धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 15

  1. [धृ] कथं कुरूणाम ऋषभॊ हतॊ भीष्मः शिखण्डिना कथं रथात स नयपतत पिता मे वासवॊपमः ॥ 1 ॥

  2. कथम आसंश च मे पुत्रा हीना भीष्मेण संजय बलिना देवकल्पेन गुर्वर्थे बरह्मचारिणा ॥ 2 ॥

  3. तस्मिन हते महासत्त्वे महेष्वासे महाबले महारथे नरव्याघ्र किम उ आसीन मनस तदा ॥ 3 ॥

  4. आर्तिः परा माविशति यतः शंससि मे हतम कुरूणाम ऋषभं वीरम अकम्प्यं पुरुषर्षभम ॥ 4 ॥

  5. के तं यान्तम अनुप्रेयुः के चास्यासन पुरॊगमाः के ऽतिष्ठन के नयवर्तन्त के ऽभयवर्तन्त संजय ॥ 5 ॥

  6. के शूरा रथशार्दूलम अच्युतं कषत्रियर्षभम रथानीकं गाहमानं सहसा पृष्ठतॊ ऽनवयुः ॥ 6 ॥

  7. यस तमॊ ऽरक इवापॊहन परसैन्यम अमित्रहा सहस्ररश्मि परतिमः परेषां भयम आदधत अकरॊद दुष्करं कर्म रणे कौरव शासनात ॥ 7 ॥

  8. गरसमानम अनीकानि य एनं पर्यवारयन कृतिनं तं दुराधर्षं सम्यग यास्यन्तम अन्तिके कथं शांतनवं युद्धे पाण्डवाः परत्यवारयन ॥ 8 ॥

  9. निकृन्तन्तम अनीकानि शरदंष्ट्रं तरस्विनम चापव्यात्ताननं घॊरम असि जिह्वं दुरासदम ॥ 9 ॥

  10. अत्यन्यान पुरुषव्याघ्रान हरीमन्तम अपराजितम पातयाम आस कौन्तेयः कथं तम अजितं युधि ॥ 10 ॥

  11. उग्रधन्वानम उग्रेषुं वर्तमानं रथॊत्तमे परेषाम उत्तमाङ्गानि परचिन्वन्तं शितेषुभिः ॥ 11 ॥

  12. पाण्डवानां महत सैन्यं यं दृष्ट्वॊद्यन्तम आहवे कालाग्निम इव दुर्धर्षं समवेष्टत नित्यशः ॥ 12 ॥

  13. परिकृष्य स सेनां मे दशरात्रम अनीकहा जगामास्तम इवादित्यः कृत्वा कर्म सुदुष्करम ॥ 13 ॥

  14. यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन जघान युधि यॊधानाम अर्बुदं दशभिर दिनैः ॥ 14 ॥

  15. स शेते निष्टनन भूमौ वातरुग्ण इव दरुमः मम दुर्मन्त्रितेनासौ यथा नार्ह स भारत ॥ 15 ॥

  16. कथं शांतनवं दृष्ट्वा पाण्डवानाम अनीकिनी परहर्तुम अशकत तत्र भीष्मं भीमपराक्रमम ॥ 16 ॥

  17. कथं भीष्मेण संग्रामम अकुर्वन पाण्डुनन्दनाः कथं च नाजयद भीष्मॊ दरॊणे जीवति संजय ॥ 17 ॥

  18. कृपे संनिहिते तत्र भरद्वाजात्मजे तथा भीष्मः परहरतां शरेष्ठः कथं स निधनं गतः ॥ 18 ॥

  19. कथं चातिरथस तेन पाञ्चाल्येन शिखण्डिना भीष्मॊ विनिहतॊ युद्धे देवैर अपि दुरुत्सहः ॥ 19 ॥

  20. यः सपर्धते रणे नित्यं जामदग्न्यं महाबलम अजितं जामदग्न्येन शक्रतुल्यपराक्रमम ॥ 20 ॥

  21. तं हतं समरे भीष्मं महारथबलॊचितम संजयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥ 21 ॥

  22. मामकाः के महेष्वासा नाजहुः संजयाच्युतम दुर्यॊधनं समादिष्टाः के वीराः पर्यवारयन ॥ 22 ॥

  23. यच छिखण्डि मुखाः सर्वे पाण्डवा भीष्मम अभ्ययुः कच चिन न कुरवॊ भीतास तत्यजुः संजयाच्युतम ॥ 23 ॥

  24. मौर्वी घॊषस्तनयित्नुः पृषत्क पृषतॊ महान धनुर हवाद महाशब्दॊ महामेघ इवॊन्नतः ॥ 24 ॥

  25. यद अभ्यवर्षत कौन्तेयान सपाञ्चालान स सृञ्जयान निघ्नन पररथान वीरॊ दानवान इव वज्रभृत ॥ 25 ॥

  26. इष्वस्त्रसागरं घॊरं बाणग्राहं दुरासदम कार्मुकॊर्मिणम अक्षय्यम अद्वीपं समरे ऽपलवम गदासिमकरावर्तं हयग्राहं गजाकुलम ॥ 26 ॥

  27. हयान गजान पदातांश च रथांश च तरसा बहून निमज्जयन्तं समरे परवीरापहारिणम ॥ 27 ॥

  28. विदह्यमानं कॊपेन तेजसा च परंतपम वेलेव मकरावासं के वीराः पर्यवारयन ॥ 28 ॥

  29. भीष्मॊ यद अकरॊत कर्म समरे संजयारिहा दुर्यॊधनहितार्थाय के तदास्य पुरॊ ऽभवन ॥ 29 ॥

  30. के ऽरक्षन दक्षिणं चक्रं भीष्मस्यामिततेजसः पृष्ठतः के परान वीरा उपासेधन यतव्रताः ॥ 30 ॥

  31. के पुरस्ताद अवर्तन्त रक्षन्तॊ भीष्मम अन्तिके के ऽरक्षन्न उत्तरं चक्रं वीरा वीरस्य युध्यतः ॥ 31 ॥

  32. वामे चक्रे वर्तमानाः के ऽघनन संजय सृञ्जयान समेताग्रम अनीकेषु के ऽभयरक्षन दुरासदम ॥ 32 ॥

  33. पार्श्वतः के ऽभयवर्तन्त गच्छन्तॊ दुर्गमां गतिम समूहे के परान वीरान परत्ययुध्यन्त संजय ॥ 33 ॥

  34. रक्ष्यमाणः कथं वीरैर गॊप्यमानाश च तेन ते दुर्जयानाम अनीकानि नाजयंस तरसा युधि ॥ 34 ॥

  35. सर्वलॊकेश्वरस्येव परमेष्ठि परजापतेः कथं परहर्तुम अपि ते शेकुः संजय पाण्डवाः ॥ 35 ॥

  36. यस्मिन दवीपे समाश्रित्य युध्यन्ति कुरवः परैः तं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय ॥ 36 ॥

  37. यस्य वीर्ये समाश्वस्य मम पुत्रॊ बृहद्बलः न पाण्डवान अगणयत कथं स निहतः परैः ॥ 37 ॥

  38. यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः काङ्क्षितॊ दानवान घनद्भिः पिता मम महाव्रतः ॥ 38 ॥

  39. यस्मिञ जाते महावीर्ये शंतनुर लॊकशंकरे शॊकं दुःखं च दैन्यं च पराजहात पुत्र लक्ष्मणि ॥ 39 ॥

  40. परज्ञा परायणं तज्ज्ञं सद धर्मनिरतं शुचिम वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम ॥ 40 ॥

  41. सर्वास्त्रविनयॊपेतं दान्तं शान्तं मनस्विनम हतं शांतनवं शरुत्वा मन्ये शेषं बलं हतम ॥ 41 ॥

  42. धर्माद अधर्मॊ बलवान संप्राप्त इति मे मतिः यत्र वृद्धं गुरुं हत्वा राज्यम इच्छन्ति पाण्डवाः ॥ 42 ॥

  43. जामदग्न्यः पुरा रामः सर्वास्त्रविद अनुत्तमः अम्बार्थम उद्यतः संख्ये भीष्मेण युधि निर्जितः ॥ 43 ॥

  44. तम इन्द्रसमकर्माणं ककुदं सर्वधन्विनाम हतं शंससि भीष्मं मे किं नु दुःखम अतः परम ॥ 44 ॥

  45. असकृत कषत्रिय वराताः संख्ये येन विनिर्जिताः जामदग्न्यस तथा रामः परवीर निघातिना ॥ 45 ॥

  46. तमान नूनं महावीर्याद भार्गवाद युद्धदुर्मदात तेजॊ वीर्यबलैर भूयाञ शिखण्डी दरुपदात्मजः ॥ 46 ॥

  47. यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम परमास्त्रविदं वीरं जघान भरतर्षभम ॥ 47 ॥

  48. के वीरास तम अमित्रघ्नम अन्वयुः शत्रुसंसदि शंस मे तद यथावृत्तं युद्धं भीष्मस्य पाण्डवैः ॥ 48 ॥

  49. यॊषेव हतवीरा मे सेना पुत्रस्य संजय अगॊपम इव चॊद्भ्रान्तं गॊकुलं तद बलं मम ॥ 49 ॥

  50. पौरुषं सर्वलॊकस्य परं यस्य महाहवे परासिक्ते च वस तस्मिन कथम आसीन मनस तदा ॥ 50 ॥

  51. जीविते ऽपय अद्य सामर्थ्यं किम इवास्मासु संजय घातयित्वा महावीर्यं पितरं लॊकधार्मिकम ॥ 51 ॥

  52. अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः भीष्मे हते भृशं दुःखान मन्ये शॊचन्ति पुत्रकाः ॥ 52 ॥

  53. अद्रिसारमयं नूनं सुदृढं हृदयं मम यच छरुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ 53 ॥

  54. यस्मिन्न अस्त्रं च मेधा च नीतिश च भरतर्षभे अप्रमेयाणि दुर्धर्षे कथं स निहतॊ युधि ॥ 54 ॥

  55. न चास्त्रेण न शौर्येण तपसा मेधया न च न धृत्या न पुनस तयागान मृत्यॊः कश चिद विमुच्यते ॥ 55 ॥

  56. कालॊ नूनं महावीर्यः सर्वलॊकदुरत्ययः यत्र शांतनवं भीष्मं हतं शंससि संजय ॥ 56 ॥

  57. पुत्रशॊकाभिसंतप्तॊ महद दुःखम अचिन्तयन आशंसे ऽहं पुरा तराणं भीष्माच छंतनुनन्दनात ॥ 57 ॥

  58. यदादित्यम इवापश्यत पतितं भुवि संजय दुर्यॊधनः शांतनवं किं तदा परत्यपद्यत ॥ 58 ॥

  59. नाहं सवेषां परेषां वा बुद्ध्या संजय चिन्तयन शेषं किं चित परपश्यामि परत्यनीके महीक्षिताम ॥ 59 ॥

  60. दारुणः कषत्रधर्मॊ ऽयम ऋषिभिः संप्रदर्शितः यत्र शांतनवं हत्वा राज्यम इच्छन्ति पाण्डवाः ॥ 60 ॥

  61. वयं वा राज्यम इच्छामॊ घातयित्वा पितामहम कषत्रधर्मे सथिताः पार्था नापराध्यन्ति पुत्रकाः ॥ 61 ॥

  62. एतद आर्येण कर्तव्यं कृच्छ्रास्व आपत्सु संजय पराक्रमः परं शक्त्या तच च तस्मिन परतिष्ठितम ॥ 62 ॥

  63. अनीकानि विनिघ्नन्तं हरीमन्तम अपराजितम कथं शांतनवं तात पाण्डुपुत्रा नयपातयन ॥ 63 ॥

  64. कथं युक्तान्य अनीकानि कथं युद्धं महात्मभिः कथं वा निहतॊ भीष्मः पिता संजय मे परैः ॥ 64 ॥

  65. दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः दुःशासनश च कितवॊ हते भीष्मे किम अब्रुवन ॥ 65 ॥

  66. यच छरीरैर उपस्तीर्णां नरवारणवाजिनाम शरशक्तिगदाखड्गतॊमराक्षां भयावहाम ॥ 66 ॥

  67. पराविशन कितवा मन्दाः सभां युधि दुरासदाम पराणद्यूते परतिभये के ऽदीव्यन्त नरर्षभाः ॥ 67 ॥

  68. के ऽजयन के जितास तत्र हृतलक्षा निपातिताः अन्ये भीष्माच छांतनवात तन ममाचक्ष्व संजय ॥ 68 ॥

  69. न हि मे शान्तिर अस्तीह युधि देवव्रतं हतम पितरं भीमकर्माणं शरुत्वा मे दुःखम आविशत ॥ 69 ॥

  70. आर्तिं मे हृदये रूढां महतीं पुत्र कारिताम तवं सिञ्चन सर्पिषेवाग्निम उद्दीपयसि संजय ॥ 70 ॥

  71. महान्तं भारम उद्यम्य विश्रुतं सार्व लौकिकम दृष्ट्वा विनिहतं भीष्मं मन्ये शॊचन्ति पुत्रकाः ॥ 71 ॥

  72. शरॊष्यामि तानि दुःखानि दुर्यॊधनकृतान्य अहम तस्मान मे सर्वम आचक्ष्व यद्वृत्तं तत्र संजय ॥ 72 ॥

  73. संग्रामे पृथिवीशानां मन्दस्याबुद्धि संभवम अपनीतं सुनीतं वा तन ममाचक्ष्व संजय ॥ 73 ॥

  74. यत्कृतं तत्र भीष्मेण संग्रामे जयम इच्छता तेयॊ युक्तं कृतास्त्रेण शंस तच चाप्य अशेषतः ॥ 74 ॥

  75. यथा तद अभवद युद्धं कुरुपाण्डवसेनयॊः करमेण येन यस्मिंश च काले यच च यथा च तत ॥ 75 ॥

Reach this point to mark the section finished.

Continue to अध्याय 16

Previous: अध्याय 14