धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 27

  1. अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर यॊगं च शंससि यच छरेय एतयॊर एकं तन मे बरूहि सुनिश्चितम ॥ 1 ॥

  2. शरीभगवान उवाच संन्यासः कर्मयॊगश च निःश्रेयसकराव उभौ तयॊस तु कर्मसंन्यासात कर्मयॊगॊ विशिष्यते ॥ 2 ॥

  3. जञेयः स नित्यसंन्यासी यॊ न दवेष्टि न काङ्क्षति निर्द्वन्द्वॊ हि महाबाहॊ सुखं बन्धात परमुच्यते ॥ 3 ॥

  4. सांख्ययॊगौ पृथग बालाः परवदन्ति न पण्डिताः एकम अप्य आस्थितः सम्यग उभयॊर विन्दते फलम ॥ 4 ॥

  5. यत सांख्यैः पराप्यते सथानं तद यॊगैर अपि गम्यते एकं सांख्यं च यॊगं च यः पश्यति स पश्यति ॥ 5 ॥

  6. सुहृदं सर्वभूतानां जञात्वा मां शान्तिम ऋच्छति ॥ 5 ॥

  7. संन्यासस तु महाबाहॊ दुःखम आप्तुम अयॊगतः यॊगयुक्तॊ मुनिर बरह्म नचिरेणाधिगच्छति ॥ 6 ॥

  8. यॊगयुक्तॊ विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्न अपि न लिप्यते ॥ 7 ॥

  9. नैव किं चित करॊमीति युक्तॊ मन्येत तत्त्ववित पश्यञ शृण्वन सपृशञ जिघ्रन्न अश्नन गच्छन सवपञ शवसन ॥ 8 ॥

  10. परलपन विसृजन गृह्णन्न उन्मिषन निमिषन्न अपि इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन ॥ 9 ॥

  11. बरह्मण्य आधाय कर्माणि सङ्गं तयक्त्वा करॊति यः लिप्यते न स पापेन पद्मपत्रम इवाम्भसा ॥ 10 ॥

  12. कायेन मनसा बुद्ध्या केवलैर इन्द्रियैर अपि यॊगिनः कर्म कुर्वन्ति सङ्गं तयक्त्वात्मशुद्धये ॥ 11 ॥

  13. युक्तः कर्मफलं तयक्त्वा शान्तिम आप्नॊति नैष्ठिकीम अयुक्तः कामकारेण फले सक्तॊ निबध्यते ॥ 12 ॥

  14. सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी नवद्वारे पुरे देही नैव कुर्वन न कारयन ॥ 13 ॥

  15. न कर्तृत्वं न कर्माणि लॊकस्य सृजति परभुः न कर्मफलसंयॊगं सवभावस तु परवर्तते ॥ 14 ॥

  16. नादत्ते कस्य चित पापं न चैव सुकृतं विभुः अज्ञानेनावृतं जञानं तेन मुह्यन्ति जन्तवः ॥ 15 ॥

  17. जञानेन तु तद अज्ञानं येषां नाशितम आत्मनः तेषाम आदित्यवज जञानं परकाशयति तत्परम ॥ 16 ॥

  18. तद्बुद्धयस तदात्मानस तन्निष्ठास तत्परायणाः गच्छन्त्य अपुनरावृत्तिं जञाननिर्धूतकल्मषाः ॥ 17 ॥

  19. विद्याविनयसंपन्ने बराह्मणे गवि हस्तिनि शुनि चैव शवपाके च पण्डिताः समदर्शिनः ॥ 18 ॥

  20. इहैव तैर जितः सर्गॊ येषां साम्ये सथितं मनः निर्दॊषं हि समं बरह्म तस्माद बरह्मणि ते सथिताः ॥ 19 ॥

  21. न परहृष्येत परियं पराप्य नॊद्विजेत पराप्य चाप्रियम सथिरबुद्धिर असंमूढॊ बरह्मविद बरह्मणि सथितः ॥ 20 ॥

  22. बाह्यस्पर्शेष्व असक्तात्मा विन्दत्य आत्मनि यत सुखम स बरह्मयॊगयुक्तात्मा सुखम अक्षयम अश्नुते ॥ 21 ॥

  23. ये हि संस्पर्शजा भॊगा दुःखयॊनय एव ते आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ 22 ॥

  24. शक्नॊतीहैव यः सॊढुं पराक शरीरविमॊक्षणात कामक्रॊधॊद्भवं वेगं स युक्तः स सुखी नरः ॥ 23 ॥

  25. यॊ ऽनतःसुखॊ ऽनतरारामस तथान्तर्ज्यॊतिर एव यः स यॊगी बरह्मनिर्वाणं बरह्मभूतॊ ऽधिगच्छति ॥ 24 ॥

  26. लभन्ते बरह्मनिर्वाणम ऋषयः कषीणकल्मषाः छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ 25 ॥

  27. कामक्रॊधवियुक्तानां यतीनां यतचेतसाम अभितॊ बरह्मनिर्वाणं वर्तते विदितात्मनाम ॥ 26 ॥

  28. सपर्शान कृत्वा बहिर बाह्यांश चक्षुश चैवान्तरे भरुवॊः पराणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ 27 ॥

  29. यतेन्द्रियमनॊबुद्धिर मुनिर मॊक्षपरायणः विगतेच्छाभयक्रॊधॊ यः सदा मुक्त एव सः ॥ 28 ॥

  30. भॊक्तारं यज्ञतपसां सर्वलॊकमहेश्वरम ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 28

Previous: अध्याय 26