[धृ] जम्बू खण्डस तवया परॊक्तॊ यथावद इह संजय विष्कम्भम अस्य परब्रूहि परिमाणं च तत्त्वतः ॥ 1 ॥
समुद्रस्य परमाणं च सम्यग अच्छिद्र दर्शन शाकद्वीपं च मे बरूहि कुश दवीपं च संजय ॥ 2 ॥
शाल्मलं चैव तत्त्वेन करौञ्चद्वीपं तथैव च बरूहि गावल्गणे सर्वं राहॊः सॊमार्कयॊस तथा ॥ 3 ॥
[स] राजन सुबहवॊ दवीपा यैर इदं संततं जगत सप्त तव अहं परवक्ष्यामि चन्द्रादित्यौ गरहांस तथा ॥ 4 ॥
अष्टादशसहस्राणि यॊजनानां विशां पते षट्शतानि च पूर्णानि विष्कम्भॊ जम्बुपर्वतः ॥ 5 ॥
लावणस्य समुद्रस्य विष्कम्भॊ दविगुणः समृतः नानाजनपदाकीर्णॊ मणिविद्रुम चित्रितः ॥ 6 ॥
नैकधातुविचित्रैश च पर्वतैर उपशॊभितः सिद्धचारणसंकीर्णः सागरः परिमण्डलः ॥ 7 ॥
शाकद्वीपं च वक्ष्यामि यथावद इह पार्थिव शृणु मे तवं यथान्यायं बरुवतः कुरुनन्दन ॥ 8 ॥
जम्बूद्वीपप्रमाणेन दविगुणः स नराधिप विष्कम्भेण महाराज सागरॊ ऽपि विभागशः कषीरॊदॊ भरतश्रेष्ठ येन संपरिवारितः ॥ 9 ॥
तत्र पुण्या जनपदा न तत्र मरियते जनः कुत एव हि दुर्भिक्षं कषमा तेजॊ युता हि ते ॥ 10 ॥
शाकद्वीपस्य संक्षेपॊ यथावद भरतर्षभ उक्त एष महाराज किम अन्यच छरॊतुम इच्छसि ॥ 11 ॥
[धृ] शाकद्वीपस्य संक्षेपॊ यथावद इह संजय उक्तस तवया महाभाग विस्तरं बरूहि तत्त्वतः ॥ 12 ॥
[स] तथैव पर्वता राजन सप्तात्र मणिभूषिताः रत्नाकरास तथा नद्यस तेषां नामानि मे शृणु अतीव गुणवत सर्वं तत्र पुण्यं जनाधिप ॥ 13 ॥
देवर्षिगन्धर्वयुतः परमॊ मेरुर उच्यते परागायतॊ महाराज मलयॊ नाम पर्वतः यतॊ मेघाः परवर्तन्ते परभवन्ति च सर्वशः ॥ 14 ॥
ततः परेण कौरव्य जलधारॊ महागिरिः यत्र नित्यम उपादत्ते वासवः परमं जलम यतॊ वर्षं परभवति वर्षा काले जनेश्वर ॥ 15 ॥
उच्चैर गिरी रैवतकॊ यत्र नित्यं परतिष्ठितः रेवती दिवि नक्षत्रं पितामह कृतॊ विधिः ॥ 16 ॥
उत्तरेण तु राजेन्द्र शयामॊ नाम महागिरिः यतः शयामत्वम आपन्नाः परजा जनपदेश्वर ॥ 17 ॥
[धृ] सुमहान संशयॊ मे ऽदय परॊक्तं संजय यत तवया परजाः कथं सूतपुत्र संप्राप्ताः शयामताम इह ॥ 18 ॥
[स] सर्वेष्व एव महाप्राज्ञ दवीपेषु कुरुनन्दन गौरः कृष्णश च वर्णौ दवौ तयॊर वर्णान्तरं नृप ॥ 19 ॥
शयामॊ यस्मात परवृत्तॊ वै तत ते वक्ष्यामि भारत आस्ते ऽतर भगवान कृष्णस तत कान्त्या शयामतां गतः ॥ 20 ॥
ततः परं कौरवेन्द्र दुर्ग शैलॊ महॊदयः केसरी केसर युतॊ यतॊ वातः परवायति ॥ 21 ॥
तेषां यॊजनविष्कम्भॊ दविगुणः परविभागशः वर्षाणि तेषु कौरव्यं संप्रॊक्तानि मनीषिभिः ॥ 22 ॥
महामेरुर महाकाशॊ जलदः कुमुदॊत्तरः जलधारात परॊ राजन सुकुमार इति समृतः ॥ 23 ॥
रैवतस्य तु कौमारः शयामस्य तु मणी चकः केसरस्याथ मॊदाकी परेण तु महापुमान ॥ 24 ॥
परिवार्य तु कौरव्य दैर्घ्यं हरस्वत्वम एव च जम्बूद्वीपेन विख्यातस तस्य मध्ये महाद्रुमः ॥ 25 ॥
शाकॊ नाम महाराज तस्य दवीपस्य मध्यगः तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ॥ 26 ॥
तत्र गच्छन्ति सिद्धाश च चारणा दैवतानि च धार्मिकाश च परजा राजंश चत्वारॊ ऽतीव भारत ॥ 27 ॥
वर्णाः सवकर्मनिरता न च सतेनॊ ऽतर दृश्यते दीर्घायुषॊ महाराज जरामृत्युविवर्जिताः ॥ 28 ॥
परजास तत्र विवर्धन्ते वर्षास्व इव समुद्रगाः नद्यः पुण्यजलास तत्र गङ्गा च बहुधा गतिः ॥ 29 ॥
सुकुमारी कुमारी च सीता कावेरका तथा महानदी च कौरव्य तथा मणिजला नदी इक्षुवर्धनिका चैव तथा भरतसत्तम ॥ 30 ॥
ततः परवृत्ताः पुण्यॊदा नद्यः कुरुकुलॊद्वह सहस्राणां शतान्य एव यतॊ वर्षति वासवः ॥ 31 ॥
न तासां नामधेयानि परिमाणं तथैव च शक्यते परिसंख्यातुं पुण्यास ता हि सरिद वराः ॥ 32 ॥
तत्र पुण्या जनपदाश चत्वारॊ लॊकसंमताः मगाश च मशकाश चैव मानसा मन्दगास तथा ॥ 33 ॥
मगा बराह्मणभूयिष्ठाः सवकर्मनिरता नृप मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ॥ 34 ॥
मानसेषु महाराज वैश्याः कर्मॊपजीविनः सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः शूद्रास तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ॥ 35 ॥
न तत्र राजा राजेन्द्र न दण्डॊ न च दण्डिकाः सवधर्मेणैव धर्मं च ते रक्षन्ति परस्परम ॥ 36 ॥
एतावद एव शक्यं तु तस्मिन दवीपे परभाषितुम एतावद एव शरॊतव्यं शाकद्वीपे महौजसि ॥ 37 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 12
Reach this point to mark the section finished.
Continue to अध्याय 13