धर्मDharmic Data

भीष्मपर्व · Bhishma Parva

अध्याय 13

  1. [स] उत्तरेषु तु कौरव्य दवीपेषु शरूयते कथा यथा शरुतं महाराज बरुवतस तन निबॊध मे ॥ 1 ॥

  2. घृततॊयः समुद्रॊ ऽतर दधि मण्डॊदकॊ ऽपरः सुरॊदः सागरश चैव तथान्यॊ घर्मसागरः ॥ 2 ॥

  3. परस्परेण दविगुणाः सर्वे दवीपा नराधिप सर्वतश च महाराज पर्वतैः परिवारिताः ॥ 3 ॥

  4. गौरस तु मध्यमे दवीपे गिरिर मानः शिलॊ महान पर्वतः पश्चिमः कृष्णॊ नारायण निभॊ नृप ॥ 4 ॥

  5. तत्र रत्नानि दिव्यानि सवयं रक्षति केशवः परजापतिम उपासीनः परजानां विदधे सुखम ॥ 5 ॥

  6. कुश दवीपे कुश सतम्बॊ मध्ये जनपदस्य ह संपूज्यते शल्मलिश च दवीपे शाल्मलिके नृप ॥ 6 ॥

  7. करौञ्चद्वीपे महाक्रौञ्चॊ गिरी रत्नचयाकरः संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥ 7 ॥

  8. गॊमन्दः पर्वतॊ राजन सुमहान सर्वधातुमान यत्र नित्यं निवसति शरीमान कमललॊचनः मॊक्षिभिः संस्तुतॊ नित्यं परभुर नारायणॊ हरिः ॥ 8 ॥

  9. कुश दवीपे तु राजेन्द्र पर्वतॊ विद्रुमैश चितः सुधामा नाम दुर्धर्षॊ दवितीयॊ हेमपर्वतः ॥ 9 ॥

  10. दयुतिमान नाम कौरव्य तृतीयः कुमुदॊ गिरिः चतुर्थः पुष्पवान नाम पञ्चमस तु कुशेशयः ॥ 10 ॥

  11. षष्ठॊ हरि गिरिर नाम षड एते पर्वतॊत्तमाः तेषाम अन्तरविष्कम्भॊ दविगुणः परविभागशः ॥ 11 ॥

  12. औद्भिदं परथमं वर्षं दवितीयं वेणुमण्डलम तृतीयं वै रथाकारं चतुर्थं पालनं समृतम ॥ 12 ॥

  13. धृतिमत पञ्चमं वर्षं षष्ठं वर्षं परभा करम सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः ॥ 13 ॥

  14. एतेषु देवगन्धर्वाः परजाश च जगतीश्वर विहरन्ति रमन्ते च न तेषु मरियते जनः ॥ 14 ॥

  15. न तेषु दस्यवः सन्ति मलेच्छ जात्यॊ ऽपि वा नृप गौर परायॊ जनः सर्वः सुकुमारश च पार्थिव ॥ 15 ॥

  16. अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर यथा शरुतं महाराज तद अव्यग्रमनाः शृणु ॥ 16 ॥

  17. करौञ्चद्वीपे महाराज करौञ्चॊ नाम महागिरिः करौञ्चात परॊ वामनकॊ वामनाद अन्धकारकः ॥ 17 ॥

  18. अन्धकारात परॊ जानन मैनाकः पर्वतॊत्तमः मैनाकात परतॊ राजन गॊविन्दॊ गिरिर उत्तमः ॥ 18 ॥

  19. गॊविन्दात तु परॊ राजन निबिडॊ नाम पर्वतः परस तु दविगुणस तेषां विष्कम्भॊ वंशवर्धन ॥ 19 ॥

  20. देशांस तत्र परवक्ष्यामि तन मे निगदतः शृणु करौञ्चस्य कुशलॊ देशॊ वामनस्य मनॊऽनुगः ॥ 20 ॥

  21. मनॊऽनुगात परश चॊष्णॊ देशः कुरुकुलॊद्वह उष्णात परः परावरकः परावराद अन्धकारकः ॥ 21 ॥

  22. अन्धकारक देशात तु मुनिदेशः परः समृतः मुनिदेशात परश चैव परॊच्यते दुन्दुभिस्वनः ॥ 22 ॥

  23. सिद्धचारणसंकीर्णॊ गौर परायॊ जनाधिप एते देशा महाराज देवगन्धर्वसेविताः ॥ 23 ॥

  24. पुष्करे पुष्करॊ नाम पर्वतॊ मणिरत्नमान तत्र नित्यं निवसति सवयं देवः परजापतिः ॥ 24 ॥

  25. तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः वाग्भिर मनॊ ऽनुकूलाभिः पूजयन्तॊ जनाधिप ॥ 25 ॥

  26. जम्बूद्वीपात परवर्तन्ते रत्नानि विविधान्य उत दवीपेषु तेषु सर्वेषु परजानां कुरुनन्दन ॥ 26 ॥

  27. विप्राणां बरह्मचर्येण सत्येन च दमेन च आरॊग्यायुः परमाणाभ्यां दविगुणं दविगुणं ततः ॥ 27 ॥

  28. एकॊ जनपदॊ राजन दवीपेष्व एतेषु भारत उक्ता जनपदा येषु धर्मश चैकः परदृश्यते ॥ 28 ॥

  29. ईश्वरॊ दण्डम उद्यम्य सवयम एव परजापतिः दवीपान एतान महाराज रक्षंस तिष्ठति नित्यदा ॥ 29 ॥

  30. स राजा स शिवॊ राजन स पिता स पितामहः गॊपायति नरश्रेष्ठ परजाः स जड पण्डिताः ॥ 30 ॥

  31. भॊजनं चात्र कौरव्य परजाः सवयम उपस्थितम सिद्धम एव महाराज भुञ्जते तत्र नित्यदा ॥ 31 ॥

  32. ततः परं समा नाम दृश्यते लॊकसंस्थितिः चतुरश्रा महाराज तरयस तरिंशत तु मण्डलम ॥ 32 ॥

  33. तत्र तिष्ठन्ति कौरव्य चत्वारॊ लॊकसंमिताः दिग गजा भरतश्रेष्ठ वामनैरावतादयः सुप्रतीकस तथा राजन परभिन्नकरटा मुखः ॥ 33 ॥

  34. तस्याहं परिमाणं तु न संख्यातुम इहॊत्सहे असंख्यातः स नित्यं हि तिर्यग ऊर्ध्वम अधस तथा ॥ 34 ॥

  35. तत्र वै वायवॊ वान्ति दिग्भ्यः सर्वाभ्य एव च असंबाधा महाराज तान निगृह्णन्ति ते गजाः ॥ 35 ॥

  36. पुष्करैः पद्मसंकाशैर वर्ष्मवद्भिर महाप्रभैः ते शनैः पुनर एवाशु वायून मुञ्चन्ति नित्यशः ॥ 36 ॥

  37. शवसद्भिर मुच्यमानास तु दिग गजैर इह मारुताः आगच्छन्ति महाराज ततस तिष्ठन्ति वै परजाः ॥ 37 ॥

  38. [धृ] परॊ वै विस्तरॊ ऽतयर्थं तवया संजय कीर्तितः दर्शितं दवीपसंस्थानम उत्तरं बरूहि संजय ॥ 38 ॥

  39. [स] उक्ता दवीपा महाराज गरहान मे शृणु तत्त्वतः सवर्भानुः कौरवश्रेष्ठ यावद एष परभावतः ॥ 39 ॥

  40. परिमण्डलॊ महाराज सवर्भानुः शरूयते गरहः यॊजनानां सहस्राणि विष्कम्भॊ दवादशास्य वै ॥ 40 ॥

  41. परिणाहेन षट तरिंशद विपुलत्वेन चानघ षष्टिम आहुः शतान्य अस्य बुधाः पौराणिकास तथा ॥ 41 ॥

  42. चन्द्रमास तु सहस्राणि राजन्न एकादश समृतः विष्कम्भेण कुरुश्रेष्ठ तरयस तरिंशत तु मण्डलम एकॊन षष्टिवैपुल्याच छीत रश्मेर महात्मनः ॥ 42 ॥

  43. सूर्यस तव अष्टौ सहस्राणि दवे चान्ये कुरुनन्दन विष्कम्भेण ततॊ राजन मण्डलं तरिंशतं समम ॥ 43 ॥

  44. अष्ट पञ्चाशतं राजन विपुलत्वेन चानघ शरूयते परमॊदारः पतंगॊ ऽसौ विभावसुः एतत परमाणम अर्कस्य निर्दिष्टम इह भारत ॥ 44 ॥

  45. स राहुश छादयत्य एतौ यथाकालं महत्तया चन्द्रादित्यौ महाराज संक्षेपॊ ऽयम उदाहृतः ॥ 45 ॥

  46. इत्य एतत ते महाराज पृच्छतः शास्त्रचक्षुषा सर्वम उक्तं यथातत्त्वं तस्माच छमम अवाप्नुहि ॥ 46 ॥

  47. यथादृष्टं मया परॊक्तं स निर्याणम इदं जगत तस्माद आश्वस कौरव्य पुत्रं दुर्यॊधनं परति ॥ 47 ॥

  48. शरुत्वेदं भरतश्रेष्ठ भूमिपर्व मनॊऽनुगम शरीमान भवति राजन्यः सिद्धार्थः साधु संमतः आयुर बलं च वीर्यं च तस्य तेजश च वर्धते ॥ 48 ॥

  49. यः शृणॊति महीपाल पर्वणीदं यतव्रतः परीयन्ते पितरस तस्य तथैव च पितामहाः ॥ 49 ॥

  50. इदं तु भारतं वर्षं यत्र वर्तामहे वयम पूर्वं परवर्तते पुण्यं तत सर्वं शरुतवान असि ॥ 50 ॥

Reach this point to mark the section finished.

Continue to अध्याय 14

Previous: अध्याय 12