अर्जुन उवाच जयायसी चेत कर्मणस ते मता बुद्धिर जनार्दन तत किं कर्मणि घॊरे मां नियॊजयसि केशव ॥ 1 ॥
वयामिश्रेणैव वाक्येन बुद्धिं मॊहयसीव मे तद एकं वद निश्चित्य येन शरेयॊ ऽहम आप्नुयाम ॥ 2 ॥
शरीभगवान उवाच लॊके ऽसमिन दविविधा निष्ठा पुरा परॊक्ता मयानघ जञानयॊगेन सांख्यानां कर्मयॊगेन यॊगिनाम ॥ 3 ॥
न कर्मणाम अनारम्भान नैष्कर्म्यं पुरुषॊ ऽशनुते न च संन्यसनाद एव सिद्धिं समधिगच्छति ॥ 4 ॥
न हि कश चित कषणम अपि जातु तिष्ठत्य अकर्मकृत कार्यते हय अवशः कर्म सर्वः परकृतिजैर गुणैः ॥ 5 ॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा समरन इन्द्रियार्थान विमूढात्मा मिथ्याचारः स उच्यते ॥ 6 ॥
यस तव इन्द्रियाणि मनसा नियम्यारभते ऽरजुन कर्मेन्द्रियैः कर्मयॊगम असक्तः स विशिष्यते ॥ 7 ॥
नियतं कुरु कर्म तवं कर्म जयायॊ हय अकर्मणः शरीरयात्रापि च ते न परसिध्येद अकर्मणः ॥ 8 ॥
यज्ञार्थात कर्मणॊ ऽनयत्र लॊकॊ ऽयं कर्मबन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ 9 ॥
सहयज्ञाः परजाः सृष्ट्वा पुरॊवाच परजापतिः अनेन परसविष्यध्वम एष वॊ ऽसत्व इष्टकामधुक ॥ 10 ॥
देवान भावयतानेन ते देवा भावयन्तु वः परस्परं भावयन्तः शरेयः परम अवाप्स्यथ ॥ 11 ॥
इष्टान भॊगान हि वॊ देवा दास्यन्ते यज्ञभाविताः तैर दत्तान अप्रदायैभ्यॊ यॊ भुङ्क्ते सतेन एव सः ॥ 12 ॥
यज्ञशिष्टाशिनः सन्तॊ मुच्यन्ते सर्वकिल्बिषैः भुञ्जते ते तव अघं पापा ये पचन्त्य आत्मकारणात ॥ 13 ॥
अन्नाद भवन्ति भूतानि पर्जन्याद अन्नसंभवः यज्ञाद भवति पर्जन्यॊ यज्ञः कर्मसमुद्भवः ॥ 14 ॥
कर्म बरह्मॊद्भवं विद्धि बरह्माक्षरसमुद्भवम तस्मात सर्वगतं बरह्म नित्यं यज्ञे परतिष्ठितम ॥ 15 ॥
एवं परवर्तितं चक्रं नानुवर्तयतीह यः अघायुर इन्द्रियारामॊ मॊघं पार्थ स जीवति ॥ 16 ॥
यस तव आत्मरतिर एव सयाद आत्मतृप्तश च मानवः आत्मन्य एव च संतुष्टस तस्य कार्यं न विद्यते ॥ 17 ॥
नैव तस्य कृतेनार्थॊ नाकृतेनेह कश चन न चास्य सर्वभूतेषु कश चिद अर्थव्यपाश्रयः ॥ 18 ॥
तस्माद असक्तः सततं कार्यं कर्म समाचर असक्तॊ हय आचरन कर्म परम आप्नॊति पूरुषः ॥ 19 ॥
कर्मणैव हि संसिद्धिम आस्थिता जनकादयः लॊकसंग्रहम एवापि संपश्यन कर्तुम अर्हसि ॥ 20 ॥
यद यद आचरति शरेष्ठस तत तद एवेतरॊ जनः स यत परमाणं कुरुते लॊकस तद अनुवर्तते ॥ 21 ॥
न मे पार्थास्ति कर्तव्यं तरिषु लॊकेषु किं चन नानवाप्तम अवाप्तव्यं वर्त एव च कर्मणि ॥ 22 ॥
यदि हय अहं न वर्तेयं जातु कर्मण्य अतन्द्रितः मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 23 ॥
उत्सीदेयुर इमे लॊका न कुर्यां कर्म चेद अहम संकरस्य च कर्ता सयाम उपहन्याम इमाः परजाः ॥ 24 ॥
सक्ताः कर्मण्य अविद्वांसॊ यथा कुर्वन्ति भारत कुर्याद विद्वांस तथासक्तश चिकीर्षुर लॊकसंग्रहम ॥ 25 ॥
न बुद्धिभेदं जनयेद अज्ञानां कर्मसङ्गिनाम जॊषयेत सर्वकर्माणि विद्वान युक्तः समाचरन ॥ 26 ॥
परकृतेः करियमाणानि गुणैः कर्माणि सर्वशः अहंकारविमूढात्मा कर्ताहम इति मन्यते ॥ 27 ॥
तत्त्ववित तु महाबाहॊ गुणकर्मविभागयॊः गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ 28 ॥
परकृतेर गुणसंमूढाः सज्जन्ते गुणकर्मसु तान अकृत्स्नविदॊ मन्दान कृत्स्नविन न विचालयेत ॥ 29 ॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा निराशीर निर्ममॊ भूत्वा युध्यस्व विगतज्वरः ॥ 30 ॥
ये मे मतम इदं नित्यम अनुतिष्ठन्ति मानवाः शरद्धावन्तॊ ऽनसूयन्तॊ मुच्यन्ते ते ऽपि कर्मभिः ॥ 31 ॥
ये तव एतद अभ्यसूयन्तॊ नानुतिष्ठन्ति मे मतम सर्वज्ञानविमूढांस तान विद्धि नष्टान अचेतसः ॥ 32 ॥
सदृशं चेष्टते सवस्याः परकृतेर जञानवान अपि परकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ 33 ॥
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ वयवस्थितौ तयॊर न वशम आगच्छेत तौ हय अस्य परिपन्थिनौ ॥ 34 ॥
शरेयान सवधर्मॊ विगुणः परधर्मात सवनुष्ठितात सवधर्मे निधनं शरेयः परधर्मॊ भयावहः ॥ 35 ॥
अर्जुन उवाच अथ केन परयुक्तॊ ऽयं पापं चरति पूरुषः अनिच्छन्न अपि वार्ष्णेय बलाद इव नियॊजितः ॥ 36 ॥
शरीभगवान उवाच काम एष करॊध एष रजॊगुणसमुद्भवः महाशनॊ महापाप्मा विद्ध्य एनम इह वैरिणम ॥ 37 ॥
धूमेनाव्रियते वह्निर यथादर्शॊ मलेन च यथॊल्बेनावृतॊ गर्भस तथा तेनेदम आवृतम ॥ 38 ॥
आवृतं जञानम एतेन जञानिनॊ नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ 39 ॥
इन्द्रियाणि मनॊ बुद्धिर अस्याधिष्ठानम उच्यते एतैर विमॊहयत्य एष जञानम आवृत्य देहिनम ॥ 40 ॥
तस्मात तवम इन्द्रियाण्य आदौ नियम्य भरतर्षभ पाप्मानं परजहि हय एनं जञानविज्ञाननाशनम ॥ 41 ॥
इन्द्रियाणि पराण्य आहुर इन्द्रियेभ्यः परं मनः मनसस तु परा बुद्धिर यॊ बुद्धेः परतस तु सः ॥ 42 ॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम आत्मना जहि शत्रुं महाबाहॊ कामरूपं दुरासदम ॥ 43 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 25
Reach this point to mark the section finished.
Continue to अध्याय 26