धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 22

  1. [स] ततॊ युधिष्ठिरॊ राजा सवां सेनां समचॊदयत परतिव्यूहन्न अनीकानि भीष्मस्य भरतर्षभ ॥ 1 ॥

  2. यथॊद्दिष्टान्य अनीकानि परत्यव्यूहन्त पाण्डवाः सवर्गं परम अभीप्सन्तः सुयुद्धेन कुरूद्वहाः ॥ 2 ॥

  3. मध्ये शिखण्डिनॊ ऽनीकं रक्षितं सव्यसाचिना धृष्टद्युम्नस्य च सवयं भीष्मेण परिपालितम ॥ 3 ॥

  4. अनीकं दक्षिणं राजन युयुधानेन पालितम शरीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥ 4 ॥

  5. महेन्द्र यानप्रतिमं रथं तु; सॊपस्करं हाटकरत्नचित्रम युधिष्ठिरः काञ्चनभाण्ड यॊक्त्रं; समास्थितॊ नागकुलस्य मध्ये ॥ 5 ॥

  6. समुच्छ्रितं दान्तशलाकम अस्य; सुपाण्डुरं छत्रम अतीव भाति परदक्षिणं चैनम उपाचरन्ति; महर्षयः संस्तुतिभिर नरेन्द्रम ॥ 6 ॥

  7. पुरॊहिताः शत्रुवधं वदन्तॊ; महर्षिवृद्धाः शरुतवन्त एव जप्यैश च मन्त्रैश च तथौषधीभिः; समन्ततः सवस्त्य अयनं परचक्रुः ॥ 7 ॥

  8. ततः स वस्त्राणि तथैव गाश च; फलानि पुष्पाणि तथैव निष्कान कुरूत्तमॊ बराह्मण सान महात्मा; कुर्वन ययौ शक्र इवामरेभ्यः ॥ 8 ॥

  9. सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्य जाम्बूनदहेमचित्रः रथॊ ऽरजुनस्याग्निर इवार्चि माली; विभ्राजते शवेतहयः सुचक्रः ॥ 9 ॥

  10. तम आस्थितः केशव संगृहीतं; कपिध्वजं गाण्डिवबाणहस्तः धनुर्धरॊ यस्य समः पृथिव्यां; न विद्यते नॊ भविता वा कदा चित ॥ 10 ॥

  11. उद्वर्तयिष्यंस तव पुत्र सेनाम; अतीव रौद्रं स बिभर्ति रूपम अनायुधॊ यः सुभुजॊ भुजाभ्यां; नराश्वनागान युधि भस्म कुर्यात ॥ 11 ॥

  12. स भीमसेनः सहितॊ यमाभ्यां; वृकॊदरॊ वीर रथस्य गॊप्ता तं परेक्ष्य मत्तर्षभ सिंहखेलं; लॊके महेन्द्रप्रतिमानकल्पम ॥ 12 ॥

  13. समीक्ष्य सेनाग्रगतं दुरासदं; परविव्यथुः पङ्कगता इवॊष्ट्राः वृकॊदरं वारणराजदर्पं; यॊधास तवदीया भयविघ्न सत्त्वाः ॥ 13 ॥

  14. अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम अब्रवीद भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥ 14 ॥

  15. [वा] य एष गॊप्ता परतपन बलस्थॊ; यॊ नः सेनां सिंह इवेक्षते च स एष भीष्मः कुरुवंशकेतुर; येनाहृतास तरिंशतॊ वाजिमेधाः ॥ 15 ॥

  16. एतान्य अनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण ॥ 16 ॥

  17. [धृ] केषां परहृष्टास तत्राग्रे यॊधा युध्यन्ति संजय उदग्रमनसः के ऽतर के वा दीना विचेतसः ॥ 17 ॥

  18. के पूर्वं पराहरंस तत्र युद्धे हृदयकम्पने मामकाः पाण्डवानां वा तन ममाचक्ष्व संजय ॥ 18 ॥

  19. कस्य सेना समुदये गन्धमाल्यसमुद्भवः वाचः परदक्षिणाश चैव यॊधानाम अभिगर्जताम ॥ 19 ॥

  20. [स] उभयॊः सेनयॊस तत्र यॊधा जहृषिरे मुदा सरग धूपपानगन्धानाम उभयत्र समुद्भवः ॥ 20 ॥

  21. संहतानाम अनीकानां वयूढानां भरतर्षभ संसर्पताम उदीर्णानां विमर्दः सुमहान अभूत ॥ 21 ॥

  22. वादित्रशब्दस तुमुलः शङ्खभेरी विमिश्रितः कुञ्जराणां च नदतां सैन्यानां च परहृष्यताम ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 23

Previous: अध्याय 21