[स] ततॊ मुहूर्तात तुमुलः शब्दॊ हृदयकम्पनः अश्रूयत महाराज यॊधानां परयुयुत्सताम ॥ 1 ॥
शङ्खदुन्दुभिनिर्घॊषैर वारणानां च बृंहितैः रथानां नेमिघॊषैश च दीर्यतीव वसुंधरा ॥ 2 ॥
हयानां हेषमाणानां यॊधानां तत्र गर्जताम कषणेन खं दिशश चैव शब्देनापूरितं तदा ॥ 3 ॥
पुत्राणां तव दुर्धर्षे पाण्डवानां तथैव च समकम्पन्त सैन्यानि परस्परसमागमे ॥ 4 ॥
तत्र नागा रथाश चैव जाम्बूनदविभूषिताः भराजमाना वयदृश्यन्त मेघा इव स विद्युतः ॥ 5 ॥
धवजा बहुविधाकारास तावकानां नराधिप काञ्चनाङ्गदिनॊ रेजुर जवलिता इव पावकाः ॥ 6 ॥
सवेषां चैव परेषां च समदृश्यन्त भारत महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्व इव ॥ 7 ॥
काञ्चनैः कवचैर वीरा जवलनार्कसमप्रभैः संनद्धाः परत्यदृश्यन्त गरहाः परज्वलिता इव ॥ 8 ॥
उद्यतैर आयुधैश चित्रैस तलबद्धाः पताकिनः ऋषभाक्षा महेष्वासाश चमूमुखगता बभुः ॥ 9 ॥
पृष्ठगॊपास तु भीष्मस्य पुत्रास तव नराधिप दुःशासनॊ दुर्विषहॊ दुर्मुखॊ दुःसहस तथा ॥ 10 ॥
विविंशतिश चित्रसेनॊ विकर्णश च महारथः सत्यव्रतः पुरुमित्रॊ जयॊ भूरिश्रवाः शलः ॥ 11 ॥
रथा विंशतिसाहस्रास तथैषाम अनुयायिनः अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः ॥ 12 ॥
शाल्वा मत्स्यास तथाम्बष्ठास तरिगर्ताः केकयास तथा सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः ॥ 13 ॥
दवादशैते जनपदाः सर्वे शूरास तनुत्यजः महता रथवंशेन ते ऽभयरक्षन पितामहम ॥ 14 ॥
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम माघदॊ येन नृपतिस तद्रथानीकम अन्वयात ॥ 15 ॥
रथानां चक्ररक्षाश च पादप्रक्षाश च दन्तिनाम अभूवन वाहिनीमध्ये शतानाम अयुतानि षट ॥ 16 ॥
पादाताश चाग्रतॊ ऽगच्छन धनुश चर्मासि पाणयः अनेकशतसाहस्रा नखरप्रासयॊधिनः ॥ 17 ॥
अक्षौहिण्यॊ दशैका च तव पुत्रस्य भारत अदृश्यन्त महाराज गङ्गेव यमुनान्तरे ॥ 18 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 18
Reach this point to mark the section finished.
Continue to अध्याय 19