धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 16

  1. [स] तवद युक्तॊ ऽयम अनुप्रश्नॊ महाराज यथार्हसि न तु दुर्यॊधने दॊषम इमम आसक्तुम अर्हसि ॥ 1 ॥

  2. य आत्मनॊ दुश्चरिताद अशुभं पराप्नुयान नरः एनसा तेन नान्यं स उपाशङ्कितुम अर्हति ॥ 2 ॥

  3. महाराज मनुष्येषु निन्द्यं यः सर्वम आचरेत स वध्यः सर्वलॊकस्य निन्दितानि समाचरन ॥ 3 ॥

  4. निकारॊ निकृतिप्रज्ञैः पाण्डवैस तवत्प्रतीक्षया अनुभूतः सहामात्यैः कषान्तं च सुचिरं वने ॥ 4 ॥

  5. हयानां च गजानां च शूराणां चामितौजसाम परत्यक्षं यन मया दृष्टं दृष्टं यॊगबलेन च ॥ 5 ॥

  6. शृणु तत पृथिवीपाल मा च शॊके मनः कृथाः दिष्टम एतत पुरा नूनम एवं भावि नराधिप ॥ 6 ॥

  7. नमस्कृत्वा पितुस ते ऽहं पाराशर्याय धीमते यस्य परसादाद दिव्यं मे पराप्तं जञानम अनुत्तमम ॥ 7 ॥

  8. दृष्टिश चातीन्द्रिया राजन दूराच छरवणम एव च परचित्तस्य विज्ञानम अतीतानागतस्य च ॥ 8 ॥

  9. वयुत्थितॊत्पत्तिविज्ञानम आकाशे च गतिः सदा शस्त्रैर असङ्गॊ युद्धेषु वरदानान महात्मनः ॥ 9 ॥

  10. शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम भारतानां महद युद्धं यथाभूल लॊमहर्षणम ॥ 10 ॥

  11. तेष्व अनीकेषु यत तेषु वयूढेषु च विधानतः दुर्यॊधनॊ महाराज दुःशासनम अथाब्रवीत ॥ 11 ॥

  12. दुःशासन रथास तूर्णं युज्यन्तां भीष्मरक्षिणः अनीकानि च सर्वाणि शीघ्रं तवम अनुचॊदय ॥ 12 ॥

  13. अयं मा समनुप्राप्तॊ वर्षपूगाभिचिन्तितः पाण्डवानां स सैन्यानां कुरूणां च समागमः ॥ 13 ॥

  14. नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात हन्याद गुप्तॊ हय असौ पार्थान सॊमकांश च स सृञ्जयान ॥ 14 ॥

  15. अब्रवीच च विशुद्धात्मा नाहं हन्यां शिखण्डिनम शरूयते सत्री हय असौ पूर्वं तस्माद वर्ज्यॊ रणे मम ॥ 15 ॥

  16. तस्माद भीष्मॊ रक्षितव्यॊ विशेषेणेति मे मतिः शिखण्डिनॊ वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥ 16 ॥

  17. तथा पराच्याश परतीच्याश च दाक्षिणात्यॊत्तरा पथाः सर्वशस्त्रास्त्रकुशलास ते रक्षन्तु पितामहम ॥ 17 ॥

  18. अरक्ष्यमाणं हि वृकॊ हन्यात सिंहं महाबलम मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥ 18 ॥

  19. वामं चक्रं युधामन्युर उत्तमौजाश च दक्षिणम गॊप्तारौ फल्गुनस्यैतौ फल्गुनॊ ऽपि शिखण्डिनः ॥ 19 ॥

  20. संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः यथा न हन्याद गाङ्गेयं दुःशासन तथा कुरु ॥ 20 ॥

  21. ततॊ रजन्यां वयुष्टातां शब्दः समभवन महान करॊशतां भूमिपालानां युज्यतां युज्यताम इति ॥ 21 ॥

  22. शङ्खदुन्दुभिनिर्घॊषैः सिंहनादैश च भारत हयहेषित शब्दैश च रथनेमि सवनैस तथा ॥ 22 ॥

  23. गजानां बृंहतां चैव यॊधानां चाभिगर्जताम कष्वेडितास्फॊटितॊत्क्रुष्टैस तुमुलं सर्वतॊ ऽभवत ॥ 23 ॥

  24. उदतिष्ठन महाराज सर्वं युक्तम अशेषतः सूर्यॊदये महत सैन्यं कुरुपाण्डवसेनयॊः तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ॥ 24 ॥

  25. तत्र नागा रथाश चैव जाम्बूनदपरिष्कृताः विभ्राजमाना दृश्यन्ते मेघा इव स विद्युतः ॥ 25 ॥

  26. रथानीकान्य अदृश्यन्त नगराणीव भूरिशः अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत ॥ 26 ॥

  27. धनुर्भिर ऋष्टिभिः खड्गैर गदाभिः शक्तितॊमरैः यॊधाः परहरणैः शुभ्रैः सवेष्व अनीकेष्व अवस्थिताः ॥ 27 ॥

  28. गजा रथाः पदाताश च तुरगाश च विशां पते वयतिष्ठन वागुराकाराः शतशॊ ऽथ सहस्रशः ॥ 28 ॥

  29. धवजा बहुविधाकारा वयदृश्यन्त समुच्छ्रिताः सवेषां चैव परेषां च दयुतिमन्तः सहस्रशः ॥ 29 ॥

  30. काञ्चना मणिचित्राङ्गा जवलन्त इव पावकाः अर्चिष्मन्तॊ वयरॊचन्त धवजा राज्ञां सहस्रशः ॥ 30 ॥

  31. महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्व इव संनद्धास तेषु ते वीरा ददृशुर युद्धकाङ्क्षिणः ॥ 31 ॥

  32. उद्यतैर आयुधैर चित्रास तलबद्धाः कलापिनः ऋषभाक्षा मनुष्येन्द्राश चमूमुखगता बभुः ॥ 32 ॥

  33. शकुनिः सौबलः शल्यः सौन्धवॊ ऽथ जयद्रथः विन्दानुविन्दाव आवन्त्यौ काम्बॊजश च सुदक्षिणः ॥ 33 ॥

  34. शरुतायुधश च कालिङ्गॊ जयत्सेनश च पार्थिवः बृहद्बलश च कौशल्यः कृतवर्मा च सत्वतः ॥ 34 ॥

  35. दशैते पुरुषव्याघ्रः शूराः परिघबाहवः अक्षौहिणीनां पतयॊ यज्वानॊ भूरिदक्षिणाः ॥ 35 ॥

  36. एते चान्ये च बहवॊ दुर्यॊधन वशानुगाः राजानॊ राजपुत्राश च नीतिमन्तॊ महाबलाः ॥ 36 ॥

  37. संनद्धाः समदृश्यन्त सवेष्व अनीकेष्व अवस्थिताः बद्धकृष्णाजिनाः सर्वे धवजिनॊ मुञ्ज मालिनः ॥ 37 ॥

  38. सृष्टा दुर्यॊधनस्यार्थे बरह्मलॊकाय दीक्षिताः समृद्धा दशवाहिन्यः परिगृह्य वयवस्थिताः ॥ 38 ॥

  39. एकादशी धार्तराष्ट्री कौरवाणां महाचमूः अग्रतः सर्वसैन्यानां यत्र शांतनवॊ ऽगरणीः ॥ 39 ॥

  40. शवेतॊष्णीषं शवेतहयं शवेतवर्माणम अच्युतम अपश्याम महाराज भीष्मं चन्द्रम इवॊदितम ॥ 40 ॥

  41. हेमतालध्वजं भीष्मं राजते सयन्दने सथितम शवेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥ 41 ॥

  42. दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः सृञ्जयाश च महेष्वासा धृष्टद्युम्नपुरॊगमाः ॥ 42 ॥

  43. जृम्भमाणं महासिंहं दृष्ट्वा कषुद्रमृगा यथा धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ॥ 43 ॥

  44. एकादशैताः शरीजुष्टा वाहिन्यस तव भारत पाण्डवानां तथा सप्त महापुरुषपालिताः ॥ 44 ॥

  45. उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ युगान्ते समुपेतौ दवौ दृश्येते सागराव इव ॥ 45 ॥

  46. नैव नस तादृशॊ राजन दृष्टपूर्वॊ न च शरुतः अनीकानां समेतानां समवायस तथाविधः ॥ 46 ॥

Reach this point to mark the section finished.

Continue to अध्याय 17

Previous: अध्याय 15