धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 19

  1. [धृ] अक्षौहिण्यॊ दशैकां च वयूढां दृष्ट्वा युधिष्ठिरः कथम अल्पेन सैन्येन परत्यव्यूहत पाण्डवः ॥ 1 ॥

  2. यॊ वेद मानुषं वयूहं दैवं गान्धर्वम आसुरम कथं भीष्मं स कौन्तेयः परत्यव्यूहत पाण्डवः ॥ 2 ॥

  3. [स] धार्तराष्ट्राण्य अनीकानि दृष्ट्वा वयूढानि पाण्डवः अभ्यभाषत धर्मात्मा धर्मराजॊ धनंजयम ॥ 3 ॥

  4. महर्षेर वचनात तात वेदयन्ति बृहस्पतेः संहतान यॊधयेद अल्पान कामं विस्तारयेद बहून ॥ 4 ॥

  5. सूचीमुखम अनीकं सयाद अल्पानां बहुभिः सह अस्माकं च तथा सैन्यम अल्पीयः सुतरां परैः ॥ 5 ॥

  6. एतद वचनम आज्ञाय महर्षेर वयूह पाण्डव तच छरुत्वा धर्मराजस्य परत्यभाषत फल्गुणः ॥ 6 ॥

  7. एष वयूहामि ते राजन वयूहं परमदुर्जयम अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥ 7 ॥

  8. यः स वात इवॊद्धूतः समरे दुःसहः परैः स नः पुरॊ यॊत्स्यति वै भीमः परहरतां वरः ॥ 8 ॥

  9. तेजांसि रिपुसैन्यानां मृद्नन पुरुषसत्तमः अग्रे ऽगरणीर यास्यति नॊ युद्धॊपाय विचक्षणः ॥ 9 ॥

  10. यं दृष्ट्वा पार्थिवाः सर्वे दुर्यॊधन पुरॊगमाः निवर्तिष्यन्ति संभ्रान्ताः सिंहं कषुद्रमृगा इव ॥ 10 ॥

  11. तं सर्वे संश्रयिष्यामः पराकारम अकुतॊभयम भीमं परहरतां शरेष्ठं वज्रपाणिम इवामराः ॥ 11 ॥

  12. न हि सॊ ऽसति पुमाँल लॊके यः संक्रुद्धं वृकॊदरम दरष्टुम अत्युग्र कर्माणं विषहेत नरर्षभम ॥ 12 ॥

  13. भीमसेनॊ गदां बिभ्रद वज्रसारमयीं दृढाम चरन वेगेन महता समुद्रम अपि शॊषयेत ॥ 13 ॥

  14. केकया धृष्टकेतुश च चेकितानश च वीर्यवान एत तिष्ठन्ति सामात्याः परेक्षकास ते नरेश्वर ॥ 14 ॥

  15. धृतराष्ट्रस्य दायादा इति बीभत्सुर अब्रवीत बरुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष अपूजयंस तदा वाग्भिर अनुकूलाभिर आहवे ॥ 15 ॥

  16. एवम उक्त्वा महाबाहुस तथा चक्रे धनंजयः वयूह्य तानि बलान्य आशु परययौ फल्गुनस तदा ॥ 16 ॥

  17. संप्रयातान कुरून दृष्ट्वा पाण्डवानां महाचमूः गङ्गेव पूर्णा सतिमिता सयन्दमाना वयदृश्यत ॥ 17 ॥

  18. भीमसेनॊ ऽगरणीस तेषां धृष्टद्युम्नश च पार्षतः नकुलः सहदेवश च धृष्टकेतुश च वीर्यवान ॥ 18 ॥

  19. समुद्यॊज्य ततः पश्चाद राजाप्य अक्षौहिणी वृतः भरातृभिः सह पुत्रैश च सॊ ऽभयरक्षत पृष्ठतः ॥ 19 ॥

  20. चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती दरौपदेयाः स सौभद्राः पृष्ठगॊपास तरस्विनः ॥ 20 ॥

  21. धृष्टद्युम्नश च पाञ्चाल्यस तेषां गॊप्ता महारथः सहितः पृतना शूरै रथमुख्यैः परभद्रकैः ॥ 21 ॥

  22. शिखण्डी तु ततः पश्चाद अर्जुनेनाभिरक्षितः यत्तॊ भीष्मविनाशाय परययौ भरतर्षभ ॥ 22 ॥

  23. पृष्ठगॊपॊ ऽरजुनस्यापि युयुधानॊ महारथः चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ॥ 23 ॥

  24. राजा तु मध्यमानीके कुन्तीपुत्रॊ युधिष्ठिरः बृहद्भिः कुञ्जरैर मत्तैश चलद्भिर अचलैर इव ॥ 24 ॥

  25. अक्षौहिण्या च पाञ्चाल्यॊ यज्ञसेनॊ महामनाः विराटम अन्वयात पश्चात पाण्डवार्थे पराक्रमी ॥ 25 ॥

  26. तेषाम आदित्यचन्द्राभाः कनकॊत्तम भूषणाः नाना चिह्नधरा राजन रथेष्व आसन महाध्वजाः ॥ 26 ॥

  27. समुत्सर्प्य ततः पश्चाद धृष्टद्युम्नॊ महारथः भरातृभिः सह पुत्रैश च सॊ ऽभयरक्षद युधिष्ठिरम ॥ 27 ॥

  28. तवदीयानां परेषां च रथेषु विविधान धवजान अभिभूयार्जुनस्यैकॊ धवजस तस्थौ महाकपिः ॥ 28 ॥

  29. पादातास तव अग्रतॊ ऽगच्छन्न असि शक्त्यृष्टि पाणयः अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ॥ 29 ॥

  30. वारणा दशसाहस्राः परभिन्नकरटा मुखाः शूरा हेममयैर जालैर दीप्यमाना इवाचलाः ॥ 30 ॥

  31. कषरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः राजानम अन्वयुः पश्चाच चलन्त इव पर्वताः ॥ 31 ॥

  32. भीमसेनॊ गदां भीमां परकर्षन परिघॊपमाम परचकर्ष महत सैन्यं दुराधर्षॊ महामनाः ॥ 32 ॥

  33. तम अर्कम इव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम न शेकुः सर्वतॊ यॊधाः परतिवीक्षितुम अन्तिके ॥ 33 ॥

  34. वज्रॊ नामैष तु वयूहॊ दुर्भिदः सर्वतॊ मुखः चापविद्युद धवजॊ घॊरॊ गुप्तॊ गाण्डीवधन्वना ॥ 34 ॥

  35. यं परतिव्यूह्य तिष्ठन्ति पाण्डवास तव वाहिनीम अजेयॊ मानुषे लॊके पाण्डवैर अभिरक्षितः ॥ 35 ॥

  36. संध्यां तिष्ठत्सु सैन्येषु सूर्यस्यॊदयनं परति परावात स पृषतॊ वायुर अनभ्रे सतनयित्नुमान ॥ 36 ॥

  37. विष्वग वाताश च वान्त्य उग्रा नीचैः शर्कर कर्षिणः रजश चॊद्धूयमानं तु तमसाच छादयज जगत ॥ 37 ॥

  38. पपात महती चॊल्का पराङ्मुखी भरतर्षभ उद्यन्तं सूर्यम आहत्य वयशीर्यत महास्वना ॥ 38 ॥

  39. अथ सज्जीयमानेषु सैन्येषु भरतर्षभ निष्प्रभॊ ऽभयुदितात सूर्यः स घॊषॊ भूश चचाल ह वयशीर्यत स नादा च तदा भरतसत्तम ॥ 39 ॥

  40. निर्घाता बहवॊ राजन दिक्षु सर्वासु चाभवन परादुरासीद रजस तीव्रं न पराज्ञायत किं चन ॥ 40 ॥

  41. धवजानां धूयमानानां सहसा मातरिश्वना किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः ॥ 41 ॥

  42. महतां स पताकानाम आदित्यसमतेजसाम सर्वं झण झणी भूतम आसीत तालवनेष्व इव ॥ 42 ॥

  43. एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः वयवस्थिताः परतिव्यूह्य तव पुत्रस्य वाहिनीम ॥ 43 ॥

  44. सरंसन्त इव मज्जानॊ यॊधानां भरतर्षभ दृष्ट्वाग्रतॊ भीमसेनं गदापाणिम अवस्थितम ॥ 44 ॥

Reach this point to mark the section finished.

Continue to अध्याय 20

Previous: अध्याय 18