धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 1

  1. [ज] कथं युयुधिरे वीराः कुरुपाण्डवसॊमकाः पार्थिवाश च महाभागा नानादेशसमागताः ॥ 1 ॥

  2. [व] यथा युयुधिरे वीराः कुरुपाण्डवसॊमकाः कुरुक्षेत्रे तपःक्षेत्रे शृणु तत पृथिवीपते ॥ 2 ॥

  3. अवतीर्य कुरुक्षेत्रं पाण्डवाः सह सॊमकाः कौरवान अभ्यवर्तन्त जिगीषन्तॊ महाबलाः ॥ 3 ॥

  4. वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः आशंसन्तॊ जयं युद्धे वधं वाभिमुखा रणे ॥ 4 ॥

  5. अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम पराङ्मुखाः पश्चिमे भागे नयविशन्त स सैनिकाः ॥ 5 ॥

  6. समन्तपञ्चकाद बाह्यं शिबिराणि सहस्रशः कारयाम आस विधिवत कुन्तीपुत्रॊ युधिष्ठिरः ॥ 6 ॥

  7. शून्येव पृथिवी सर्वा बालवृद्धावशेषिता निरश्व पुरुषा चासीद रथकुञ्जरवर्जिता ॥ 7 ॥

  8. यावत तपति सूर्यॊ हि जम्बूद्वीपस्य मण्डलम तावद एव समावृत्तं बलं पार्थिव सत्तम ॥ 8 ॥

  9. एकस्थाः सर्ववर्णास ते मण्डलं बहुयॊजनम पर्याक्रामन्त देशांश च नदीः शैलान वनानि च ॥ 9 ॥

  10. तेषां युधिष्ठिरॊ राजा सर्वेषां पुरुषर्षभ आदिदेश स वाहानां भक्ष्यभॊज्यम अनुत्तमम ॥ 10 ॥

  11. संज्ञाश च विविधास तास तास तेषां चक्रे युधिष्ठिरः एवं वादी वेदितव्यः पाण्डवेयॊ ऽयम इत्य उत ॥ 11 ॥

  12. अभिज्ञानानि सर्वेषां संज्ञाश चाभरणानि च यॊजयाम आस कौरव्यॊ युद्धकाल उपस्थिते ॥ 12 ॥

  13. दृष्ट्वा धवजाग्रं पार्थानां धार्तराष्ट्रॊ महामनाः सह सर्वैर महीपालैः परत्यव्यूहत पाण्डवान ॥ 13 ॥

  14. पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि मध्ये नागसहस्रस्य भरातृभिः परिवारितम ॥ 14 ॥

  15. दृष्ट्वा दुर्यॊधनं हृष्टाः सर्वे पाण्डवसैनिकाः दध्मुः सर्वे महाशङ्खान भेरीर जघ्नुः सहस्रशः ॥ 15 ॥

  16. ततः परहृष्टां सवां सेनाम अभिवीक्ष्याथ पाण्डवाः बभूवुर हृष्टमनसॊ वासुदेवश च वीर्यवान ॥ 16 ॥

  17. ततॊ यॊधान हर्षयन्तौ वासुदेवधनंजयौ दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे सथितौ ॥ 17 ॥

  18. पाञ्चजन्यस्य निर्घॊषं देवदत्तस्य चॊभयॊः शरुत्वा स वाहना यॊधाः शकृन मूत्रं परसुस्रुवुः ॥ 18 ॥

  19. यथा सिंहस्य नदतः सवनं शरुत्वेतरे मृगाः तरसेयुस तद्वद एवासीद धार्तराष्ट्र बलं तदा ॥ 19 ॥

  20. उदतिष्ठद रजॊ भौमं न पराज्ञायत किं चन अन्तर धीयत चादित्यः सैन्येन रजसावृतः ॥ 20 ॥

  21. ववर्ष चात्र पर्जन्यॊ मांसशॊणितवृष्टिमान वयुक्षन सर्वाण्य अनीकानि तद अद्भुतम इवाभवत ॥ 21 ॥

  22. वायुस ततः परादुरभून नीचैः शर्कर कर्षणः विनिघ्नंस तान्य अनीकानि विधमंश चैव तद रजः ॥ 22 ॥

  23. उभे सेने तदा राजन युद्धाय मुदिते भृशम कुरुक्षेत्रे सथिते यत्ते सागरक्षुभितॊपमे ॥ 23 ॥

  24. तयॊस तु सेनयॊर आसीद अद्भुतः स समागमः युगान्ते समनुप्राप्ते दवयॊः सागरयॊर इव ॥ 24 ॥

  25. शून्यासीत पृथिवी सर्वा बालवृद्धावशेषिता तेन सेना समूहेन समानीतेन कौरवैः ॥ 25 ॥

  26. ततस ते समयं चक्रुः कुरुपाण्डवसॊमकाः धर्मांश च सथापयाम आसुर युद्धानां भरतर्षभ ॥ 26 ॥

  27. निवृत्ते चैव नॊ युद्धे परीतिश च सयात परस्परम यथा पुरं यथायॊगं न च सयाच छलनं पुनः ॥ 27 ॥

  28. वाचा युद्धे परवृत्ते नॊ वाचैव परतियॊधनम निष्क्रान्तः पृतना मध्यान न हन्तव्यः कथं चन ॥ 28 ॥

  29. रथी च रथिना यॊध्यॊ गजेन गजधूर गतः अश्वेनाश्वी पदातिश च पदातेनैव भारत ॥ 29 ॥

  30. यथायॊगं यथा वीर्यं यथॊत्साहं यथा वयः समाभाष्य परहर्तव्यं न विश्वस्ते न विह्वले ॥ 30 ॥

  31. परेण सह संयुक्तः परमत्तॊ विमुखस तथा कषीणशस्त्रॊ विवर्मा च न हन्तव्यः कथं चन ॥ 31 ॥

  32. न सूतेषु न धुर्येषु न च शस्त्रॊपनायिषु न भेरीशङ्खवादेषु परहर्तव्यं कथं चन ॥ 32 ॥

  33. एवं ते समयं कृत्वा कुरुपाण्डवसॊमकाः विस्मयं परमं जग्मुः परेक्षमाणाः परस्परम ॥ 33 ॥

  34. निविश्य च महात्मानस ततस ते पुरुषर्षभाः हृष्टरूपाः सुमनसॊ बभूवुः सह सैनिकाः ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 2

Previous: अध्याय 197