धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 26

  1. शरीभगवान उवाच इमं विवस्वते यॊगं परॊक्तवान अहम अव्ययम विवस्वान मनवे पराह मनुर इक्ष्वाकवे ऽबरवीत ॥ 1 ॥

  2. एवं परम्पराप्राप्तम इमं राजर्षयॊ विदुः स कालेनेह महता यॊगॊ नष्टः परंतप ॥ 2 ॥

  3. स एवायं मया ते ऽदय यॊगः परॊक्तः पुरातनः भक्तॊ ऽसि मे सखा चेति रहस्यं हय एतद उत्तमम ॥ 3 ॥

  4. अर्जुन उवाच अपरं भवतॊ जन्म परं जन्म विवस्वतः कथम एतद विजानीयां तवम आदौ परॊक्तवान इति ॥ 4 ॥

  5. शरीभगवान उवाच बहूनि मे वयतीतानि जन्मानि तव चार्जुन तान्य अहं वेद सर्वाणि न तवं वेत्थ परंतप ॥ 5 ॥

  6. अजॊ ऽपि सन्न अव्ययात्मा भूतानाम ईश्वरॊ ऽपि सन परकृतिं सवाम अधिष्ठाय संभवाम्य आत्ममायया ॥ 6 ॥

  7. यदा यदा हि धर्मस्य गलानिर भवति भारत अभ्युत्थानम अधर्मस्य तदात्मानं सृजाम्य अहम ॥ 7 ॥

  8. परित्राणाय साधूनां विनाशाय च दुष्कृताम धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ 8 ॥

  9. जन्म कर्म च मे दिव्यम एवं यॊ वेत्ति तत्त्वतः तयक्त्वा देहं पुनर्जन्म नैति माम एति सॊ ऽरजुन ॥ 9 ॥

  10. वीतरागभयक्रॊधा मन्मया माम उपाश्रिताः बहवॊ जञानतपसा पूता मद्भावम आगताः ॥ 10 ॥

  11. ये यथा मां परपद्यन्ते तांस तथैव भजाम्य अहम मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 11 ॥

  12. काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः कषिप्रं हि मानुषे लॊके सिद्धिर भवति कर्मजा ॥ 12 ॥

  13. चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः तस्य कर्तारम अपि मां विद्ध्य अकर्तारम अव्ययम ॥ 13 ॥

  14. न मां कर्माणि लिम्पन्ति न मे कर्मफले सपृहा इति मां यॊ ऽभिजानाति कर्मभिर न स बध्यते ॥ 14 ॥

  15. एवं जञात्वा कृतं कर्म पूर्वैर अपि मुमुक्षुभिः कुरु कर्मैव तस्मात तवं पूर्वैः पूर्वतरं कृतम ॥ 15 ॥

  16. किं कर्म किमकर्मेति कवयॊ ऽपय अत्र मॊहिताः तत ते कर्म परवक्ष्यामि यज जञात्वा मॊक्ष्यसे ऽशुभात ॥ 16 ॥

  17. कर्मणॊ हय अपि बॊद्धव्यं बॊद्धव्यं च विकर्मणः अकर्मणश च बॊद्धव्यं गहना कर्मणॊ गतिः ॥ 17 ॥

  18. कर्मण्य अकर्म यः पश्येद अकर्मणि च कर्म यः स बुद्धिमान मनुष्येषु स युक्तः कृत्स्नकर्मकृत ॥ 18 ॥

  19. यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः जञानाग्निदग्धकर्माणं तम आहुः पण्डितं बुधाः ॥ 19 ॥

  20. तयक्त्वा कर्मफलासङ्गं नित्यतृप्तॊ निराश्रयः कर्मण्य अभिप्रवृत्तॊ ऽपि नैव किं चित करॊति सः ॥ 20 ॥

  21. निराशीर यतचित्तात्मा तयक्तसर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन नाप्नॊति किल्बिषम ॥ 21 ॥

  22. यदृच्छालाभसंतुष्टॊ दवन्द्वातीतॊ विमत्सरः समः सिद्धाव असिद्धौ च कृत्वापि न निबध्यते ॥ 22 ॥

  23. गतसङ्गस्य मुक्तस्य जञानावस्थितचेतसः यज्ञायाचरतः कर्म समग्रं परविलीयते ॥ 23 ॥

  24. बरह्मार्पणं बरह्म हविर बरह्माग्नौ बरह्मणा हुतम बरह्मैव तेन गन्तव्यं बरह्मकर्मसमाधिना ॥ 24 ॥

  25. दैवम एवापरे यज्ञं यॊगिनः पर्युपासते बरह्माग्नाव अपरे यज्ञं यज्ञेनैवॊपजुह्वति ॥ 25 ॥

  26. शरॊत्रादीनीन्द्रियाण्य अन्ये संयमाग्निषु जुह्वति शब्दादीन विषयान अन्य इन्द्रियाग्निषु जुह्वति ॥ 26 ॥

  27. सर्वाणीन्द्रियकर्माणि पराणकर्माणि चापरे आत्मसंयमयॊगाग्नौ जुह्वति जञानदीपिते ॥ 27 ॥

  28. दरव्ययज्ञास तपॊयज्ञा यॊगयज्ञास तथापरे सवाध्यायज्ञानयज्ञाश च यतयः संशितव्रताः ॥ 28 ॥

  29. अपाने जुह्वति पराणं पराणे ऽपानं तथापरे पराणापानगती रुद्ध्वा पराणायामपरायणाः ॥ 29 ॥

  30. अपरे नियताहाराः पराणान पराणेषु जुह्वति सर्वे ऽपय एते यज्ञविदॊ यज्ञक्षपितकल्मषाः ॥ 30 ॥

  31. यज्ञशिष्टामृतभुजॊ यान्ति बरह्म सनातनम नायं लॊकॊ ऽसत्य अयज्ञस्य कुतॊ ऽनयः कुरुसत्तम ॥ 31 ॥

  32. एवं बहुविधा यज्ञा वितता बरह्मणॊ मुखे कर्मजान विद्धि तान सर्वान एवं जञात्वा विमॊक्ष्यसे ॥ 32 ॥

  33. शरेयान दरव्यमयाद यज्ञाज जञानयज्ञः परंतप सर्वं कर्माखिलं पार्थ जञाने परिसमाप्यते ॥ 33 ॥

  34. तद विद्धि परणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते जञानं जञानिनस तत्त्वदर्शिनः ॥ 34 ॥

  35. यज जञात्वा न पुनर मॊहम एवं यास्यसि पाण्डव येन भूतान्य अशेषेण दरक्ष्यस्य आत्मन्य अथॊ मयि ॥ 35 ॥

  36. अपि चेद असि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं जञानप्लवेनैव वृजिनं संतरिष्यसि ॥ 36 ॥

  37. यथैधांसि समिद्धॊ ऽगनिर भस्मसात कुरुते ऽरजुन जञानाग्निः सर्वकर्माणि भस्मसात कुरुते तथा ॥ 37 ॥

  38. न हि जञानेन सदृशं पवित्रम इह विद्यते तत सवयं यॊगसंसिद्धः कालेनात्मनि विन्दति ॥ 38 ॥

  39. शरद्धावाँल लभते जञानं तत्परः संयतेन्द्रियः जञानं लब्ध्वा परां शान्तिम अचिरेणाधिगच्छति ॥ 39 ॥

  40. अज्ञश चाश्रद्दधानश च संशयात्मा विनश्यति नायं लॊकॊ ऽसति न परॊ न सुखं संशयात्मनः ॥ 40 ॥

  41. यॊगसंन्यस्तकर्माणं जञानसंछिन्नसंशयम आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ 41 ॥

  42. तस्माद अज्ञानसंभूतं हृत्स्थं जञानासिनात्मनः छित्त्वैनं संशयं यॊगम आतिष्ठॊत्तिष्ठ भारत ॥ 42 ॥

Reach this point to mark the section finished.

Continue to अध्याय 27

Previous: अध्याय 25