[धृ] सूर्यॊदये संजय के नु पूर्वं; युयुत्सवॊ हृष्यमाणा इवासन मामका वा भीष्म नेत्राः समीके; पाण्डवा वा भीम नेत्रास तदानीम ॥ 1 ॥
केषां जघन्यौ सॊमसूर्यौ स वायू; केषां सेनां शवापदा वयाभषन्त केषां यूनां मुखवर्णाः परसन्नाः; सर्वं हय एतद बरूहि तत्त्वं यथावत ॥ 2 ॥
[स] उभे सेने तुल्यम इवॊपयाते; उभे वयूहे हृष्टरूपे नरेन्द्र उभे चित्रे वनराजि परकाशे; तथैवॊभे नागरथाश्वपूर्णे ॥ 3 ॥
उभे सेने बृहती भीमरूपे; तथैवॊभे भारत दुर्विषह्ये तथैवॊभे सवर्गजयाय सृष्टे; तथा हय उभे सत्पुरुषार्य गुप्ते ॥ 4 ॥
पश्चान मुखाः कुरवॊ धार्तराष्ट्राः; सथिताः पार्थाः पराङ्मुखा यॊत्स्यमानाः दैत्येन्द्र सेनेव च कौरवाणां; देवेन्द्र सेनेव च पाण्डवानाम ॥ 5 ॥
शुक्रॊ वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ शवापदा वयाभषन्त गजेन्द्राणां मदगन्धांश च तीव्रान; न सेहिरे तव पुत्रस्य नागाः ॥ 6 ॥
दुर्यॊधनॊ हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं परभिन्नम समास्थितॊ मध्यगतः कुरूणां; संस्तूयमानॊ बन्दिभिर मागधैश च ॥ 7 ॥
चन्द्रप्रभं शवेतम अस्यातपत्रं; सौवर्णी सरग भराजते चॊत्तमाङ्गे तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः ॥ 8 ॥
भीष्मॊ ऽगरतः सर्वसैन्यस्य वृद्धः; शवेतच छत्रः शवेतधनुः स शङ्खः शवेतॊष्णीषः पाण्डुरेण धवजेन; शवेतैर अश्वैः शवेतशैलप्रकाशः ॥ 9 ॥
तस्य सैन्यं धार्तराष्ट्राश च सर्वे; बाह्लीकानाम एकदेशः शलश च ये चाम्बष्ठाः कषत्रिया ये च सिन्धौ; तथा सौवीराः पञ्च नदाश च शूराः ॥ 10 ॥
शॊणैर हयै रुक्मरथॊ महात्मा; दरॊणॊ महाबाहुर अदीनसत्त्वः आस्ते गुरुः परयशाः सर्वराज्ञां; पश्चाच चमूम इन्द्र इवाभिरक्षन ॥ 11 ॥
वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रॊ जयश च शाल्वा मत्स्याः केकयाश चापि सर्वे; गजानीकैर भरातरॊ यॊत्स्यमानाः ॥ 12 ॥
शारद्वतश चॊत्तरधूर महात्मा; महेष्वासॊ गौतमश चित्रयॊधी शकैः किरातैर यवनैः पह्लवैश च; सार्धं चमूम उत्तरतॊ ऽभिपाति ॥ 13 ॥
महारथैर अन्धकवृष्णिभॊजैः; सौराष्ट्रकैर नैरृतैर आत्तशस्त्रैः बृहद्बलः कृतवर्माभिगुप्तॊ; बलं तवदीयं दक्षिणतॊ ऽभिपाति ॥ 14 ॥
संशप्तकानाम अयुतं रथानां; मृत्युर जयॊ वार्जुनस्येति सृष्टाः येनार्जुनस तेन राजन कृतास्त्राः; परयाता वै ते तरिगर्ताश च शूराः ॥ 15 ॥
साग्रं शतसहस्रं तु नागानां तव भारत नागे नागे रथशतं शतं चाश्वा रथे रथे ॥ 16 ॥
अश्वे ऽशवे दश धानुष्का धानुष्के दश चर्मिणः एवं वयूढान्य अनीकानि भीष्मेण तव भारत ॥ 17 ॥
अव्यूहन मानुषं वयूहं दैवं गान्धर्वम आसुरम दिवसे दिवसे पराप्ते भीष्मः शांतनवॊ ऽगरणीः ॥ 18 ॥
महारथौघविपुलः समुद्र इव पर्वणि भीष्मेण धार्तराष्ट्राणां वयूहः परत्यङ्मुखॊ युधि ॥ 19 ॥
अनन्तरूपा धवजिनी तवदीया; नरेन्द्र भीमा न तु पाण्डवानाम तां तव एव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश चार्जुनश च ॥ 20 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 20
Reach this point to mark the section finished.
Continue to अध्याय 21