शरीभगवान उवाच अनाश्रितः कर्मफलं कार्यं कर्म करॊति यः स संन्यासी च यॊगी च न निरग्निर न चाक्रियः ॥ 1 ॥
यं संन्यासम इति पराहुर यॊगं तं विद्धि पाण्डव न हय असंन्यस्तसंकल्पॊ यॊगी भवति कश चन ॥ 2 ॥
आरुरुक्षॊर मुनेर यॊगं कर्म कारणम उच्यते यॊगारूढस्य तस्यैव शमः कारणम उच्यते ॥ 3 ॥
यदा हि नेन्द्रियार्थेषु न कर्मस्व अनुषज्जते सर्वसंकल्पसंन्यासी यॊगारूढस तदॊच्यते ॥ 4 ॥
उद्धरेद आत्मनात्मानं नात्मानम अवसादयेत आत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः ॥ 5 ॥
बन्धुर आत्मात्मनस तस्य येनात्मैवात्मना जितः अनात्मनस तु शत्रुत्वे वर्तेतात्मैव शत्रुवत ॥ 6 ॥
जितात्मनः परशान्तस्य परमात्मा समाहितः शीतॊष्णसुखदुःखेषु तथा मानापमानयॊः ॥ 7 ॥
जञानविज्ञानतृप्तात्मा कूटस्थॊ विजितेन्द्रियः युक्त इत्य उच्यते यॊगी समलॊष्टाश्मकाञ्चनः ॥ 8 ॥
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुष्व अपि च पापेषु समबुद्धिर विशिष्यते ॥ 9 ॥
यॊगी युञ्जीत सततम आत्मानं रहसि सथितः एकाकी यतचित्तात्मा निराशीर अपरिग्रहः ॥ 10 ॥
शुचौ देशे परतिष्ठाप्य सथिरम आसनम आत्मनः नात्युच्छ्रितं नातिनीचं चैलाजिनकुशॊत्तरम ॥ 11 ॥
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्यासने युञ्ज्याद यॊगम आत्मविशुद्धये ॥ 12 ॥
समं कायशिरॊग्रीवं धारयन्न अचलं सथिरः संप्रेक्ष्य नासिकाग्रं सवं दिशश चानवलॊकयन ॥ 13 ॥
परशान्तात्मा विगतभीर बरह्मचारिव्रते सथितः मनः संयम्य मच्चित्तॊ युक्त आसीत मत्परः ॥ 14 ॥
युञ्जन्न एवं सदात्मानं यॊगी नियतमानसः शान्तिं निर्वाणपरमां मत्संस्थाम अधिगच्छति ॥ 15 ॥
नात्यश्नतस तु यॊगॊ ऽसति न चैकान्तम अनश्नतः न चातिस्वप्नशीलस्य जाग्रतॊ नैव चार्जुन ॥ 16 ॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबॊधस्य यॊगॊ भवति दुःखहा ॥ 17 ॥
यदा विनियतं चित्तम आत्मन्य एवावतिष्ठते निःस्पृहः सर्वकामेभ्यॊ युक्त इत्य उच्यते तदा ॥ 18 ॥
यथा दीपॊ निवातस्थॊ नेङ्गते सॊपमा समृता यॊगिनॊ यतचित्तस्य युञ्जतॊ यॊगम आत्मनः ॥ 19 ॥
यत्रॊपरमते चित्तं निरुद्धं यॊगसेवया यत्र चैवात्मनात्मानं पश्यन्न आत्मनि तुष्यति ॥ 20 ॥
सुखम आत्यन्तिकं यत तद बुद्धिग्राह्यम अतीन्द्रियम वेत्ति यत्र न चैवायं सथितश चलति तत्त्वतः ॥ 21 ॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः यस्मिन सथितॊ न दुःखेन गुरुणापि विचाल्यते ॥ 22 ॥
तं विद्याद दुःखसंयॊगवियॊगं यॊगसंज्ञितम स निश्चयेन यॊक्तव्यॊ यॊगॊ ऽनिर्विण्णचेतसा ॥ 23 ॥
संकल्पप्रभवान कामांस तयक्त्वा सर्वान अशेषतः मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 24 ॥
शनैः शनैर उपरमेद बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किं चिद अपि चिन्तयेत ॥ 25 ॥
यतॊ यतॊ निश्चरति मनश चञ्चलम अस्थिरम ततस ततॊ नियम्यैतद आत्मन्य एव वशं नयेत ॥ 26 ॥
परशान्तमनसं हय एनं यॊगिनं सुखम उत्तमम उपैति शान्तरजसं बरह्मभूतम अकल्मषम ॥ 27 ॥
युञ्जन्न एवं सदात्मानं यॊगी विगतकल्मषः सुखेन बरह्मसंस्पर्शम अत्यन्तं सुखम अश्नुते ॥ 28 ॥
सर्वभूतस्थम आत्मानं सर्वभूतानि चात्मनि ईक्षते यॊगयुक्तात्मा सर्वत्र समदर्शनः ॥ 29 ॥
यॊ मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न परणश्यामि स च मे न परणश्यति ॥ 30 ॥
सर्वभूतस्थितं यॊ मां भजत्य एकत्वम आस्थितः सर्वथा वर्तमानॊ ऽपि स यॊगी मयि वर्तते ॥ 31 ॥
आत्मौपम्येन सर्वत्र समं पश्यति यॊ ऽरजुन सुखं वा यदि वा दुःखं स यॊगी परमॊ मतः ॥ 32 ॥
अर्जुन उवाच यॊ ऽयं यॊगस तवया परॊक्तः साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वात सथितिं सथिराम ॥ 33 ॥
चञ्चलं हि मनः कृष्ण परमाथि बलवद दृढम तस्याहं निग्रहं मन्ये वायॊर इव सुदुष्करम ॥ 34 ॥
शरीभगवान उवाच असंशयं महाबाहॊ मनॊ दुर्णिग्रहं चलम अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 35 ॥
असंयतात्मना यॊगॊ दुष्प्राप इति मे मतिः वश्यात्मना तु यतता शक्यॊ ऽवाप्तुम उपायतः ॥ 36 ॥
अर्जुन उवाच अयतिः शरद्धयॊपेतॊ यॊगाच चलितमानसः अप्राप्य यॊगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ 37 ॥
कच चिन नॊभयविभ्रष्टश छिन्नाभ्रम इव नश्यति अप्रतिष्ठॊ महाबाहॊ विमूढॊ बरह्मणः पथि ॥ 38 ॥
एतन मे संशयं कृष्ण छेत्तुम अर्हस्य अशेषतः तवदन्यः संशयस्यास्य छेत्ता न हय उपपद्यते ॥ 39 ॥
शरीभगवान उवाच पार्थ नैवेह नामुत्र विनाशस तस्य विद्यते न हि कल्याणकृत कश चिद दुर्गतिं तात गच्छति ॥ 40 ॥
पराप्य पुण्यकृतां लॊकान उषित्वा शाश्वतीः समाः शुचीनां शरीमतां गेहे यॊगभ्रष्टॊ ऽभिजायते ॥ 41 ॥
अथ वा यॊगिनाम एव कुले भवति धीमताम एतद धि दुर्लभतरं लॊके जन्म यद ईदृशम ॥ 42 ॥
तत्र तं बुद्धिसंयॊगं लभते पौर्वदेहिकम यतते च ततॊ भूयः संसिद्धौ कुरुनन्दन ॥ 43 ॥
पूर्वाभ्यासेन तेनैव हरियते हय अवशॊ ऽपि सः जिज्ञासुर अपि यॊगस्य शब्दब्रह्मातिवर्तते ॥ 44 ॥
परयत्नाद यतमानस तु यॊगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्धस ततॊ याति परां गतिम ॥ 45 ॥
तपस्विभ्यॊ ऽधिकॊ यॊगी जञानिभ्यॊ ऽपि मतॊ ऽधिकः कर्मिभ्यश चाधिकॊ यॊगी तस्माद यॊगी भवार्जुन ॥ 46 ॥
यॊगिनाम अपि सर्वेषां मद्गतेनान्तरात्मना शरद्धावान भजते यॊ मां स मे युक्ततमॊ मतः ॥ 47 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 28
Reach this point to mark the section finished.
Continue to अध्याय 29