदुः कृत्स्नम अध्यात्मं कर्म चाखिलम ॥ 29 ॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः परयाणकाले ऽपि च मां ते विदुर युक्तचेतसः ॥ 30 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 29
Reach this point to mark the section finished.
Continue to अध्याय 30