धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 21

  1. [स] बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम विषादम अगमद राजा कुन्तीपुत्रॊ युधिष्ठिरः ॥ 1 ॥

  2. वयूहं भीष्मेण चाभेद्यं कल्पितं परेक्ष्य पाण्डवः अभेद्यम इव संप्रेक्ष्य विषण्णॊ ऽरजुनम अब्रवीत ॥ 2 ॥

  3. धनंजय कथं शक्यम अस्माभिर यॊद्धुम आहवे धार्तराष्ट्रैर महाबाहॊ येषां यॊद्धा पितामहः ॥ 3 ॥

  4. अक्षॊभ्यॊ ऽयम अभेद्यश च भीष्मेणामित्रकर्शिना कल्पितः शास्त्रदृष्टेन विधिना भूरि तेजसा ॥ 4 ॥

  5. ते वयं संशयं पराप्ताः स सैन्याः शत्रुकर्शन कथम अस्मान महाव्यूहाद उद्यानं नॊ भविष्यति ॥ 5 ॥

  6. अथार्जुनॊ ऽबरवीत पार्थं युधिष्ठिरम अमित्रहा विषण्णम अभिसंप्रेक्ष्य तव राजन्न अनीकिनाम ॥ 6 ॥

  7. परज्ञयाभ्यधिकाञ शूरान गुणयुक्तान बहून अपि जयन्त्य अल्पतरा येन तन निबॊध विशां पते ॥ 7 ॥

  8. तत तु ते कारणं राजन परवक्ष्याम्य अनसूयवे नारदस तम ऋषिर वेद भीष्मद्रॊणौ च पाण्डव ॥ 8 ॥

  9. एतम एवार्थम आश्रित्य युद्धे देवासुरे ऽबरवीत पितामहः किल पुरा महेन्द्रादीन दिवौकसः ॥ 9 ॥

  10. न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः यथासत्यानृशंस्याभ्यां धर्मेणैवॊद्यमेन च ॥ 10 ॥

  11. तयक्त्वाधर्मं च लॊभं च मॊहं चॊद्यमम आस्थिताः युध्यध्वम अनहंकारा यतॊ धर्मस ततॊ जयः ॥ 11 ॥

  12. एवं राजन विजानीहि धरुवॊ ऽसमाकं रणे जयः यथा मे नारदः पराह यतः कृष्णस ततॊ जयः ॥ 12 ॥

  13. गुणभूतॊ जयः कृष्णे पृष्ठतॊ ऽनवेति माधवम अन्यथा विजयश चास्य संनतिश चापरॊ गुणः ॥ 13 ॥

  14. अनन्त तेजा गॊविन्दः शत्रुपूगेषु निर्व्यथः पुरुषः सनातनतमॊ यतः कृष्णस ततॊ जयः ॥ 14 ॥

  15. पुरा हय एष हरिर भूत्वा वैकुण्ठॊ ऽकुण्ठसायकः सुरासुरान अवस्फूर्जन्न अब्रवीत के जयन्त्व इति ॥ 15 ॥

  16. अनु कृष्णं जयेमेति यैर उक्तं तत्र तैर जितम तत्प्रसादाद धि तरैलॊक्यं पराप्तं शक्रादिभिः सुरैः ॥ 16 ॥

  17. तस्य ते न वयथां कां चिद इह पश्यामि भारत यस्य ते जयम आशास्ते विश्वभुक तरिदशेश्वरः ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 22

Previous: अध्याय 20