[स] ततस ते पार्थिवाः सर्वे जग्मुः सवान आलयान पुनः तूष्णींभूते महाराजे भीष्मे शंतनुनन्दने ॥ 1 ॥
शरुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ईषद आगतसंत्रासस तवरयॊपजगाम ह ॥ 2 ॥
स ददर्श महात्मानं शरतल्पगतं तदा जन्म शय्या गतं देवं कार्त्तिकेयम इव परभुम ॥ 3 ॥
निमीलिताक्षं तं वीरं साश्रुकण्ठस तदा वृषः अभ्येत्य पादयॊस तस्य निपपात महाद्युतिः ॥ 4 ॥
राधेयॊ ऽहं कुरुश्रेष्ठ नित्यं चाष्कि गतस तव दवेष्यॊ ऽतयन्तम अनागाः सन्न इति चैनम उवाच ह ॥ 5 ॥
तच छरुत्वा कुरुवृद्धः सबलात संवृत्त लॊचनः शनैर उद्वीक्ष्य स सनेहम इदं वचनम अब्रवीत ॥ 6 ॥
रहितं धिष्ण्यम आलॊक्य समुत्सार्य च रक्षिणः पितेव पुत्रं गाङ्गेयः परिष्वज्यैक बाहुना ॥ 7 ॥
एह्य एहि मे विप्रतीप सपर्धसे तवं मया सह यदि मां नाभिगच्छेथा न ते शरेयॊ भवेद धरुवम ॥ 8 ॥
कौन्तेयस तवं न राधेयॊ विदितॊ नारदान मम कृष्णद्वैपायनाच चैव केशवाच च न संशयः ॥ 9 ॥
न च दवेषॊ ऽसति मे तात तवयि सत्यं बरवीमि ते तेजॊवधनिमित्तं तु परुषाण्य अहम उक्तवान ॥ 10 ॥
अकस्मात पाण्डवान हि तवं दविषसीति मतिर मम येनासि बहुषॊ रूक्षं चॊदितः सूर्यनन्दन ॥ 11 ॥
जानामि समरे वीर्यं शत्रुभिर दुःसहं तव बरह्मण्यतां च शौर्यं च दाने च परमां गतिम ॥ 12 ॥
न तवया सदृशः कश चित पुरुषेष्व अमरॊपम कुलभेदं च मत्वाहं सदा परुषम उक्तवान ॥ 13 ॥
इष्वस्ते भारसंधाने लाघवे ऽसत्रबले तथा सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥ 14 ॥
कर्ण राजपुरं गत्वा तवयैकेन धनुष्मता तस्यार्थे कुरुराजस्य राजानॊ मृदिता युधि ॥ 15 ॥
तथा च बलवान राजा जला संधॊ दुरासदः समरे समरश्लाघी तवया न सदृशॊ ऽभवत ॥ 16 ॥
बरह्मण्यः सत्यवादी च तेजसार्क इवापरः देवगर्भॊ ऽजितः संख्ये मनुष्यैर अधिकॊ भुवि ॥ 17 ॥
वयपनीतॊ ऽदय मन्युर मे यस तवां परति पुरा कृतः दैवं पुरुषकारेण न शक्यम अतिवर्तितुम ॥ 18 ॥
सॊदर्याः पाण्डवा वीरा भरातरस ते ऽरिसूदन संगच्छ तैर महाबाहॊ मम चेद इच्छसि परियम ॥ 19 ॥
मया भवतु निर्वृत्तं वैरम आदित्यनन्दन पृथिव्यां सर्वराजानॊ भवन्त्व अद्य निरामयाः ॥ 20 ॥
[कर्ण] जानाम्य अहं महाप्राज्ञ सर्वम एतन न संशयः यथा वदसि दुर्धर्ष कौन्तेयॊ ऽहं न सूतजः ॥ 21 ॥
अवकीर्णस तव अहं कुन्त्या सूतेन च विवर्धितः भुक्त्वा दुर्यॊधनैश्वर्यं न मिथ्या कर्तुम उत्सहे ॥ 22 ॥
वसु चैव शरीरं च यद उदारं तथा यशः सर्वं दुर्यॊधनस्यार्थे तयक्तं मे भूरिदक्षिण कॊपिताः पाण्डवा नित्यं मयाश्रित्य सुयॊधनम ॥ 23 ॥
अवश्य भावी वै यॊ ऽरथॊ न स शक्यॊनिवर्तितुम दैवं पुरुषकारेण कॊ निवर्तितुम उत्सहेत ॥ 24 ॥
पृथिवी कषयशंसीनि निमित्तानि पितामह भवद्भिर उपलब्धानि कथितानि च संसदि ॥ 25 ॥
पाण्डवा वासुदेवश च विदिता मम सर्वशः अजेयाः पुरुषैर अन्यैर इति तांश चॊत्सहामहे ॥ 26 ॥
अनुजानीष्व मां तात युद्धे परीतमनाः सदा अनुज्ञातस तवया वीर युध्येयम इति मे मतिः ॥ 27 ॥
दुरुक्तं विप्रतीपं वा संरम्भाच चापलात तथा यन मयापकृतं किं चित तद अनुक्षन्तुम अर्हसि ॥ 28 ॥
[भस] न चेच छक्यम अथॊत्स्रष्टुं वैरम एतत सुदारुणम अनुजानामि कर्ण तवां युध्यस्व सवर्गकाम्यया ॥ 29 ॥
विमन्युर गतसंरम्भः कुरु कर्म नृपस्य हि यथाशक्ति यथॊत्साहं सतां वृत्तेषु वृत्तवान ॥ 30 ॥
अहं तवाम अनुजानामि यद इच्छसि तद आप्नुहि कषत्रधर्मजिताँल लॊकान संप्राप्स्यसि न संशयः ॥ 31 ॥
युध्यस्व निरहंकारॊ बलवीर्य वयपाश्रयः धर्मॊ हि युद्धाच छरेयॊ ऽनयत कषत्रियस्य न विद्यते ॥ 32 ॥
परशमे हि कृतॊ यत्नः सुचिरात सुचिरं मया न चैव शकितः कर्तुं यतॊ धर्मस ततॊ जयः ॥ 33 ॥
[स] एवं बरुवन्तं गाङ्गेयम अभिवाद्य परसाद्य च राधेयॊ रथम आरुह्य परायात तव सुतं परति ॥ 34 ॥
भीष्मपर्व · Bhishma Parva
अध्याय 117
Reach this point to mark the section finished.
Continue to अध्याय 1