धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 23

  1. धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः मामकाः पाण्डवाश चैव किम अकुर्वत संजय ॥ 1 ॥

  2. संजय उवाच दृष्ट्वा तु पाण्डवानीकं वयूढं दुर्यॊधनस तदा आचार्यम उपसंगम्य राजा वचनम अब्रवीत ॥ 2 ॥

  3. पश्यैतां पाण्डुपुत्राणाम आचार्य महतीं चमूम वयूढां दरुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥

  4. अत्र शूरा महेष्वासा भीमार्जुनसमा युधि युयुधानॊ विराटश च दरुपदश च महारथः ॥ 4 ॥

  5. धृष्टकेतुश चेकितानः काशिराजश च वीर्यवान पुरुजित कुन्तिभॊजश च शैब्यश च नरपुंगवः ॥ 5 ॥

  6. युधामन्युश च विक्रान्त उत्तमौजाश च वीर्यवान सौभद्रॊ दरौपदेयाश च सर्व एव महारथाः ॥ 6 ॥

  7. अस्माकं तु विशिष्टा ये तान निबॊध दविजॊत्तम नायका मम सैन्यस्य संज्ञार्थं तान बरवीमि ते ॥ 7 ॥

  8. भवान भीष्मश च कर्णश च कृपश च समितिंजयः अश्वत्थामा विकर्णश च सौमदत्तिर जयद्रथः ॥ 8 ॥

  9. अन्ये च बहवः शूरा मदर्थे तयक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9 ॥

  10. अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम पर्याप्तं तव इदम एतेषां बलं भीमाभिरक्षितम ॥ 10 ॥

  11. अयनेषु च सर्वेषु यथाभागम अवस्थिताः भीष्मम एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ 11 ॥

  12. तस्य संजनयन हर्षं कुरुवृद्धः पितामहः सिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान ॥ 12 ॥

  13. ततः शङ्खाश च भेर्यश च पणवानकगॊमुखाः सहसैवाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत ॥ 13 ॥

  14. ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ माधवः पाण्डवश चैव दिव्यौ शङ्खौ परदध्मतुः ॥ 14 ॥

  15. पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः ॥ 15 ॥

  16. अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः नकुलः सहदेवश च सुघॊषमणिपुष्पकौ ॥ 16 ॥

  17. काश्यश च परमेष्वासः शिखण्डी च महारथः धृष्टद्युम्नॊ विराटश च सात्यकिश चापराजितः ॥ 17 ॥

  18. दरुपदॊ दरौपदेयाश च सर्वशः पृथिवीपते सौभद्रश च महाबाहुः शङ्खान दध्मुः पृथक पृथक ॥ 18 ॥

  19. स घॊषॊ धार्तराष्ट्राणां हृदयानि वयदारयत नभश च पृथिवीं चैव तुमुलॊ वयनुनादयन ॥ 19 ॥

  20. अथ वयवस्थितान दृष्ट्वा धार्तराष्ट्रान कपिध्वजः परवृत्ते शस्त्रसंपाते धनुर उद्यम्य पाण्डवः ॥ 20 ॥

  21. हृषीकेशं तदा वाक्यम इदम आह महीपते सेनयॊर उभयॊर मध्ये रथं सथापय मे ऽचयुत ॥ 21 ॥

  22. यावद एतान निरीक्षे ऽहं यॊद्धुकामान अवस्थितान कैर मया सह यॊद्धव्यम अस्मिन रणसमुद्यमे ॥ 22 ॥

  23. यॊत्स्यमानान अवेक्षे ऽहं य एते ऽतर समागताः धार्तराष्ट्रस्य दुर्बुद्धेर युद्धे परियचिकीर्षवः ॥ 23 ॥

  24. एवम उक्तॊ हृषीकेशॊ गुडाकेशेन भारत सेनयॊर उभयॊर मध्ये सथापयित्वा रथॊत्तमम ॥ 24 ॥

  25. भीष्मद्रॊणप्रमुखतः सर्वेषां च महीक्षिताम उवाच पार्थ पश्यैतान समवेतान कुरून इति ॥ 25 ॥

  26. तत्रापश्यत सथितान पार्थः पितॄन अथ पितामहान आचार्यान मातुलान भरातॄन पुत्रान पौत्रान सखींस तथा ॥ 26 ॥

  27. शवशुरान सुहृदश चैव सेनयॊर उभयॊर अपि तान समीक्ष्य स कौन्तेयः सर्वान बन्धून अवस्थितान ॥ 27 ॥

  28. कृपया परयाविष्टॊ विषीदन्न इदम अब्रवीत दृष्ट्वेमं सवजनं कृष्ण युयुत्सुं समुपस्थितम ॥ 28 ॥

  29. सीदन्ति मम गात्राणि मुखं च परिशुष्यति वेपथुश च शरीरे मे रॊमहर्षश च जायते ॥ 29 ॥

  30. गाण्डीवं सरंसते हस्तात तवक चैव परिदह्यते न च शक्नॊम्य अवस्थातुं भरमतीव च मे मनः ॥ 30 ॥

  31. निमित्तानि च पश्यामि विपरीतानि केशव न च शरेयॊ ऽनुपश्यामि हत्वा सवजनम आहवे ॥ 31 ॥

  32. न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च किं नॊ राज्येन गॊविन्द किं भॊगैर जीवितेन वा ॥ 32 ॥

  33. येषाम अर्थे काङ्क्षितं नॊ राज्यं भॊगाः सुखानि च त इमे ऽवस्थिता युद्धे पराणांस तयक्त्वा धनानि च ॥ 33 ॥

  34. आचार्याः पितरः पुत्रास तथैव च पितामहाः मातुलाः शवशुराः पौत्राः शयालाः संबन्धिनस तथा ॥ 34 ॥

  35. एतान न हन्तुम इच्छामि घनतॊ ऽपि मधुसूदन अपि तरैलॊक्यराज्यस्य हेतॊः किं नु महीकृते ॥ 35 ॥

  36. निहत्य धार्तराष्ट्रान नः का परीतिः सयाज जनार्दन पापम एवाश्रयेद अस्मान हत्वैतान आततायिनः ॥ 36 ॥

  37. तस्मान नार्हा वयं हन्तुं धार्तराष्ट्रान सवबान्धवान सवजनं हि कथं हत्वा सुखिनः सयाम माधव ॥ 37 ॥

  38. यद्य अप्य एते न पश्यन्ति लॊभॊपहतचेतसः कुलक्षयकृतं दॊषं मित्रद्रॊहे च पातकम ॥ 38 ॥

  39. कथं न जञेयम अस्माभिः पापाद अस्मान निवर्तितुम कुलक्षयकृतं दॊषं परपश्यद्भिर जनार्दन ॥ 39 ॥

  40. कुलक्षये परणश्यन्ति कुलधर्माः सनातनाः धर्मे नष्टे कुलं कृत्स्नम अधर्मॊ ऽभिभवत्य उत ॥ 40 ॥

  41. अधर्माभिभवात कृष्ण परदुष्यन्ति कुलस्त्रियः सत्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥ 41 ॥

  42. संकरॊ नरकायैव कुलघ्नानां कुलस्य च पतन्ति पितरॊ हय एषां लुप्तपिण्डॊदकक्रियाः ॥ 42 ॥

  43. दॊषैर एतैः कुलघ्नानां वर्णसंकरकारकैः उत्साद्यन्ते जातिधर्माः कुलधर्माश च शाश्वताः ॥ 43 ॥

  44. उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासॊ भवतीत्य अनुशुश्रुम ॥ 44 ॥

  45. अहॊ बत महत पापं कर्तुं वयवसिता वयम यद राज्यसुखलॊभेन हन्तुं सवजनम उद्यताः ॥ 45 ॥

  46. यदि माम अप्रतीकारम अशस्त्रं शस्त्रपाणयः धार्तराष्ट्रा रणे हन्युस तन मे कषेमतरं भवेत ॥ 46 ॥

  47. एवम उक्त्वार्जुनः संख्ये रथॊपस्थ उपाविशत विसृज्य सशरं चापं शॊकसंविग्नमानसः ॥ 47 ॥

Reach this point to mark the section finished.

Continue to अध्याय 24

Previous: अध्याय 22