धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 11

  1. [धृ] भारतस्यास्य वर्षस्य तथा हैमवतस्य च परमाणम आयुषः सूत फलं चापि शुभाशुभम ॥ 1 ॥

  2. अनागतम अतिक्रान्तं वर्तमानं च संजय आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥ 2 ॥

  3. [स] चत्वारि भारते वर्षे युगानि भरतर्षभ कृतं तरेता दवापरं च पुष्यं च कुरुवर्धन ॥ 3 ॥

  4. पूर्वं कृतयुगं नाम ततस तरेतायुगं विभॊ संक्षेपाद दवापरस्याथ तथ पुष्यं परवर्तते ॥ 4 ॥

  5. चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम आयुः संख्या कृतयुगे संख्याता राजसत्तम ॥ 5 ॥

  6. तत्र तरीणि सहस्राणि तरेतायां मनुजाधिप दविसहस्रं दवापरे तु शते तिष्ठति संप्रति ॥ 6 ॥

  7. न परमाण सथितिर हय अस्ति पुष्ये ऽसमिन भरतर्षभ गर्भस्थाश च मरियन्ते ऽतर तथा जाता मरियन्ति च ॥ 7 ॥

  8. महाबला महासत्त्वाः परजा गुणसमन्विताः अजायन्त कृते राजन मुनयः सुतपॊधनाः ॥ 8 ॥

  9. महॊत्साहा महात्मानॊ धार्मिकाः सत्यवादिनः जाताः कृतयुगे राजन धनिनः परियदर्शनाः ॥ 9 ॥

  10. आयुष्मन्तॊ महावीरा धनुर्धर वरा युधि जायन्ते कषत्रियाः शूरास तरेतायां चक्रवर्तिनः ॥ 10 ॥

  11. सर्ववर्णा महाराज जायन्ते दवापरे सति महॊत्साहा महावीर्याः परस्परवधैषिणः ॥ 11 ॥

  12. तेजसाल्पेन संयुक्ताः करॊधनाः पुरुषा नृप लुब्धाश चानृतकाश चैव पुष्ये जायन्ति भारत ॥ 12 ॥

  13. ईर्ष्या मानस तथा करॊधॊ मायासूया तथैव च पुष्ये भवन्ति मर्त्यानां रागॊ लॊभश च भारत ॥ 13 ॥

  14. संक्षेपॊ वर्तते राजन दवापरे ऽसमिन नराधिप गुणॊत्तरं हैमवतं हरिवर्षं ततः परम ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 12

Previous: अध्याय 10